[गुरु] न स वेद परं धर्मं यॊ न वेद चतुष्टयम वयक्ताव्यक्ते च यत तत्त्वं संप्राप्तं परमर्षिणा ॥ 1 ॥
वयक्तं मृत्युमुखं विद्याद अव्यक्तम अमृतं पदम परवृत्ति लक्षणं धर्मम ऋषिर नारायणॊ ऽबरवीत ॥ 2 ॥
अत्रैवावस्थितं सर्वं तरैलॊक्यं सचराचरम निवृत्ति लक्षणं धर्मम अव्यक्तं बरह्म शाश्वतम ॥ 3 ॥
परवृत्ति लक्षणं धर्मं परजापतिर अथाब्रवीत परवृत्तिः पुनर आवृत्तिर निवृत्तिः परमा गतिः ॥ 4 ॥
तां गतिं परमाम एति निवृत्ति परमॊ मुनिः जञानतत्त्वपरॊ नित्यं शुभाशुभनिदर्शकः ॥ 5 ॥
तद एवम एतौ विज्ञेयाव अव्यक्तपुरुषाव उभौ अव्यक्तपुरुषाभ्यां तु यत सयाद अन्यन महत्तरम ॥ 6 ॥
तं विशेषम अवेक्षेत विशेषेण विचक्षणः अनाद्य अन्ताव उभाव एताव अलिङ्गौ चाप्य उभाव अपि ॥ 7 ॥
उभौ नित्यौ सूक्ष्मतरौ महद भयश च महत्तरौ सामान्यम एतद उभयॊर एवं हय अन्यद विशेषणम ॥ 8 ॥
परकृत्या सर्ग धर्मिण्या तथा तरिविध सत्त्वया विपरीतम अतॊ विद्यात कषेत्रज्ञस्य च लक्षणम ॥ 9 ॥
परकृतेश च विकाराणां दरष्टारम अगुणान्वितम अग्राह्यौ पुरुषाव एताव अलिङ्गत्वद असंहितौ ॥ 10 ॥
संयॊगलक्षणॊत्पत्तिः कर्मजा गृह्यते यया करणैः कर्म निर्वृत्तैः कर्ता यद यद विचेष्टते कीर्त्यते शब्दसंज्ञाभिः कॊ ऽहम एषॊ ऽपय असाव इति ॥ 11 ॥
उष्णीसवान यथा वस्त्रैस तरिभिर भवति संवृतः संवृतॊ ऽयं तथा देही सत्त्वराजस तामसैः ॥ 12 ॥
तस्माच चतुष्टयं वेद्यम एतैर हेतुभिर आचितम यथा संज्ञॊ हय अयं सम्यग अन्तकाले न मुह्यति ॥ 13 ॥
शरियं दिव्याम अभिप्रेप्सुर बरह्म वाङ्मनसा शुचिः शारीरैर नियमैर उग्रैश चरेन निष्कल्मषं तपः ॥ 14 ॥
तरैलॊक्यं तपसा वयाप्तम अन्तर्भूतेन भास्वता सूर्यश च चन्द्रमाश चैव भासतस तपसा दिवि ॥ 15 ॥
परतापस तपसॊ जञानं लॊके संशब्दितं तपः रजस तमॊ घनं यत कर्म तपसस तत सवलक्षणम ॥ 16 ॥
बरह्मचर्यम अहिंसा च शारीरं तप उच्यते वाङ्मनॊ नियमः साम्यं मानसं तप उच्यते ॥ 17 ॥
विधिज्ञेभ्यॊ दविजातिभ्यॊ गराह्यम अन्नं विशिष्यते आहारनियमेनास्य पाप्मा नश्यति राजसः ॥ 18 ॥
वैमनस्यं च विषये यान्त्य अस्य कवरणानि च तस्मात तन्मात्रम आदद्याद यावद अत्र परयॊजनम ॥ 19 ॥
अन्तकाले वयॊत्कर्षाच छनैः कुर्याद अनातुरः एवं युक्तेन मनसा जञानं तद उपपद्यते ॥ 20 ॥
रजसा चाप्य अयं देही देहवाञ शब्दवच चरेत कार्यैर अव्याहत मतिर वैराग्यात परकृतौ सथितः आ देहाद अप्रमादाच च देहान्ताद विप्रमुच्यते ॥ 21 ॥
हेतुयुक्तः सदॊत्सर्गॊ भूतानां परलयस तथा परप्रत्यय सर्गे तु नियतं नातिवर्तते ॥ 22 ॥
भवान्त परभव परज्ञा आसते ये विपर्ययम धृत्या देहान धारयन्तॊ बुद्धिसंक्षिप्त मानसाः सथानेभ्यॊ धवंसमानाश च सूक्ष्मत्वात तान उपासते ॥ 23 ॥
यथागमं च तत सर्वं बुद्ध्या तन नैव बुध्यते देहान्तं कश चिद अन्स्वास्ते भावितात्मा निराश्रयः युक्तॊ धारणया कश चित सत्तां के चिद उपासते ॥ 24 ॥
अभ्यस्यन्ति परं देवं विद्युत संशब्दिताक्षरम अन्तकाले हय उपासन्नास तपसा दग्धकिल्बिषाः ॥ 25 ॥
सर्व एते महात्मानॊ गच्छन्ति परमां गतिम सूक्ष्मं विशेषणं तेषाम अवेक्षेच छास्त्र चक्षुषा ॥ 26 ॥
देहं तु परमं विद्याद विमुक्तम अपरिग्रहम अन्तरिक्षाद अन्यतरं धारणासक्तमानसम ॥ 27 ॥
मर्त्यलॊकाद विमुच्यन्ते विद्या संयुक्त मानसाः बरह्मभूता विरजसस ततॊ यान्ति परां गतिम ॥ 28 ॥
कसाय वर्जितं जञानं येषाम उत्पद्यते ऽचलम ते यान्ति परमाँल लॊकान विशुध्यन्तॊ यथाबलम ॥ 29 ॥
भगवन्तम अजं दिव्यं विष्णुम अव्यक्तसंज्ञितम भावेन यान्ति शुद्धा ये जञानतृप्ता निराशिषः ॥ 30 ॥
जञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽवययाः पराप्य तत्परमं सथानं मॊदन्ते ऽकषरम अव्ययम ॥ 31 ॥
एतावद एतद विज्ञानम एतद अस्ति च नास्ति च तृष्णा बद्धं जगत सर्वं चक्रवत परिवर्तते ॥ 32 ॥
बिस तन्तुर यथैवायम अन्तस्थः सर्वतॊ बिसे तृष्णा तन्तुर अनाद्य अन्तस तथा देहगतः सदा ॥ 33 ॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः तद्वत संसारसूत्रं हि तृष्णा सूच्या निबध्यते ॥ 34 ॥
विकारं परकृतिं चैव पुरुषं च सनातनम यॊ यथावद विजानाति स वितृन्सॊ विमुच्यते ॥ 35 ॥
परकाशं भगवान एतद ऋषिर नारायणॊ ऽमृतम भूतानाम अनुकम्पार्थं जगाद जगतॊ हितम ॥ 36 ॥
शान्तिपर्व · Shanti Parva
अध्याय 210
Reach this point to mark the section finished.
Continue to अध्याय 211