[गुरु] अत्रॊपायं परवक्ष्यामि यथावच छास्त्र चक्षुषा तद विज्ञानाच चरन पराज्ञः पराप्नुयात परमां गतिम ॥ 1 ॥
सर्वेषाम एव भूतानां पुरुषः शरेष्ठ उच्यते पुरुषेभ्यॊ दविजान आहुर दविजेभ्यॊ मन्त्रवादिनः ॥ 2 ॥
सर्वभूतविशिष्टास ते सर्वज्ञाः सर्वदर्शिनः बराह्मणा वेद तत्त्वज्ञास तत्त्वार्थम अतिनिश्चयाः ॥ 3 ॥
नेत्रहीनॊ यथा हय एकः कृच्छ्राणि लभते ऽधवनि जञानहीनस तथा लॊके तस्माज जञानविदॊ ऽधिकाः ॥ 4 ॥
तांस तान उपासते धर्मान धर्मकामा यथागमम न तव एषाम अर्थसामान्यम अन्तरेण गुणान इमान ॥ 5 ॥
वाग देहमनसां शौचं कषमा सत्यं धृतिः समृतिः सर्वधर्मेषु धर्मज्ञा जञाल्पयन्ति गुणान इमान ॥ 6 ॥
यद इदं बरह्मणॊ रूपं बरह्मचर्यम इति समृतम परं तत सर्वभूतेभ्यस तेन यान्ति परां गतिम ॥ 7 ॥
लिङ्गसंयॊगहीनं यच छरीर सपर्शवर्जितम शरॊत्रेण शरवणं चैव चक्षुषा चैव दर्शनम ॥ 8 ॥
जिह्वया रसनं यच च तद एव परिवर्जितम बुद्ध्या च वयवसायेन बरह्मचर्यम अकल्मसम ॥ 9 ॥
सम्यग्वृत्तिर बरह्मलॊकं पराप्नुयान मध्यमः सुरान दविजाग्र्यॊ जायते विद्वान कन्यसीं वृत्तिम आस्थितः ॥ 10 ॥
सुदुष्करं बरह्मचर्यम उपायं तत्र मे शृणु संप्रवृत्तम उदीर्णं च निगृह्णीयाद दविजॊ मनः ॥ 11 ॥
यॊषितां न कथाः शराव्या न निरीक्ष्या निरम्बराः कदा चिद दर्शनाद आसां दुर्बलान आविशेद रजः ॥ 12 ॥
रागॊत्पत्तौ चरेत कृच्छ्रम अह्नस तरिर परविशेद अपः मग्नः सवप्ने च मनसा तरिर जपेद अघ मर्षणम ॥ 13 ॥
पाप्मानं निर्दहेद एवम अन्तर्भूतं रजॊ मयम जञानयुक्तेन मनसा संततेन विचक्षणः ॥ 14 ॥
कुनपामेध्य संयुक्तं यद्वद अछिद्र बन्धनम तद्वद देहगतं विद्याद आत्मानं देहबन्धनम ॥ 15 ॥
वातपित्त कफान रक्तं तवङ मांसं सनायुम अस्थि च मज्जां चैव सिरा जालैस तर्पयन्ति रसा नृणाम ॥ 16 ॥
दशविद्याद धमन्यॊ ऽतर पञ्चेन्द्रिय गुणावहाः याभिः सूक्ष्माः परतायन्ते धमन्यॊ ऽनयाः सहस्रशः ॥ 17 ॥
एवम एताः सिरा नद्यॊ रसॊदा देहसागरम तर्पयन्ति यथाकालम आपगा इव सागरम ॥ 18 ॥
मध्ये च हृदयस्यैका सिरा तव अत्र मनॊवहा शुक्रं संकल्पजं नॄणां सर्वगात्रैर विमुञ्चति ॥ 19 ॥
सर्वगात्रप्रतायिन्यस तस्या हय अनुगताः सिराः नेत्रयॊः परतिपद्यन्ते वहन्त्यस तैजसं गुणम ॥ 20 ॥
पयस्य अन्तर्हितं सर्पिर यद्वन निर्मथ्यते खजैः शुक्रं निर्मथ्यते तद्वद देहसंकल्पजैः खजैः ॥ 21 ॥
सवप्ने ऽपय एवं यथाभ्येति मनःसंकल्पजं रजः शुक्रम अस्पर्शजं देहात सृजन्त्य अस्य मनॊवहा ॥ 22 ॥
महर्षिर भगवान अत्रिर वेद तच छुक्र संभवम तरिबीजम इन्द्र दैवत्यं तस्माद इन्द्रियम उच्यते ॥ 23 ॥
ये वै शुक्रगतिं विद्युर भूतसंकरकारिकाम विरागा दग्धदॊषास ते नाप्नुयुर देहसंभवम ॥ 24 ॥
गुणानां साम्यम आगम्य मनसैव मनॊवहम देहकर्म नुदन परानान अन्तकाले विमुच्यते ॥ 25 ॥
भविता मनसॊ जञानं मन एव परतायते जयॊतिष्मद विरजॊ दिव्यम अत्र सिद्धं महात्मनाम ॥ 26 ॥
तस्मात तद अविघाताय कर्म कुर्याद अकल्मसम रजस तमश च हित्वेह न तिर्यग्गतिम आप्नुयात ॥ 27 ॥
तरुणाधिगतं जञानं जारा दुर्बलतां गतम परिपक्व बुद्धिः कालेन आदत्ते मानसं बलम ॥ 28 ॥
सुदुर्गम इव पन्थानम अतीत्य गुणबन्धनम यदा पश्येत तदा दॊषान अतीत्यामृतम अश्नुते ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 207
Reach this point to mark the section finished.
Continue to अध्याय 208