धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 204

  1. [गुरु] चतुर्विधानि भूतानि सथावराणि चराणि च अव्यक्तप्रभवान्य आहुर अव्यक्तनिधनानि च अव्यक्तनिधनं विद्याद अव्यक्तात्मात्मकं मनः ॥ 1 ॥

  2. यथाश्वत्थ कनीकायाम अन्तर्भूतॊ महाद्रुमः निष्पन्नॊ दृश्यते वयक्तम अव्यक्तात संभवस तथा ॥ 2 ॥

  3. अभिद्रवत्य अयः कान्त मयॊ निश्चेतनाव उभौ सवभावहेतुजा भावा यद्वद अन्यद अपीदृशम ॥ 3 ॥

  4. तद्वद अव्यक्तजा भावाः कर्तुः कारणलक्षणाः अचेतनाश चेतयितुः कारणाद अभिसंहिताः ॥ 4 ॥

  5. न भूः खं दयौर न भूतानि नर्षयॊ न सुरासुराः नान्यद आसीद ऋते जीवम आसेदुर न तु संहितम ॥ 5 ॥

  6. सर्वनीत्या सर्वगतं महॊ हेतुसलक्षणम अज्ञानकर्म निर्दिष्टम एतत कारणलक्षणम ॥ 6 ॥

  7. तत कारणैर हि संयुक्तं कार्यसंग्रह कारकम येनैतद वर्तते चक्रम अनादि निधनं महत ॥ 7 ॥

  8. अव्यक्तनाभं वयक्तारं विकार परिमन्दलम कषेत्रज्ञाधिष्ठितं चक्रं सनिग्धाक्षं वर्तते धरुवम ॥ 8 ॥

  9. सनिग्धत्वात तिलवत सर्वं चक्रे ऽसमिन पीड्यते जगत तिलपीडैर इवाक्रम्य भॊगैर अज्ञानसंभवैः ॥ 9 ॥

  10. कर्म तत कुरुते तर्षाद अहंकारपरिग्रहम कार्यकारण संयॊगे स हेतुर उपपादितः ॥ 10 ॥

  11. नात्येति कारणं कार्यं न कार्यं कारणं तथा कार्याणां तूपकरणे कालॊ भवति हेतुमान ॥ 11 ॥

  12. हेतुयुक्ताः परकृतयॊ विकाराश च परस्परम अन्यॊन्यम अभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥ 12 ॥

  13. सरजस तामसैर भावैश चयुतॊ हेतुबलान्वितः कषेत्रज्ञम एवानुयाति पांसुर वातेरितॊ यथा न च तैः सपृश्यते भावॊ न ते तेन महात्मना ॥ 13 ॥

  14. सरजस्कॊ ऽरजस्कश च स वै वायुर यथा भवेत तथैतद अन्तरं विद्यात कषेत्रक्षेत्रज्ञयॊर बुधः अभ्यासात स तथायुक्तॊ न गच्छेत परकृतिं पुनः ॥ 14 ॥

  15. संदेहम एतम उत्पन्नम अछिनद भगवान ऋषिः तथा वार्तां समीक्षेत कृतलक्षणसंमिताम ॥ 15 ॥

  16. बीजान्य अग्न्युपदग्धानि न रॊहन्ति यथा पुनः जञानदग्धैस तथा कलेशैर नात्मा संबध्यते पुनः ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 205

Previous: अध्याय 203