धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 1

  1. [वैषम्पायन] कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः ॥ 1 ॥

  2. तत्र ते सुमहात्मानॊ नयवसन कुरुनन्दनाः शौचं निवर्तयिष्यन्तॊ मासम एकं बहिः पुरात ॥ 2 ॥

  3. कृतॊदकं तु राजानं धर्मात्मानं युधिष्ठिरम अभिजग्मुर महात्मानः सिद्धा बरह्मर्षिसत्तमाः ॥ 3 ॥

  4. दवैपायनॊ नारदश च देवलश च महान ऋषिः देवस्थानश च कण्वश च तेषां शिष्याश च सत्तमाः ॥ 4 ॥

  5. अन्ये च वेद विद्वांसः कृतप्रज्ञा दविजातयः गृहस्थाः सनातकाः सर्वे ददृशुः कुरुसत्तमम ॥ 5 ॥

  6. अभिगम्य महात्मानः पूजिताश च यथाविधि आसनेषु महार्हेषु विविशुस ते महर्षयः ॥ 6 ॥

  7. परतिगृह्य ततः पूजां तत कालसदृशीं तदा पर्युपासन यथान्यायं परिवार्य युधिष्ठिरम ॥ 7 ॥

  8. पुण्ये भागीरथी तीरे शॊकव्याकुल चेतसम आश्वासयन्तॊ राजानं विप्राः शतसहस्रशः ॥ 8 ॥

  9. नारदस तव अब्रवीत काले धर्मात्मानं युधिष्ठिरम विचार्य मुनिभिः सार्धं तत कालसदृशं वचः ॥ 9 ॥

  10. भवतॊ बाहुवीर्येण परसादान माधवस्य च जितेयम अवनिः कृत्स्ना धर्मेण च युधिष्ठिरः ॥ 10 ॥

  11. दिष्ट्या मुक्ताः सम संग्रामाद अस्माल लॊकभयंकरात कषत्रधर्मरतश चापि कच चिन मॊदसि पाण्डव ॥ 11 ॥

  12. कच चिच च निहतामित्रः परीणासि सुहृदॊ नृप कच चिच छरियम इमां पराप्य न तवां शॊकः परबाधते ॥ 12 ॥

  13. [युधिस्ठिर] विजितेयं महीकृत्स्ना कृष्ण बाहुबलाश्रयात बराह्मणानां परसादेन भीमार्जुनबलेन च ॥ 13 ॥

  14. इदं तु मे महद दुःखं वर्तते हृदि नित्यदा कृत्वा जञातिक्षयम इमं महान्तं लॊभकारितम ॥ 14 ॥

  15. सौभद्रं दरौपदेयांश च घातयित्वा परियान सुतान जयॊ ऽयम अजयाकारॊ भगवन परतिभाति मे ॥ 15 ॥

  16. किं नु वक्ष्यति वार्ष्णेयी वधूर मे मधुसूदनम दवारकावासिनी कृष्णम इतः परतिगतं हरिम ॥ 16 ॥

  17. दरौपदी हतपुत्रेयं कृपणा हतबान्धवा अस्मत्प्रियहिते युक्ता भूयॊ पीडयतीव माम ॥ 17 ॥

  18. इदम अन्यच च भगवन यत तवां वक्ष्यामि नारद मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन यॊजितः ॥ 18 ॥

  19. यॊ ऽसौ नागायुत बलॊ लॊके ऽपरतिरथॊ रणे सिंहखेल गतिर धीमान घृणी दान्तॊ यतव्रतः ॥ 19 ॥

  20. आश्रमॊ धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः अमर्षी नित्यसंरम्भी कषेप्तास्माकं रणे रणे ॥ 20 ॥

  21. शीघ्रास्त्रश चित्रयॊधी च कृती चाद्भुतविक्रमः गूढॊत्पन्नः सुतः कुन्त्या भरातास्माकं च सॊदरः ॥ 21 ॥

  22. तॊयकर्मणि यं कुन्ती कथयाम आस सूर्यजम पुत्रं सर्वगुणॊपेतम अवकीर्णं जले पुरा ॥ 22 ॥

  23. यं सूतपुत्रं लॊकॊ ऽयं राधेयं चाप्य अमन्यत स जयेष्ठपुत्रः कुन्त्या वै भरातास्माकं च मातृजः ॥ 23 ॥

  24. अजानता मया संख्ये राज्यलुब्धेन घातितः तन मे दहति गात्राणि तूलराशिम इवानलः ॥ 24 ॥

  25. न हि तं वेद पार्थॊ ऽपि भरातरं शवेतवाहनः नाहं न भीमॊ न यमौ स तव अस्मान वेद सुव्रतः ॥ 25 ॥

  26. गता किल पृथा तस्य सकाशम इति नः शरुतम अस्माकं शम कामा वै तवं च पुत्रॊ ममेत्य अथ ॥ 26 ॥

  27. पृथाया न कृतः कामस तेन चापि महात्मना अति पश्चाद इदं मातर्य अवॊचद इति नः शरुतम ॥ 27 ॥

  28. न हि शक्ष्याम्य अहं तयक्तुं नृपं दुर्यॊधनं रणे अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत ॥ 28 ॥

  29. युधिष्ठिरेण संधिं चयदि कुर्यां मते तव भीतॊ रणे शवेतवाहाद इति मां मंस्यते जनः ॥ 29 ॥

  30. सॊ ऽहं निर्जित्य समरे विजयं सह केशवम संधास्ये धर्मपुत्रेण पश्चाद इति च सॊ ऽबरवीत ॥ 30 ॥

  31. तम अवॊचत किल पृथा पुनः पृथुल वक्षसम चतुर्णाम अभयं देहि कामं युध्यस्व फल्गुनम ॥ 31 ॥

  32. सॊ ऽबरवीन मातरं धीमान वेपमानः कृताञ्जलिः पराप्तान विषह्यांश चतुरॊ न हनिष्यामि ते सुतान ॥ 32 ॥

  33. पञ्चैव हि सुता मातर भविष्यन्ति हि ते धरुवम स कर्णा वा हते पार्थे सार्जुना वा हते मयि ॥ 33 ॥

  34. तं पुत्रगृद्धिनी भूयॊ मातापुत्रम अथाब्रवीत भरातॄणां सवस्ति कुर्वीथा येषां सवस्ति चिकीर्षसि ॥ 34 ॥

  35. तम एवम उक्त्वा तु पृथा विसृज्यॊपययौ गृहान सॊ ऽरजुनेन हतॊ वीरॊ भराता भरात्रा सहॊदरः ॥ 35 ॥

  36. न चैव विवृतॊ मन्त्रः पृथायास तस्य वा मुने अथ शूरॊ महेष्वासः पार्थेनासौ निपातितः ॥ 36 ॥

  37. अहं तव अज्ञासिषं पश्चात सवसॊदर्यं दविजॊत्तम पूर्वजं भरातरं कर्णं पृथाया वचनात परभॊ ॥ 37 ॥

  38. तेन मे दूयते ऽतीव हृदयं भरातृघातिनः कर्णार्जुन सहायॊ ऽहं जयेयम अपि वासवम ॥ 38 ॥

  39. सभायां कलिश्यमानस्य धार्तराष्ट्रैर दुरात्मभिः सहसॊत्पतितः करॊधः कर्णं दृष्ट्वा परशाम्यति ॥ 39 ॥

  40. यदाय हय अस्य गिरॊ रूक्षाः शृणॊमि कटुकॊदयाः सभायां गदतॊ दयूते दुर्यॊधनहितैषिणः ॥ 40 ॥

  41. तदा नश्यति मे करॊधः पादौ तस्य निरीक्ष्य ह कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर मम ॥ 41 ॥

  42. सादृश्य हेतुम अन्विच्छन पृथायास तव चैव ह कारणं नाधिगच्छामि कथं चिद अपि चिन्तयन ॥ 42 ॥

  43. कथं नु तस्य संग्रामे पृथिवी चक्रम अग्रसत कथं च शप्तॊ भराता मे तत तवं वक्तुम इहार्हसि ॥ 43 ॥

  44. शरॊतुम इच्छामि भगवंस तवत्तः सर्वं यथातथम भवान हि सर्वविद विद्वाँल लॊके वेद कृताकृतम ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 27