[मनु] यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह अथ तद दरक्ष्यसे बरह्म मनौ सूत्रम इवार्पितम ॥ 1 ॥
तद एव च यथा सूत्रं सुवर्णे वर्तते पुनः मुक्तास्व अथ परवालेषु मृन मये राजते तथा ॥ 2 ॥
तद्वद गॊषु मनुष्येषु तद्वद धस्ति मृगादिषु तद्वत कीत पतङ्गेषु परसक्तात्मा सवकर्मभिः ॥ 3 ॥
येन येन शरीरेण यद यत कर्म करॊत्य अयम तेन तेन शरीरेण तत तत फलम उपाश्नुते ॥ 4 ॥
यथा हय एकरसा भूमिर ओषध्यात्मानुसारिणी तथा कर्मानुगा बुद्धिर अन्तरात्मानुदर्शिनी ॥ 5 ॥
जञानपूर्वॊद्भवा लिप्सा लिप्सा पूर्वाभिसंधिता अभिसंधि पूर्वकं कर्म कर्म मूलं ततः फलम ॥ 6 ॥
फलं कर्मात्मकं विद्यात कर्म जञेयात्मकं तथा जञेयं जञानात्मकं विद्याज जञानं सदसद आत्मकम ॥ 7 ॥
जञानानां च फलानां च जञेयानां कर्मणां तथा कषयान्ते तत फलं दिव्यं जञानं जञेय परतिष्ठितम ॥ 8 ॥
महद धि परमं भूतं युक्ताः पश्यन्ति यॊगिनः अबुद्धास तं न पश्यन्ति हय आत्मस्था गुणबुद्धयः ॥ 9 ॥
पृथिवी रूपतॊ रूपम अपाम इह महत्तरम अद्भ्यॊ महत्तरं तेजस तेजसः पवनॊ महान ॥ 10 ॥
पवनाच च महद वयॊम तस्मात परतरं मनः मनसॊ महती बुद्धिर बुद्धेः कालॊ महान समृतः ॥ 11 ॥
कालात स भगवान विष्णुर यस्य सर्वम इदं जगत नादिर न मध्यं नैवान्तस तस्य देवस्य विद्यते ॥ 12 ॥
अनादित्वाद अमध्यत्वाद अनन्तत्वच च सॊ ऽवययः अत्येति सर्वदुःखानि दुःखं हय अन्तवद उच्यते ॥ 13 ॥
तद बरह्म परमं परॊक्तं तद धाम परमं समृतम तद गत्वा कालविषयाद विभुक्ता भॊक्षम आश्रिताः ॥ 14 ॥
गुणैस तव एतैः परकाशन्ते निर्गुणत्वात ततः परम निवृत्ति लक्षणॊ धर्मस तथानन्त्याय कल्पते ॥ 15 ॥
ऋचॊ यजूंसि सामानि शरीराणि वयपाश्रिताः जिह्वाग्रेषु परवर्तन्ते यत्नसाध्या विनाशिनः ॥ 16 ॥
न चैवम इष्यते बरह्म शरीराश्रय संभवम न यत्नसाध्यं तद बरह्म नादि मध्यं न चान्तवत ॥ 17 ॥
ऋचाम आदिस तथा साम्नां यजुषाम आदिर उच्यते अन्तश चादिमतां दृष्टॊ न चादिर बरह्मणः समृतः ॥ 18 ॥
अनादित्वाद अनन्तत्वात तद अनन्तम अथाव्ययम अव्ययत्वाच च निर्द्वन्धं दवन्धाभावात ततः परम ॥ 19 ॥
अदृष्टतॊ ऽनुपायाच च अप्य असंधेश च कर्मणः न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम ॥ 20 ॥
विषयेषु च संसर्गाच छाश्वतस्य च दर्शनात मनसा चान्यद आकाङ्क्षन परं न परतिपद्यते ॥ 21 ॥
गुणान यद इह पश्यन्ति तद इच्छन्त्य अपरे जनाः परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद गुणार्थिनः ॥ 22 ॥
गुणैर यस तव अवरैर युक्तः कथं विद्याद गुणान इमान अनुमानाद धि गन्तव्यं गुणैर अवयवैः सह ॥ 23 ॥
सूक्ष्मेण मनसा विद्मॊ वाचा वक्तुं न शक्नुमः मनॊ हि मनसा गराह्यं दर्शनेन च दर्शनम ॥ 24 ॥
जञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः मनसा चेन्द्रियग्रामम अनन्तं परतिपद्यते ॥ 25 ॥
बुद्धिप्रहीनॊ मनसासमृद्धस; तथा निराशीर गुणताम उपैति परं तयजन्तीह विलॊभ्यमाना; हुताशनं वायुर इवेन्धनस्थम ॥ 26 ॥
गुणादाने विप्रयॊगे च तेषां; मनः सदा बुद्धिपरावराभ्याम अनेनैव विधिना संप्रवृत्तॊ; गुणादाने बरह्म शरीरम एति ॥ 27 ॥
अव्यक्तात्मा पुरुषॊ ऽवयक्तकर्मा; सॊ ऽवयक्तत्वं गच्छति हय अन्तकाले तैर एवायं चेन्द्रियैर वर्धमानैर; गलायद्भिर वा वर्तते कर्म रूपः ॥ 28 ॥
सर्वैर अयं चेन्द्रियैः संप्रयुक्तॊ; देहः पराप्तः पञ्च भूताश्रयः सयात नासामर्थ्याद गच्छति कर्मणेह; हीनस तेन परमेणाव्ययेन ॥ 29 ॥
पृथिव्या नरः पश्यति नान्तम अस्या; हय अन्तश चास्या भविता चेति विद्धि परं नयन्तीह विलॊभ्यमानं; यथा पलवं वायुर इवार्णवस्थम ॥ 30 ॥
दिवाकरॊ गुणम उपलभ्य निर्गुणॊ; यथा भवेद वयपगतरश्मिमन्दलः तथा हय असौ मुनिर इह निर्विशेषवान; स निर्गुणं परविशति बरह्म चाव्ययम ॥ 31 ॥
अनागतिं सुकृतिमतां परां गतिं; सवयम्भुवं परभव निधानम अव्ययम सनातनं यद अमृतम अव्ययं पदं; विचार्य तं शमम अमृतत्वम अश्नुते ॥ 32 ॥
शान्तिपर्व · Shanti Parva
अध्याय 199
Reach this point to mark the section finished.
Continue to अध्याय 200