[य] पितामह महाप्राज्ञ पुन्दरीकाक्षम अच्युतम कर्तारम अकृतं विष्णुं भूतानां परभवाप्ययम ॥ 1 ॥
नारायणं हृषीकेशं गॊविन्दम अपराजितम तत्त्वेन भरतश्रेष्ठ शरॊतुम इच्छामि केशवम ॥ 2 ॥
[भी] शरुतॊ ऽयम अर्थॊ रामस्य जामदग्न्यस्य जल्पतः नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ 3 ॥
असितॊ देवलस तात वाल्मीकिश च महातपाः मार्कन्देयश च गॊविन्दे कथयत्य अद्भुतं महत ॥ 4 ॥
केशवॊ भरतश्रेष्ठ भगवान ईश्वरः परभुः पुरुषः सर्वम इत्य एव शरूयते बहुधा विभुः ॥ 5 ॥
किं तु यानि विदुर लॊके बराह्मणाः शार्ङ्गधन्वनः माहात्म्यानि महाबाहॊ शृणु तानि युधिष्ठिर ॥ 6 ॥
यानि चाहुर मनुष्येन्द्र ये पुराणविदॊ जनाः अशेषेण हि गॊविन्दे कीर्तयिष्यामि तान्य अहम ॥ 7 ॥
महाभूतानि भूतात्मा महात्मा पुरुषॊत्तमः वायुर जयॊतिस तथा चापः खं गां चैवान्वकल्पयत ॥ 8 ॥
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः परभुः अप्स्व एव शयनं चक्रे महात्मा पुरुषॊत्तमः ॥ 9 ॥
सर्वतेजॊमयस तस्मिञ शयानः शयने शुभे सॊ ऽगरजं सर्वभूतानां संकर्षणम अचिन्तयत ॥ 10 ॥
आश्रयं सर्वभूतानां मनसेति विशुश्रुम स धारयति भूतात्मा उभे भूतभविष्यती ॥ 11 ॥
ततस तस्मिन महाबाहॊ परादुर्भूते महात्मनि भास्करप्रतिमं दिव्यं नाभ्यां पद्मम अजायत ॥ 12 ॥
स तत्र भगवान देवः पुष्करे भासयन दिशः बरह्मा समभवत तात सर्ब्व भूतपितामहः ॥ 13 ॥
तस्मिन्न अपि महाबाहॊ परादुर्भूते महात्मनि तमसः पूर्वजॊ जज्ञे मधुर नाम महासुरः ॥ 14 ॥
तम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम बरह्मणॊपचितिं कुर्वञ जघान पुरुषॊत्तमः ॥ 15 ॥
तस्य तात वधात सर्वे देवदानव मानवाः मधुसूदनम इत्य आहुर वृषभं सर्वसात्वताम ॥ 16 ॥
बरह्मा तु ससृजे पुत्रान मानसान दक्ष सप्तमान मरीचिम अत्र्यङ्गिरसौ पुलस्त्यं पुलहं करतुम ॥ 17 ॥
मरीचिः कश्यपं तात पुत्रं चासृजद अग्रजम मानसं जनयाम आस तैजसं बरह्मसत्तमम ॥ 18 ॥
अङ्गुष्ठाद असृजद बरह्मा मरीचेर अपि पूर्वजम सॊ ऽभवद भरतश्रेष्ठ दक्षॊ नाम परजापतिः ॥ 19 ॥
तस्य पूर्वम अजायन्त दश तिस्रश च भारत परजापतेर दुहितरस तासां जयेष्ठाभवद दितिः ॥ 20 ॥
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर महायशाः मारीचः कश्यपस तात सर्वासाम अभवत पतिः ॥ 21 ॥
उत्पाद्य तु महाभागस तासाम अवरजा दश ददौ धर्माय धर्मज्ञॊ दक्ष एव परजापतिः ॥ 22 ॥
धर्मस्य वसवः पुत्रा रुद्राश चामिततेजसः विश्वेदेवाश च साध्याश च मरुत्वन्तश च भारत ॥ 23 ॥
अपरास तु यवीयस्यस ताभ्यॊ ऽनयाः सप्त विंशतिः सॊमस तासां महाभागः सर्वासाम अभवत पतिः ॥ 24 ॥
इतरास तु वयजायन्त गन्धर्वांस तुरगान दविजान गाश च किंपुरुषान मत्स्यान औद्भिदांश च वनस्पतीन ॥ 25 ॥
आदित्यान अदितिर जज्ञे देव शरेष्ठान महाबलान तेषां विष्णुर वामनॊ ऽभूद गॊविन्दश चाभवत परभुः ॥ 26 ॥
तस्य विक्रमणाद एव देवानां शरीर वयवर्धत दानवाश च पराभूता दैतेयी चासुरी परजा ॥ 27 ॥
विप्रचित्ति परधानांश्च च दानवान असृजद दनुः दितिस तु सर्वान असुरान महासत्त्वान वयजायत ॥ 28 ॥
अहॊरात्रं च कालं च यथर्तु मधुसूदनः पूर्वाह्नं चापराह्नं च सर्वम एवान्वकल्पयत ॥ 29 ॥
बुद्द्यापः सॊ ऽसृजन मेघांस तथा सथावरजङ्गमान पृथिवीं सॊ ऽसृजद विश्वां सहितां भूरि तेजसा ॥ 30 ॥
ततः कृष्णॊ महाबाहुः पुनर एव युधिष्ठिर बराह्मणानां शतं शरेष्ठं मुखाद असृजत परभुः ॥ 31 ॥
बाहुभ्यां कषत्रिय शतं वैश्यानाम ऊरुतः शतम पद्भ्यां शूद्र शतं चैव केशवॊ भरतर्शभ ॥ 32 ॥
स एवं चतुरॊ वर्णान समुत्पाद्य महायशाः अध्यक्षं सर्वभूतानां धातारम अकरॊत परभुः ॥ 33 ॥
यावद यावद अभूच छरद्धा देहं धारयितुं नृणाम तावत तावद अजीवंस ते नासीद यम कृतं भयम ॥ 34 ॥
न चैषां मैथुनॊ धर्मॊ बभूव भरतर्षभ संकल्पाद एव चैतेषाम अपत्यम उदपद्यत ॥ 35 ॥
तत्र तरेतायुगे काले संकल्पाज जायते परजा न हय अभून मैथुनॊ धर्मस तेषाम अपि जनाधिप ॥ 36 ॥
दवापरे मैथुनॊ धर्मः परजानाम अभवन नृप तथा कलियुगे राजन दवंद्वम आपेदिरे जनाः ॥ 37 ॥
एष भूतपतिस तात सवध्यक्षश च परकीर्तितः निरध्यक्षांस तु कौतेय कीर्तयिष्यामि तान अपि ॥ 38 ॥
दक्षिणापथ जन्मानः सर्वे तलवरान्ध्रिकाः उत्साः पुलिन्दाः शबराश चूचुपा मन्दपैः सह ॥ 39 ॥
उत्तरा पथजन्मानः कीर्तयिष्यामि तान अपि यौन काम्बॊजगान्धाराः किराता बर्बरैः सह ॥ 40 ॥
एते पापकृतस तात चरन्ति पृथिवीम इमाम शवकाकबलगृध्राणां सधर्माणॊ नराधिप ॥ 41 ॥
नैते कृतयुगे तात चरन्ति पृथिवीम इमाम तरेता परभृति वर्तन्ते ते जना भरतर्षभ ॥ 42 ॥
ततस तस्मिन महाघॊरे संध्याकाले युगान्तके राजानः समसज्जन्त समासाद्येतरेतरम ॥ 43 ॥
एवम एष कुरुश्रेष्ठ परादुर्भावॊ महात्मनः देवदेवर्षिर आचस्त नारदः सर्वलॊकदृश ॥ 44 ॥
नारदॊ ऽपय अथ कृष्णस्य परं मेने नराधिप शाश्वतत्वं महाबाहॊ यथाव भरतर्षभ ॥ 45 ॥
एवम एष महाबाहुः केशवः सत्यविक्रमः अचिन्त्यः पुन्दरीकाक्षॊ नैष केवलमानुषः ॥ 46 ॥
शान्तिपर्व · Shanti Parva
अध्याय 200
Reach this point to mark the section finished.
Continue to अध्याय 201