[मनु] जञानं जञेयाभिनिर्वृत्तं विद्धि जञानगुणं मनः परज्ञा करण संयुक्तं ततॊ बुद्धिः परवर्तते ॥ 1 ॥
यदा कर्म गुणॊपेता बुद्धिर मनसि वर्तते तदा परज्ञायते बरह्म धयानयॊगसमाधिना ॥ 2 ॥
सेयं गुणवती बुद्धिर गुणेष्व एवाभिवर्तते अवताराभिनिःस्रॊतं गिरेः शृङ्गाद इवॊदकम ॥ 3 ॥
यदा निर्गुणम आप्नॊति धयानं मनसि पूर्वजम तदा परज्ञायते बरह्म निकस्यं निकसे यथा ॥ 4 ॥
मनस तव अपहृतं बुद्धिम इन्द्रियार्थ निदर्शनम न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम ॥ 5 ॥
सर्वाण्य एतानि संवार्य दवाराणि मनसि सथितः मनस्य एकाग्रतां कृत्वा तत्परं परदिपद्यते ॥ 6 ॥
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये तथेन्द्रियाण्य उपादाय बुद्धिर मनसि वर्तते ॥ 7 ॥
यदा मनसि सा बुद्धिर वर्तते ऽनतरचारिणी वयवसायगुणॊपेता तदा संपद्यते मनः ॥ 8 ॥
गुणवद्भिर गुणॊपेतं यदा धयानगुणं मनः तदा सर्वगुणान हित्वा निर्गुणं परतिपद्यते ॥ 9 ॥
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम यथ नास्ति पदन्यासः कस तं विषयम आप्नुयात ॥ 10 ॥
तपसा चानुमानेन गुणैर जात्या शरुतेन च निनीसेत तत्परं बरह्म विशूधेनान्तरात्मना ॥ 11 ॥
गुणहीनॊ हि तं मार्गं बहिर समनुवर्तते गुणाभावात परकृत्या च निस्तर्क्यं जञेय संमितम ॥ 12 ॥
नैर्गुण्याद बरह्म चाप्नॊति सगुणत्वान निवर्तते गुणप्रसारिणी बुद्धिर हुताशन इवेन्धने ॥ 13 ॥
यथा पञ्च विमुक्तानि इन्द्रियाणि सवकर्मभिः तथा तत्परमं बरह्म विमुक्तं परकृतेः परम ॥ 14 ॥
एवं परकृतितः सर्वे परभवन्ति शरीरिणः निवर्तन्ते निवृत्तौ च सर्वं नैवॊपयान्ति च ॥ 15 ॥
पुरुषः परकृतिर बुद्धिर विशेषाश चेन्द्रियाणि च अहंकारॊ ऽभिमानश च संभूतॊ भूतसंज्ञकः ॥ 16 ॥
एकस्याद्या परवृत्तिस तु परधानात संप्रवर्तते दवितीया मिथुन वयक्तिम अविशेषान नियच्छति ॥ 17 ॥
धर्माद उत्कृष्यते शरेयस तथाश्रेयॊ ऽपय अधर्मतः रागवान परकृतिं हय एति विरक्तॊ जञानवान भवेत ॥ 18 ॥
शान्तिपर्व · Shanti Parva
अध्याय 198
Reach this point to mark the section finished.
Continue to अध्याय 199