[मनु] यथा वयक्तम इदं शेते सवप्ने चरति चेतनम जञानम इन्द्रियसंयुक्तं तद्वत परेत्य भवाभवौ ॥ 1 ॥
यथाम्भसि परसन्ने तु रूपं पश्यति चक्षुषा तद्वत परसन्नेन्द्रियवाञ जञेयं जञानेन पश्यति ॥ 2 ॥
स एव लुलिते तस्मिन यथा रूपं न पश्यति तथेन्द्रियाकुली भावे जञेयं जञाने न पश्यति ॥ 3 ॥
अबुद्धिर अज्ञानकृता अबुद्ध्या दुष्यते मनः दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः ॥ 4 ॥
अज्ञानतृप्तॊ विषयेष्व अवगाधॊ न दृश्यते अदृष्ट्वैव तु पूतात्मा विषयेभ्यॊ निवर्तते ॥ 5 ॥
तर्ष छेदॊ न भवति पुरुषस्येह कल्मसात निवर्तते तथा तर्षः पापम अन्तं गतं यथा ॥ 6 ॥
विषयेषु च संसर्गाच छाश्वतस्य नसंश्रयात मनसा चान्यद आकाङ्क्षन परं न परतिपद्यते ॥ 7 ॥
जञानम उत्पद्यते पुंसां कषयात पापस्य कर्मणः अथादर्श तलप्रख्ये पश्यत्य आत्मानम आत्मनि ॥ 8 ॥
परसृतैर इन्द्रियैर दुःखी तैर एव नियतैः सुखी तस्माद इन्द्रियरूपेभ्यॊ यच्छेद आत्मानम आत्मना ॥ 9 ॥
इन्द्रियेभ्यॊ मनः पूर्वं बुद्धिः परतरा ततः बुद्धेः परतरं जञानं जञानात परतरं परम ॥ 10 ॥
अव्यक्तात परसृतं जञानं ततॊ बुद्धिस ततॊ मनः मनः शरॊत्रादिभिर युक्तं शब्दादीन साधु पश्यति ॥ 11 ॥
यस तांस तयजति शब्दादीन सर्वाश च वयक्तयस तथा विमुञ्चत्य आकृति गरामांस तान मुक्त्वामृतम अश्नुते ॥ 12 ॥
उद्यन हि सविता यद्वज जृजते रस्मि मन्दलम स एवास्तम उपागच्छंस तद एवात्मनि यच्छति ॥ 13 ॥
अन्तरात्मा तथा देहम आविश्येन्द्रिय रश्मिभिः पराप्येन्द्रिय गुणान पञ्च सॊ ऽसतम आवृत्य गच्छति ॥ 14 ॥
परनीतं कर्मणा मार्गं नीयमानः पुनः पुनः पराप्नॊत्य अयं कर्मफलं परवृद्धं धर्मम आत्मवान ॥ 15 ॥
विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं सरॊ ऽपय अस्य परं दृष्ट्वा निवर्तते ॥ 16 ॥
बुद्धिः कर्म गुणैर हीना यदा मनसि वर्तते तदा संपद्यते बरह्म तत्रैव परलयं गतम ॥ 17 ॥
अस्पर्शनम अशृण्वानम अनास्वादम अदर्शनम अघ्राणम अवितर्कं च सत्त्वं परविशते परम ॥ 18 ॥
मनस्य आकृतयॊ मग्ना मनस तव अतिगतं मतिम मतिस तव अतिगता जञानं जञानं तव अभिगतं परम ॥ 19 ॥
इन्द्रियैर मनसः सिद्धिर न बुद्धिं बुध्यते मनः न बुद्धिर बुध्यते ऽवयक्तं सूक्ष्मस तव एतानि पश्यति ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 197
Reach this point to mark the section finished.
Continue to अध्याय 198