[मनु] यद इन्द्रियैस तूपकृतान पुरस्तात; पराप्तान गुणान संस्मरते चिराय तेष्व इन्द्रियेषूपहतेषु पश्चात; स बुद्धिरूपः परमः सवभावः ॥ 1 ॥
यथेन्द्रियार्थान युगपत समस्तान; नावेक्षते कृत्स्नम अतुल्यकालम यथाबलं संचरते स विद्वांस; तस्मात स एकः परमः शरीरी ॥ 2 ॥
रजस तमः सत्त्वम अथॊ तृतीयं; गच्छत्य असौ जञानगुणान विरूपान तथेन्द्रियाण्य आविशते शरीरी; हुताशनं वायुर इवेन्धनस्थम ॥ 3 ॥
न चक्षुषा पश्यति रूपम आत्मनॊ; न पश्यति सपर्शम इन्द्रियेन्द्रियम न शरॊत लिङ्गं शरवणे निदर्शनं; तथागतं पश्यति तद विनश्यति ॥ 4 ॥
शरॊत्रादीनि न पश्यन्ति सवं सवम आत्मानम आत्मना सर्वज्ञः सर्वदर्शी च कषेत्रज्ञस तानि पश्यति ॥ 5 ॥
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसॊ यथा न दृष्टपूर्वं मनुजैर न च तन नास्ति तावता ॥ 6 ॥
तद्वद भूतेषु भूतात्मा सूक्ष्मॊ जञानात्मवान असौ अदृष्टपूर्वश चक्षुर्भ्यां न चासौ नास्ति तावता ॥ 7 ॥
पश्यन्न अपि यथा लक्ष्म जगत सॊमे न विन्दति एवम अस्ति न वेत्य एतन न च तन न परायनम ॥ 8 ॥
रूपवन्तम अरूपत्वाद उदयास्तमये बुधाः धिया समनुपश्यन्ति तद्गताः सवितुर गतिम ॥ 9 ॥
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः परत्यासन्नं निनीसन्ति जञेयं जञानाभिसंहितम ॥ 10 ॥
न हि खल्व अनुपायेन कश चिद अर्थॊ ऽभिसिध्यति सूत्रजालैर यथामत्स्यान बध्नन्ति जलजीविनः ॥ 11 ॥
मृगैर मृगाणां गरहणं पक्षिणां पक्षिभिर यथा गजानां च जगैर एवं जञेयं जञानेन गृह्यते ॥ 12 ॥
अहिर एव हय अहेः पादान पश्यतीति निदर्शनम तद्वन मूर्तिषु मूर्तिष्ठं जञेयं जञानेन पश्यति ॥ 13 ॥
नॊत्सहन्ते यथा वेत्तुम इन्द्रियैर इन्द्रियाण्य अपि तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥ 14 ॥
यथा चन्द्रॊ हय अमावास्याम अलिङ्गत्वान न दृश्यते न च नाशॊ ऽसय भवति तथा विद्धि शरीरिणम ॥ 15 ॥
कषीणकॊशॊ हय अमावास्यं चन्द्रमा न परकाशते तद्वन मूर्ति वियुक्तः सञ शरीरी नॊपलभ्यते ॥ 16 ॥
यथा कॊशान्तरं पराप्य चन्द्रम भराजते पुनः तद्वल लिङ्गान्तरं पराप्य शरीरी भराजते पुनः ॥ 17 ॥
जन्म वृद्धिक्षयश चास्य परत्यक्षेणॊपलभ्यते सा तु चन्द्रमसॊ वयक्तिर न तु तस्य शरीरिणः ॥ 18 ॥
उत्पत्तिवृद्धिव्ययतॊ यथा स इति गृह्यते चन्द्र एव तव अमावास्यां तथा भवति मूर्तिमान ॥ 19 ॥
नाभिसर्पद विमुञ्चद वा शशिनं दृश्यते तमः विसृजंश चॊपसर्पंश च तद्वत पश्य शरीरिणम ॥ 20 ॥
यथा चन्द्रार्कसंयुक्तं तमस तद उपलभ्यते तद्वच छरीर संयुक्तः शरीरीत्य उपलभ्यते ॥ 21 ॥
यथा चन्द्रार्कनिर्मुक्तः स राहुर नॊपलभ्यते तद्वच छरीर निर्मुक्तः शरीरी नॊपलभ्यते ॥ 22 ॥
यथा चन्द्रॊ हय अमावास्यां नक्षतैर युज्यते गतः तद्वच छरीर निर्मुक्तः फलैर युज्यति कर्मणः ॥ 23 ॥
शान्तिपर्व · Shanti Parva
अध्याय 196
Reach this point to mark the section finished.
Continue to अध्याय 197