[मनु] अक्षरात खं ततॊ वायुर वायॊर जयॊतिस ततॊ जलम जलात परसूता जगती जगत्यां जायते जगत ॥ 1 ॥
इमे शरीरैर जलम एव गत्वा; जलाच च तेजः पवनॊ ऽनतरिक्षम खाद वै निवर्तन्ति नभाविनस ते; ये भाविनस ते परम आप्नुवन्ति ॥ 2 ॥
नॊष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कसायं मधुरं न तिक्तम न शब्दवन नापि च गन्धवत तन; न रूपवत तत्परमस्वभावम ॥ 3 ॥
सपर्शं तनुर वेद रसं तु जिह्वा; घराणं च गन्धाञ शरवणे च शब्दान रूपाणि चक्षुर न च तत्परं यद; गृह्णन्त्य अनध्यात्मविदॊ मनुष्याः ॥ 4 ॥
निवर्तयित्वा रसनं रसेभ्यॊ; घराणं च गन्धाच छरवणे च शब्दात सपर्शात तनुं रूपगुणात तु चक्षुस; ततः परं पश्यति सवं सवभावम ॥ 5 ॥
य ओद गृहीत्वा हि करॊति यच च; यस्मिंश च ताम आरभते परवृत्तिम यस्मिंश च यद येन च यश च कर्ता; तत कारणं तं समुपायम आहुः ॥ 6 ॥
यच चाभिभूः साधकं वयापकं च; यन मन्त्रवच छंस्यते चैव लॊके यः सर्वहेतुः परमार्थकारी; तत कारणं कार्यम अतॊ यद अन्यत ॥ 7 ॥
यथा च कश चित सुकृतैर मनुष्यः; शुभाशुभं पराप्नुते ऽथाविरॊधात एवं शरीरेषु शुभाशुभेषु; सवकर्मजैर जञानम इदं निबद्धम ॥ 8 ॥
यथा परदीपः पुरतः परदीप्तः; परकाशम अन्यस्य करॊति दीप्यन तथेह पञ्चेन्द्रिय दीपवृक्षा; जञानप्रदीप्ताः परवन्त एव ॥ 9 ॥
यथा हि राज्ञॊ बहवॊ हय अमात्याः; पृथक परमानं परवदन्ति युक्ताः तद्वच छरीरेषु भवन्ति पञ्च; जञानैक देशः परमः स तेभ्यः ॥ 10 ॥
यथार्चिषॊ ऽगनेः पवनस्य वेगा; मरीचयॊ ऽरकस्य नदीषु चापः गच्छन्ति चायान्ति च तन्यमानास; तद्वच छरीराणि शरीरिणां तु ॥ 11 ॥
यथा च कश चित परशुं गृहीत्वा; धूमं न पश्येज जवलनं च काष्ठे तद्वच छरीरॊदर पानि पादं; छित्त्वा न पश्यन्ति ततॊ यद अन्यत ॥ 12 ॥
तान्य एव काष्ठानि यथा विमथ्य; धूमं च पश्येज जवलनं च यॊगात तद्वत सुबुद्धिः समम इन्द्रियत्वाद; बुधः परं पश्यति सवं सवभावम ॥ 13 ॥
यथात्मनॊ ऽङगं पतितं पृथिव्यां; सवप्नान्तरे पश्यति चात्मनॊ ऽनयत शरॊत्रादि युक्तः सुमनाः सुबुद्धिर; लिङ्गात तथा गच्छति लिङ्गम अन्यत ॥ 14 ॥
उत्पत्तिवृद्धिक्षयसंनिपातैर; न युज्यते ऽसौ परमः शरीरी अनेन लिङ्गन तु लिङ्गम अन्यद; गच्छत्य अदृष्टः परतिसंधि यॊगात ॥ 15 ॥
न चक्षुषा पश्यति रूपम आत्मनॊ; न चापि संस्पर्शम उपैत किं चित न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति सपश्यते तान ॥ 16 ॥
यथा परदीपे जवलतॊ ऽनलस्य; संतापजं रूपम उपैति किं चित न चान्तरं रूपगुणं बिभर्ति; तथैव तद दृश्यते रूपम अस्य ॥ 17 ॥
यथा मनुष्यः परिमुच्य कायम; अदृश्यम अन्यद विशते शरीरम विजृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम ॥ 18 ॥
खं वायुम अग्निं सलिलं तथॊर्वीं; समन्ततॊ ऽभयाविशते शरीरी नानाश्रयाः कर्मसु वर्तमानाः; शरॊत्रादयः पञ्च गुणाञ शरयन्ते ॥ 19 ॥
शरॊत्रं खतॊ घराणम अथॊ पृथिव्यास; तेजॊमयं रूपम अथॊ विपाकः जलाश्रयः सवेद उक्तॊ रसश च; वाय्वात्मकः सपर्शकृतॊ गुणश च ॥ 20 ॥
महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश च तथेन्द्रियेषु सर्वाणि चैतानि मनॊऽनुगानि; बुद्धिं मनॊ ऽनवेति मनः सवभावम ॥ 21 ॥
शुभाशुभं कर्मकृतं यद अस्य; तद एव परत्याददते सवदेहे मनॊ ऽनुवर्तन्ति परावराणि; जलौकसः सरॊत इवानुकूलम ॥ 22 ॥
चलं यथादृष्टिपथं परैति; सूक्ष्मं महद रूपम इवाभिपाति सवरूपम आलॊचयते च रूपं; परं तथा बुधि पथं परैति ॥ 23 ॥
शान्तिपर्व · Shanti Parva
अध्याय 195
Reach this point to mark the section finished.
Continue to अध्याय 196