धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 194

  1. [य] किं फलं जञानयॊगस्य वेदानां नियमस्य च भूतात्मा वा कथं जञेयस तन मे बरूहि पितामह ॥ 1 ॥

  2. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मनॊः परजापतेर वादं महर्षेश च बृहस्पतेः ॥ 2 ॥

  3. परजापतिं शरेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरॊ महर्षिः बृहस्पतिः परश्नम इमं पुराणं; पप्रच्छ शिष्यॊ ऽथ गुरुं परनम्य ॥ 3 ॥

  4. यत कारणं मन्त्रविधिः परवृत्तॊ; जञाने फलं यत परवदन्ति विप्राः यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यतां मे भगवन यथावत ॥ 4 ॥

  5. यदर्थशास्त्रागम मन्त्रविद्भिर; यज्ञैर अनेकैर वरगॊप्रदानैः फलं महद्भिर यद उपास्यते च; तत किं कथं वा भविता कव वा त ॥ 5 ॥

  6. मही महीजाः पवनॊ ऽनतरिक्षं; जलौकसश चैव जलं दिवं च दिवौकसश चैव यतः परसूतास; तद उच्यतां मे भगवन पुराणम ॥ 6 ॥

  7. जञानं यतः परार्थयते नरॊ वै; ततस तदर्था भवति परवृत्तिः न चाप्य अहं वेद परं पुराणं; मिथ्या परवृत्तिं च कथं नु कुर्याम ॥ 7 ॥

  8. ऋक साम संघांश च यजूंसि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम अधीत्य च वयाकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि ॥ 8 ॥

  9. स मे भवाञ शंसतु सर्वम एतज; जञाने फलं कर्मणि वा यद अस्ति यथा च देहाच चयवते शरीरी; पुनः शरीरं च यथाभ्युपैति ॥ 9 ॥

  10. [मनु] यद यत परियं यस्य सुखं तद आहुस; तद एव दुःखं परवदन्त्य अनिष्टम इष्टं च मे सयाद इतरच च न सयाद; एतत कृते कर्म विधिः परवृत्तः इष्टं तव अनिष्टं च न मां भजेतेत्य; एतत कृते जञानविधिः परवृत्तः ॥ 10 ॥

  11. कामात्मकाश छन्दसि कर्मयॊगा; एभिर विमुक्तः परम अश्नुवीत नानाविधे कर्म पथे सुखार्थी; नरः परवृत्तॊ न परं परयाति परं हि तत कर्म पथाद अपेतं; निराशिषं बरह्म परं हय अवश्यम ॥ 11 ॥

  12. परजाः सृष्टा मनसा कर्मणा च; दवाव अप्य एतौ सत्पथौ लॊकजुष्टौ दृष्ट्वा कर्म शाश्वतं चान्तवच च; मनस तयागः कारणं नान्यद अस्ति ॥ 12 ॥

  13. सवेनात्मना चक्षुर इव परणेता; निशात्यये तमसा संवृतात्मा जञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम ॥ 13 ॥

  14. सर्पान कुशाग्राणि तथॊदपानं; जञात्वा मनुष्याः परिवर्जयन्ति अज्ञानतस तत्र पतन्ति मूढा; जञाने फलं पश्य यथा विशिष्टम ॥ 14 ॥

  15. कृत्स्नस तु मन्त्रॊ विधिवत परयुक्तॊ; यज्ञा यथॊक्तास तव अथ दक्षिणाश च अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति ॥ 15 ॥

  16. गुणात्मकं कर्म वदन्ति वेदास; तस्मान मन्त्रा मन्त्रमूलं हि कर्म विधिर विधेयं मनसॊपपत्तिः; फलस्य भॊक्ता तु यथा शरीरी ॥ 16 ॥

  17. शब्दाश च रूपाणि रसाश च पुण्याः; सपर्शाश च गन्धाश च शुभास तथैव नरॊ नसंस्थान गतः परभुः सयाद; एतत फलं सिध्यति कर्म लॊके ॥ 17 ॥

  18. यद यच छरीरेण करॊति कर्म; शरीरयुक्तः समुपाश्नुते तत शरीरम एवायतनं सुखस्य; दुःखस्य चाप्य आयतनं शरीरम ॥ 18 ॥

  19. वाचा तु यत कर्म करॊति किं चिद; वाचैव सर्वं समुपाश्नुते तत मनस तु यत कर्म करॊति किं चिन; मनःस्थ एवायम उपाश्नुते तत ॥ 19 ॥

  20. यथा गुणं कर्म गणं फलार्थी; करॊत्य अयं कर्मफले निविष्टः तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति ॥ 20 ॥

  21. मत्स्यॊ यथा सरॊत इवाभिपाती; तथा कृतं पूर्वम उपैति कर्म शुभे तव असौ तुष्यतु दुष्कृते तु; न तुष्यते वै परमशरीरी ॥ 21 ॥

  22. यतॊ जगत सर्वम इदं परसूतं; जञात्वात्मवन्तॊ वयतियान्ति यत तत यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यमानं शृणु मे परं यत ॥ 22 ॥

  23. रसैर वियुक्तं विविधैर्श च गन्धैर; अशब्दम अस्पर्शम अरूपवच च अग्राह्यम अव्यक्तम अवर्णम एकं; पञ्च परकारं ससृजे परजानाम ॥ 23 ॥

  24. न सत्री पुमान वापि नपुंसकं च; न सन न चासत सद असच च तन न पश्यन्ति यद बरह्मविदॊ मनुष्यास; तद अक्षरं न कषरतीति विद्धि ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 195

Previous: अध्याय 193