धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 191

  1. [य] कीदृशॊ जापकॊ याति निरयं वर्णयस्व मे कौतूहलं हि मे जातं तद भवान वक्तुम अर्हति ॥ 1 ॥

  2. [भी] धर्मस्यांशः परसूतॊ ऽसि धर्मिष्ठॊ ऽसि सवभावतः धर्ममूलाश्रयं वाक्यं शृणुष्वावहितॊ ऽनघ ॥ 2 ॥

  3. अमूनि यानि सथानानि देवानां परमात्मनाम नाना संस्थान वर्णानि नानारूपफलानि च ॥ 3 ॥

  4. दिव्यानि कामचारीणि विमानानि सभास तथा आक्रीदा विविधा राजन पद्मिन्यश चामलॊदकाः ॥ 4 ॥

  5. चतुर्णां लॊकपालानां शुक्रस्याथ बृहस्पतेः मरुतां विश्वदेवानां साध्यानाम अश्विनॊर अपि ॥ 5 ॥

  6. रुद्रादित्य वसूनां च तथान्येषां दिवौकसाम एते वै निरयास तात सथानस्य परमात्मनः ॥ 6 ॥

  7. अभयं चानिमित्तं च न च कलेशभयावृतम दवाभ्यां मुक्तं तरिभिर मुक्तम अस्ताभिस तरिभिर एव च ॥ 7 ॥

  8. चतुर्लक्षणवर्जं तु चतुर्कारण वर्जितम अप्रहर्षम अनानन्दम अशॊकं विगतक्लमम ॥ 8 ॥

  9. कालः संपच्यते तत्र न कालस तत्र वै परभुः स कालस्य परभू राजन सवर्गस्यापि तथेश्वरः ॥ 9 ॥

  10. आत्मकेवलतां पराप्तस तत्र गत्वा न शॊचति ईदृशं परमं सथानं निरयास ते च तादृशाः ॥ 10 ॥

  11. एते ते निरयाः परॊक्ताः सर्व एव यथातथम तस्य सथानवरस्येह सर्वे निरयसंज्ञिताः ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 192

Previous: अध्याय 190