धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 192

  1. [य] कालमृत्युयमानां च बराह्मणस्य च सत्तम विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति ॥ 1 ॥

  2. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम इक्ष्वाकॊः सूर्यपुत्रस्य यद्वृत्तं बराह्मणस्य च ॥ 2 ॥

  3. कालस्य मृत्यॊश च तथा यद्वृत्तं तन निबॊध मे यथा स तेषां संवादॊ यस्मिन सथाने ऽपि चाभवत ॥ 3 ॥

  4. बराह्मणॊ जापकः कश चिद धर्मवृत्तॊ महायशाः षडङ्गविन महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ 4 ॥

  5. तस्यापरॊक्षं विज्ञानं षडङ्गेषु तथैव च वेदेषु चैव निष्णातॊ हिमवत्पादसंश्रयः ॥ 5 ॥

  6. सॊ ऽनत्यं बराह्मं तपस तेपे संहितां संयतॊ जपन तस्य वर्षसहस्रं तु नियमेन तथागतम ॥ 6 ॥

  7. स देव्या दर्शितः साक्षात परीतास्मीति तदा किल जप्यम आवर्तयंस तूस्नीं न च तां किं चिद अब्रवीत ॥ 7 ॥

  8. तस्यानुकम्पया देवी परीता समभवत तदा वेद माता ततस तस्य तज जप्यं समपूजयत ॥ 8 ॥

  9. समाप्तजप्यस तूत्थाय शिरसा पादयॊस तथा पपात देव्या धर्मात्मा वचनं चेदम अब्रवीत ॥ 9 ॥

  10. दिष्ट्या देवि परसन्ना तवं दर्शनं चागता मम यदि वापि परसन्नासि जप्ये मे रमतां मनः ॥ 10 ॥

  11. [सावित्री] किं परार्थयसि विप्रर्षे किं चेष्टं करवाणि ते परब्रूहि जपतां शरेष्ठ सर्वं तत ते भविष्यति ॥ 11 ॥

  12. [भी] इत्य उक्तः स तदा देव्या विप्रः परॊवाच धर्मवित जप्यं परति ममेच्छेयं वर्धत्व इति पुनः पुनः ॥ 12 ॥

  13. मनसश चसमाधिर मे वर्धेताहर अहः शुभे तत तथेति ततॊ देवी मधुरं परत्यभासत ॥ 13 ॥

  14. इदं चैवापरं पराह देवी तत्प्रियकाम्यया निरयं नैव यातासि यत्र याता दविजर्षभाः ॥ 14 ॥

  15. यास्यसि बरह्मणः सथानम अनिमित्तम अनिन्दितम साधये भविता चैतद यत तवयाहम इहार्थिता ॥ 15 ॥

  16. नियतॊ जप चैकाग्रॊ धर्मस तवां समुपैष्यति कालॊ मृत्युर यमश चैव समायास्यन्ति ते ऽनतिकम भविता च विवादॊ ऽतर तव तेषां च धर्मतः ॥ 16 ॥

  17. एवम उक्त्वा घवगती जगाम भवनं सवकम बराह्मणॊ ऽपि जपन्न आस्ते दिव्यं वर्षशतं तदा ॥ 17 ॥

  18. समाप्ते नियमे तस्मिन्न अथ विप्रस्य धीमतः साक्षात परीतस तदा धर्मॊ दर्शयाम आस तं दविजम ॥ 18 ॥

  19. [धर्म] दविजाते पश्य मां धर्मम अहं तवां दरष्टुम आगतः जप्यस्य च फलं यत ते संप्राप्तं तच च मे शृणु ॥ 19 ॥

  20. जिता लॊकास तवया सर्वे ये दिव्या ये च मानुषाः देवानां निरयान साधॊ सर्वान उत्क्रम्य यास्यसि ॥ 20 ॥

  21. पराण तयागं कुरु मुने गच्छ लॊकान यथेप्सितान तयक्त्वात्मनः शरीरं च ततॊ लॊकान अवाप्स्यसि ॥ 21 ॥

  22. [बराह्मण] कृतं लॊकैर हि मे धर्मगच्छ च तवं यथासुखम बहुदुःखसुखं देहं नॊत्सृजेयम अहं विभॊ ॥ 22 ॥

  23. [धर्म] अवश्यं भॊः शरीरं ते तयक्तव्यं मुनिपुंगव सवर्ग आरॊह्यतां विप्र किं वा ते रॊचते ऽनघ ॥ 23 ॥

  24. [बराह्मण] न रॊचये सवर्गवसं विना देहाद अहं विभॊ गच्छ धर्मन मे शरद्धा सवर्गं गन्तुं विनात्मना ॥ 24 ॥

  25. [धर्म] अलं देहे मनः कृत्वा तयक्त्वा देहं सुखी भव गच्छ लॊकान अरजसॊ यत्र गत्वा न शॊचति ॥ 25 ॥

  26. [बराह्मण] रमे जपन महाभाग कृतं लॊकैः सनातनैः सशरीरेण गन्तव्यॊ मया सवर्गॊ न वा विभॊ ॥ 26 ॥

  27. [धर्म] यदि तवं नेच्छसि तयक्तुं शरीरं पश्य व दविज एष कालस तथा मृत्युर यमश च तवाम उपागताः ॥ 27 ॥

  28. [भीस्म] अथ वैवस्वतः कालॊ मृत्युश च तरितयं विभॊ बराह्मणं तं महाभागम उपागम्येदम अब्रुवन ॥ 28 ॥

  29. तपसॊ ऽसय सुतप्तस्य तथा सुचरितस्य च फलप्राप्तिस तव शरेष्ठा यमॊ ऽहं तवाम उपब्रुवे ॥ 29 ॥

  30. यथावद अस्य जप्यस्य फलं पराप्तस तवम उत्तमम कालस ते सवर्गम आरॊधुं कालॊ ऽहं तवाम उपागतः ॥ 30 ॥

  31. मृत्युं मा विधिधर्मज्ञ रूपिणं सवयम आगतम कालेन चॊदितं विप्र तवाम इतॊ नेतुम अद्य वै ॥ 31 ॥

  32. [बराह्मण] सवागतं सूर्यपुत्राय कालाय च महात्मने मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ 32 ॥

  33. [भी] अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस तत्र समागमे अब्रवीत परमप्रीतः सवशक्त्या किं करॊमि वः ॥ 33 ॥

  34. तस्मिन्न एवाथ काले तु तीर्थयात्राम उपागतः इक्ष्वाकुर अगमत तत्र समेता यत्र ते विभॊ ॥ 34 ॥

  35. सर्वान एव तु राजर्षिः संपूज्याभिप्रनम्य च कुशलप्रश्नम अकरॊत सर्वेषां राजसत्तमः ॥ 35 ॥

  36. तस्मै सॊ ऽथासनं दत्त्वा पाद्यम अर्घ्यं तथैव च अब्रवीद बराह्मणॊ वाक्यं कृत्वा कुशलसंविदम ॥ 36 ॥

  37. सवागतं ते महाराज बरूहि यद यद इहेच्छसि सवशक्त्या किं करॊमीह तद भवान परब्रवीतु मे ॥ 37 ॥

  38. [राजा] राजाहं बराह्मणश च तवं यदि सः कर्म संस्थितः ददामि वसु किं चित ते परार्थितं तद वदस्व मे ॥ 38 ॥

  39. [बरा] दविविधा बराह्मणा राजन धर्मश च दविविधः समृतः परवृत्तश च निवृत्तश च निवृत्तॊ ऽसमि परतिग्रहात ॥ 39 ॥

  40. तेभ्यः परयच्छ दानानि ये परवृत्ता नराधिप अहं न परतिगृह्णामि किम इष्टं किं ददानि ते बरूहि तवं नृपतिश्रेष्ठ तपसा साधयामि किम ॥ 40 ॥

  41. [रा] कषत्रियॊ ऽहं न जानामि देहीति वचनं कव चित परयच्छ युद्धम इत्य एवं वादिनः समॊ दविजॊत्तम ॥ 41 ॥

  42. [बरा] तुष्यसि तवं सवधर्मेण तथा तुष्टा वयं नृप अन्यॊन्यस्यॊत्तरं नास्ति यद इष्टं तत समाचर ॥ 42 ॥

  43. [रा] सवशक्त्याहं ददानीति तवया पूर्वं परभासितम याचे तवां दियतां मह्यं जप्यस्यास्य फलं दविज ॥ 43 ॥

  44. [बरा] युद्धं मम सदा वाणी याचतीति विकत्थसे न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ 44 ॥

  45. [रा] वाग्वज्रा बराह्मणा परॊक्ताः कषत्रिया बाहुजीविनः वाग युद्धं तद इदं तीव्रं मम विप्र तवया सह ॥ 45 ॥

  46. [बरा] सैवाद्यापि परतिज्ञा मे सवशक्त्या किं परदीयताम बरूहि दास्यामि राजेन्द्र विभवे सति माचिरम ॥ 46 ॥

  47. [रा] यत तद वर्षशतं पूर्णं जप्यं वै जपता तवया फलं पराप्तं तत परयच्छ मम दित्सुर भवान यदि ॥ 47 ॥

  48. [बरा] परमं गृह्यतां तस्य फलं यज जपितं मया अर्धं तवम अविचारेण फलं तस्य समाप्नुहि ॥ 48 ॥

  49. अथ वा सर्वम एवेह जप्यकं मामकं फलम राजन पराप्नुहि कामं तवं यदि सर्वम इहेच्छसि ॥ 49 ॥

  50. [रा] कृतं सर्वेण भद्रं ते जप्यं यद याचितं मया सवस्ति ते ऽसतु गमिष्यामि किं चतस्य फलं वद ॥ 50 ॥

  51. [बरा] फलप्राप्तिं न जानामि दत्तं यज जपितं मया अयं धर्मश च कालश च यमॊ मृत्युश च साक्षिणः ॥ 51 ॥

  52. [रा] अज्ञातम अस्य धर्मस्य फलं मे किं करिष्यति पराप्नॊतु तत फलं विप्रॊ नाहम इच्छे ससंशयम ॥ 52 ॥

  53. [बरा] नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया वाक्यं परमानं राजर्षे ममापि तव चैव हि ॥ 53 ॥

  54. नाभिसंधिर मया जप्ये कृतपूर्वः कथं चन जप्यस्य राजशार्दूल कथं जञास्याम्य अहं फलम ॥ 54 ॥

  55. ददस्वेति तवया चॊक्तं ददामीति तथा मया न वाचं दूसयिष्यामि सत्यं रक्ष सथिरॊ भव ॥ 55 ॥

  56. अथैवं वदतॊ मे ऽदय वचनं न करिष्यसि महान अधर्मॊ भविता तव राजन मृषा कृतः ॥ 56 ॥

  57. न युक्तं तु मृषा वाणी तवया वक्तुम अरिन्दम तथा मयाप्य अभ्यधिकं मृषा वक्तुं न शक्यते ॥ 57 ॥

  58. संश्रुतं च मया पूर्वं ददानीत्य अविचारितम तद्गृह्णीस्वाविचारेण यदि सत्ये सथितॊ भवान ॥ 58 ॥

  59. इहागम्य हि मां राजञ जाप्यं फलम अयाचिथाः तन मन निसृष्टं गृह्णीस्व भव सत्ये सथिरॊ ऽपि च ॥ 59 ॥

  60. नायं लॊकॊ ऽसति न परॊ न च पूर्वान स तारयेत कुत एवावरान राजन मृषावादपरायनः ॥ 60 ॥

  61. न यज्ञाध्ययने दानं नियमास तारयन्ति हि तथा सत्यं परे लॊके यथा वै पुरुषर्षभ ॥ 61 ॥

  62. तपांसि यानि चीर्णानि चरिष्यसि च यत तपः समाः शतैः सहस्रैश च तत सत्यान न विशिष्यते ॥ 62 ॥

  63. सत्यम एकाक्षरं बरह्मसत्यम एकाक्षरं तपः सत्यम एकाक्षरॊ यज्ञः सत्यम एकाक्षरं शरुतम ॥ 63 ॥

  64. सत्यं वेदेषु जागर्ति फलं सत्ये परं समृतम सत्याद धर्मॊ दमश चैव सर्वं सत्ये परतिष्ठितम ॥ 64 ॥

  65. सत्यं वेदास तथाङ्गानि सत्यं यज्ञस तथा विधिः वरतचर्यास तथा सत्यम ओंकारः सत्यम एव च ॥ 65 ॥

  66. परानिनां जननं सत्यं सत्यं संततिर एव च सत्येन वायुर अभ्येति सत्येन तपते रविः ॥ 66 ॥

  67. सत्येन चाग्निर दहति सवर्गः सत्ये परतिष्ठितः सत्यं यज्ञस तपॊ वेदाः सतॊभा मन्त्राः सरस्वती ॥ 67 ॥

  68. तुलाम आरॊपितॊ धर्मः सत्यं चैवेति नः शरुतम समां कक्षां धारयतॊ यतः सत्यं ततॊ ऽधिकम ॥ 68 ॥

  69. यतॊ धर्मस ततः सत्यं सर्वं सत्येन वर्धते किमर्थम अनृतं कर्म कर्तुं राजंस तवम इच्छसि ॥ 69 ॥

  70. सत्ये कुरु सथिरं भावं मा राजन्न अनृतं कृथाः कस्मात तवम अनृतं वाक्यं देहीति कुरुषे ऽशुभम ॥ 70 ॥

  71. यदि जप्यफलं दत्तं मया नेसिष्यसे नृप सवधर्मेभ्यः परिभ्रष्टॊ लॊकान अनुचरिष्यसि ॥ 71 ॥

  72. संश्रुत्य यॊ न दित्सेत याचित्वा यश च नेच्छति उभाव आनृतिकाव एतौ न मृषा कर्तुम अर्हसि ॥ 72 ॥

  73. [रा] यॊद्धव्यं रक्षितव्यं च कषत्रधर्मः किल दविज दातारः कषत्रियाः परॊक्ता गृह्णीयां भवतः कथम ॥ 73 ॥

  74. [बरा] न छन्दयामि ते राजन नापि ते गृहम आव्रजम इहागम्य तु याचित्वा न गृह्णीसे पुनः कथम ॥ 74 ॥

  75. [धर्म] अविवादॊ ऽसतु युवयॊर वित्तं मां धर्मम आगतम दविजॊ दानफलैर युक्तॊ राजा सत्यफलेन च ॥ 75 ॥

  76. [सवर्ग] सवर्गं मां विद्धि राजेन्द्र रूपिणं सवयम आगतम अविवादॊ ऽसतु युवयॊर उभौ तुल्यफलौ युवाम ॥ 76 ॥

  77. [रा] कृतं सवर्गेण मे कार्यं गच्छ सवर्गयथासुखम विप्रॊ यदीच्छते दातुं परतीच्छतु च मे धनम ॥ 77 ॥

  78. [बरा] बाल्ये यदि सयाद अज्ञानान मया हस्तः परसारितः निवृत्ति लक्षणं धर्मम उपासे संहितां जपन ॥ 78 ॥

  79. निवृत्तं मां चिरं राजन विप्रं लॊभयसे कथम सवेन कार्यं करिष्यामि तवत्तॊ नेच्छे फलं नृप तपःस्वाध्यय शीलॊ ऽहं निवृत्तश च परतिग्रहात ॥ 79 ॥

  80. [रा] यदि विप्र निसृष्टं ते जप्यस्य फलम उत्तमम आवयॊर यत फलं किं चित सहितं नौ तद अस्त्व इह ॥ 80 ॥

  81. दविजाः परतिग्रहे युक्ता दातारॊ राजवंशजाः यदि धर्मः शरुतॊ विप्र सहैव फलम अस्तु नौ ॥ 81 ॥

  82. मा वा भूत सह भॊज्यं नौ मदीयं फलम आप्नुहि परतीच्छ मत्कृतं धर्मं यदि ते मय्य अनुग्रहः ॥ 82 ॥

  83. [भी] ततॊ विकृतचेष्टौ दवौ पुरुषौ समुपस्थितौ गृहीत्वान्यॊन्यम आवेष्ट्य कुचेलाव ऊचतुर वचः ॥ 83 ॥

  84. न मे धारयसीत्य एकॊ धारयामीति चापरः इहास्ति नौ विवादॊ ऽयम अयं राजानुशासकः ॥ 84 ॥

  85. सत्यं बरवीम्य अहम इदं न मे धारयते भवान अनृतं वदसीह तवम ऋणं ते धारयाम्य अहम ॥ 85 ॥

  86. ताव उभौ भृशसंतप्तौ राजानम इदम ऊचतुः परीक्ष्यतां यथा सयाव नावाम इह विगर्हितौ ॥ 86 ॥

  87. [विकृत] धारयामि नरव्याघ्र विकृतस्येह गॊः फलम ददतश च न गृह्णाति विकृतॊ मे महीपते ॥ 87 ॥

  88. [विरूप] न मे धारयते किं चिद विरूपॊ ऽयं नराधिप मिथ्या बरवीत्य अयं हि तवा मिथ्याभासं नराधिप ॥ 88 ॥

  89. [रा] विरूपकिं धारयते भवान अस्य वदस्व मे शरुत्वा तथा करिष्यामीत्य एवं मे धीयते मतिः ॥ 89 ॥

  90. [विरूप] शृणुष्वावहितॊ राजन यथैतद धारयाम्य अहम विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥ 90 ॥

  91. अनेन धर्मप्राप्त्य अर्थं शुभा दत्ता पुरानघ धेनुर विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ 91 ॥

  92. तस्याश चायं मया राजन फलम अभ्येत्य याचितः विकृतेन च मे दत्तं विशूधेनान्तरात्मना ॥ 92 ॥

  93. ततॊ मे सुकृतं कर्मकृतम आत्मविशुद्धये गावौ हि कपिले करीत्वा वत्सले बहु दॊहने ॥ 93 ॥

  94. ते चॊञ्छ वृत्तये राजन मया समपवर्जिते यथाविधि यथाश्रद्धं तद अस्याहं पुनः परभॊ ॥ 94 ॥

  95. इहाद्य वै गृहीत्वा तत परयच्छे दविगुणं फलम एकस्याः पुरुषव्याघ्र कः शुद्धः कॊ ऽतर दॊषवान ॥ 95 ॥

  96. एवं विवदमानौ सवस तवाम इहाभ्यागतौ नृप कुरु धर्मम अधर्मं वा विनये नौ समाधय ॥ 96 ॥

  97. यदि नेच्छति मे दानं यथादत्तम अनेन वै भवान अत्र सथिरॊ भूत्वा मार्गे सथापयतु परभुः ॥ 97 ॥

  98. [रा] दीयमानं न गृह्णासि ऋणं कस्मात तवम अद्य वै यथैव ते ऽभयनुज्ञातं तथा गृह्णीस्व माचिरम ॥ 98 ॥

  99. [विकृत] दीयताम इत्य अनेनॊक्तं ददानीति तथा मया नायं मे धारयत्य अत्र गम्यतां यत्र वाञ्छति ॥ 99 ॥

  100. [रा] ददतॊ ऽसय न गृह्णासि विषमं परतिभाति मे दन्द्यॊ हि तवं मम मतॊ नास्त्य अत्र खलु संशयः ॥ 100 ॥

  101. [विकृत] मयास्य दत्तं राजर्षे गृह्णीयां तत कथं पुनः कामम अत्रापराधॊ मे दन्द्यम आज्ञापय परभॊ ॥ 101 ॥

  102. [विरूप] दीयमानं यदि मया नेसिष्यसि कथं चन नियंस्यति तवा नृपतिर अयं धर्मानुशासकः ॥ 102 ॥

  103. [विकृत] सवं मया याचितेनेह दत्तं कथम इहाद्य तत गृह्णीयां गच्छतु भवान अभ्यनुज्ञां ददानि ते ॥ 103 ॥

  104. [बरा] शरुतम एतत तवया राजन्न अनयॊः कथितं दवयॊः परतिज्ञातं मया यत ते तद्गृहाणाविचारितम ॥ 104 ॥

  105. [रा] परस्तुतं सुमहत कार्यम आवयॊर गह्वरं यथा जापकस्य दृधी कारः कथम एतद भविष्यति ॥ 105 ॥

  106. यदि तावन न गृह्णामि बराह्मणेनापवर्जितम कथं न लिप्येयम अहं दॊषेण महताद्य वै ॥ 106 ॥

  107. [भी] तौ चॊवाच स राजर्षिः कृतकार्यौ गमिष्यथः नेदानीं माम इहासाद्य राजधर्मॊ भवेन मृषा ॥ 107 ॥

  108. सवधर्मः परिपाल्यश च राज्ञाम एष विनिश्चयः विप्र धर्मश च सुगुरुर माम अनात्मानम आविशत ॥ 108 ॥

  109. [बरा] गृहाण धारये ऽहं ते याचितं ते शरुतं मया न चेद गरहीष्यसे राजञ शपिष्ये तवां न संशयः ॥ 109 ॥

  110. [रा] धिग राजधर्मं यस्यायं कार्यस्येह विनिश्चयः इत्य अर्थं मे गरहीतव्यं कथं तुल्यं भवेद इति ॥ 110 ॥

  111. एष पानिर अपूर्वं भॊ निक्षेपार्थं परसारितः यन मे धारयसे विप्र तद इदानीं परदीयताम ॥ 111 ॥

  112. [बरा] संहिता जपता यावान मया कश चिद गुणः कृतः तत सर्वं परतिगृह्णीस्व यदि किं चिद इहास्ति मे ॥ 112 ॥

  113. [रा] जलम एतन निपतितं मम पानौ दविजॊत्तम समम अस्तु सहैवास्तु परतिगृह्णातु वै भवान ॥ 113 ॥

  114. [विरूप] कामक्रॊधौ विद्धि नौ तवम आवाभ्यां कारितॊ भवान समेति च यद उक्तं ते समा लॊकास तवास्य च ॥ 114 ॥

  115. नायं धारयते किं चिज जिज्ञासा तवत्कृते कृता कालॊ धर्मस तथा मृत्युः कामक्रॊधौ तथा युवाम ॥ 115 ॥

  116. सर्वम अन्यॊन्यनिकसे निघृष्टं पश्यतस तव गच्छ लॊकाञ जितान सवेन कर्मणा यत्र वाञ्छति ॥ 116 ॥

  117. [भी] जापकानां फलावाप्तिर मया ते संप्रकीर्तिता गतिः सथानं च लॊकाश च जापकेन यथा जिताः ॥ 117 ॥

  118. परयाति संहिताध्यायी बराह्मणं परमेष्ठिनम अथ वाग्निं समायाति सूर्यम आविशते ऽपि वा ॥ 118 ॥

  119. स तैजसेन भावेन यदि तत्राश्नुते रतिम गुणांस तेषां समादत्ते रागेण परतिमॊहितः ॥ 119 ॥

  120. एवं सॊमे तथा वायौ भूम्याकाश शरीरगः सरागस तत्र वसति गुणांस तेषां समाचरन ॥ 120 ॥

  121. अथ तत्र विरागी स गच्छति तव अथ संशयम परम अव्ययम इच्छन स तम एवाविशते पुनः ॥ 121 ॥

  122. अमृताच चामृतं पराप्तः शीती भूतॊ निरात्मवान बरह्मभूतः स निर्द्वन्द्वः सुखी शान्तॊ निरामयः ॥ 122 ॥

  123. बरह्म सथानम अनावर्तम एकम अक्षरसंज्ञकम अदुःखम अजरं शान्तं सथानं तत परतिपद्यते ॥ 123 ॥

  124. चतुर्भिर लक्षणैर हीनं तथा षड्भिः सषॊडशैः पुरुषं समतिक्रम्य आकाशं परतिपद्यते ॥ 124 ॥

  125. अथ वेच्छति रागात्मा सर्वं तद अधितिष्ठति यच च परार्थयते तच च मनसा परतिपद्यते ॥ 125 ॥

  126. अथ वा वीक्षते लॊकान सर्वान निरयसंस्थितान निःस्पृहः सर्वतॊ मुक्तस तत्रैव रमते सुखी ॥ 126 ॥

  127. एवम एषा महाराज जापकस्य गतिर यथा एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि ॥ 127 ॥

Reach this point to mark the section finished.

Continue to अध्याय 193

Previous: अध्याय 191