धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 190

  1. [य] गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि ॥ 1 ॥

  2. [भी] शृणुष्वावहितॊ राजञ जापकानां गतिं विभॊ यथा गच्छन्ति निरयम अनेकं पुरुषर्षभ ॥ 2 ॥

  3. यथॊक्तम एतत पूर्वं यॊ नानुतिष्ठति जापकः एकदेशक्रियश चात्र निरयं स निगच्छति ॥ 3 ॥

  4. अवज्ञानेन कुरुते न तुष्यति न शॊचति ईदृशॊ जापकॊ याति निरयं नात्र संशयः ॥ 4 ॥

  5. अहंकारकृतश चैव सर्वे निरयगामिनः परावमानी पुरुषॊ भविता निरयॊपगः ॥ 5 ॥

  6. अभिध्या पूर्वकं जप्यं कुरुते यश च मॊहितः यत्राभिध्यां स कुरुते तं वै निरयम ऋच्छति ॥ 6 ॥

  7. अथैश्वर्यप्रवृत्तः सञ जापकस तत्र रज्यते स एव निरयस तस्य नासौ तस्मात परमुच्यते ॥ 7 ॥

  8. रागेण जापकॊ जप्यं कुरुते तत्र मॊहितः यत्रास्य रागः पतति तत्र तत्रॊपजायते ॥ 8 ॥

  9. दुर्बुद्धिर अकृतप्रज्ञश चले मनसि तिष्ठति चलाम एव गतिं याति निरयं वाधिगच्छति ॥ 9 ॥

  10. अकृतप्रज्ञकॊ बालॊ मॊहं गच्छति जापकः स मॊहान निरयं याति तत्र गत्वानुशॊचति ॥ 10 ॥

  11. दृध गराही करॊमीति जप्यं जपति जापकः न संपूर्णॊ न वा युक्तॊ निरयं सॊ ऽधिगच्छति ॥ 11 ॥

  12. [य] अनिमित्तं परं यत तद अव्यक्तं बरह्मणि सथितम सद भूतॊ जापकः कस्मात स शरीरम अथाविशेत ॥ 12 ॥

  13. [भी] दुष्प्रज्ञानेन निरया बहवः समुदाहृताः परशस्तं जापकत्वं च दॊषाश चैते तद आत्मकाः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 191

Previous: अध्याय 189