धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 189

  1. [य] चातुराश्रम्यम उक्तं ते राजधर्मास तथैव च नानाश्रयाश च बहव इतिहासाः पृथग्विधाः ॥ 1 ॥

  2. शरुतास तवत्तः कथाश चैव धर्मयुक्ता महामते संदेहॊ ऽसति तु कश चिन मे तद भवान वक्तुम अर्हति ॥ 2 ॥

  3. जापकानां फलावाप्तिं शरॊतुम इच्छामि भारत किं फलं जपताम उक्तं कव वा तिष्ठन्ति जापकाः ॥ 3 ॥

  4. जपस्य च विधिं कृत्स्नं वक्तुम अर्हसि मे ऽनघ जापका इति किं चैतत सांख्ययॊगक्रिया विधिः ॥ 4 ॥

  5. किं यज्ञविधिर एवैष किम एतज जप्यम उच्यते एतन मे सर्वम आचक्ष्व सर्वज्ञॊ हय असि मे मतः ॥ 5 ॥

  6. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यमस्य यत पुरावृत्तं कालस्य बराह्मणस्य च ॥ 6 ॥

  7. संन्यास एव वेदान्ते वर्तते जपनं परति वेदवादाभिनिर्वृत्ता शान्तिर बरह्मण्य अवस्थितौ मार्गौ ताव अप्य उभाव एतौ संश्रितौ न च संश्रितौ ॥ 7 ॥

  8. यथा संश्रूयते राजन कारणं चात्र वक्ष्यते मनः समाधिर अत्रापि तथेन्द्रिय जयः समृतः ॥ 8 ॥

  9. सत्यम अग्निपरीचारॊ विविक्तानां च सेवनम धयानं तपॊ दमः कषान्तिर अनसूया मिताशनम ॥ 9 ॥

  10. विषयप्रतिसंहारॊ मित जल्पस तथा शमः एव परवृत्तकॊ धर्मॊ निवृत्तकम अथॊ शृणु ॥ 10 ॥

  11. यथा निवर्तते कर्म जपतॊ बरह्मचारिणः एतत सर्वम अशेषेण यथॊक्तं परिवर्जयेत तरिविधं मार्गम आसाद्य वयक्ताव्यक्तम अनाश्रयम ॥ 11 ॥

  12. कुशॊच्चय निषण्णः सन कुश हस्तः कुशैः शिखी चीरैः परिवृतस तस्मिन मध्ये छन्नः कुशैस तथा ॥ 12 ॥

  13. विषयेभ्यॊ नमस्कुर्याद विषयान न च भावयेत साम्यम उत्पाद्य मनसॊ मनस्य एव मनॊ दधत ॥ 13 ॥

  14. तद धिया धयायति बरह्म जपन वै संहितां हिताम संन्यस्यत्य अथ वा तां वै समाधौ पर्यवस्थितः ॥ 14 ॥

  15. धयानम उत्पादयत्य अत्र संहिता बलसंश्रयात शुद्धात्मा तपसा दान्तॊ निवृत्तद्वेषकामवान ॥ 15 ॥

  16. अरागमॊहॊ निर्द्वन्द्वॊ न शॊचति न सज्जते न कर्ताकरणीयानां न कार्याणाम इति सथितिः ॥ 16 ॥

  17. न चाहंकार यॊगेन मनः परस्थापयेत कव चित न चात्मग्रहणे युक्तॊ नावमानी न चाक्रियः ॥ 17 ॥

  18. धयानक्रिया परॊ युक्तॊ धयानवान धयाननिश्चयः धयाने समाधिम उत्पाद्य तद अपि तयजति करमात ॥ 18 ॥

  19. स वै तस्याम अवस्थायां सर्वत्यागकृतः सुखी निरीहस तयजति परानान बराह्मीं संश्रयते तनुम ॥ 19 ॥

  20. अथ वा नेच्छते तत्र बरह्म कायनिषेवणम उत्क्रामति च मार्गस्थॊ नैव कव चन जायते ॥ 20 ॥

  21. आत्मबुद्धिं समास्थाय शान्ती भूतॊ निरामयः अमृतं विरजः शुद्धम आत्मानं परतिपद्यते ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 190

Previous: अध्याय 188