धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 187

  1. [य] अध्यात्मं नाम यद इदं पुरुषस्येह चिन्त्यते यद अध्यात्मं यतश चैतत तन मे बरूहि पितामह ॥ 1 ॥

  2. [भी] अध्यात्मम इति मां पार्थ यद एतद अनुपृच्छसि तद वयाख्यास्यामि ते तात शरेयस्करतरं सुखम ॥ 2 ॥

  3. यज जञात्वा पुरुषॊ लॊके परीतिं सौख्यं च विन्दति फललाभश च सद्यः सयात सर्वभूतहितं च तत ॥ 3 ॥

  4. पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम महाभूतानि भूतानां सर्वेषां परभवाप्ययौ ॥ 4 ॥

  5. ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः महाभूतानि भूतेषु सागरस्यॊर्मयॊ यथा ॥ 5 ॥

  6. परसार्य च यथाङ्गानि कूर्मः संहरते पुनः तद्वद भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥ 6 ॥

  7. महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत अकरॊत तेषु वैषम्यं तत तु जीवॊ ऽनु पश्यति ॥ 7 ॥

  8. शब्दः शरॊत्रं तथा खानि तरयम आकाशयॊनिजम वायॊस तवक सपर्शचेष्टाश च वाग इत्य एतच चतुष्टयम ॥ 8 ॥

  9. रूपं चक्षुस तथा पक्तिस तरिविधं तेज उच्यते रसः कलेदश च जिह्वा च तरयॊ जलगुणाः समृताः ॥ 9 ॥

  10. घरेयं घराणं शरीरं च ते तु भूमिगुणास तरयः महाभूतानि पञ्चैव सस्थं तु मन उच्यते ॥ 10 ॥

  11. इन्द्रियाणि मनश चैव विज्ञानान्य अस्य भारत सप्तमी बुद्धिर इत्य आहुः कषेत्रज्ञः पुनर अस्तमः ॥ 11 ॥

  12. चक्षुर आलॊकनायैव संशयं कुरुते मनः बुद्धिर अध्यवसायाय कषेत्रज्ञः साक्षिवत सथितः ॥ 12 ॥

  13. ऊर्ध्वं पादतलाभ्यां यद अर्वाग ऊर्ध्वं च पश्यति एतेन सर्वम एवेदं विद्ध्य अभिव्याप्तम अन्तरम ॥ 13 ॥

  14. पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः तमॊ रजश च सत्त्वं च विद्धि भावांस तदाश्रयान ॥ 14 ॥

  15. एतां बुद्ध्वा नरॊ बुद्ध्या भूतानाम आगतिं गतिम समवेक्ष्य शनैश चैव लभते शमम उत्तमम ॥ 15 ॥

  16. गुणान नेनीयते बुद्धिर बुद्धिर एवेन्द्रियाण्य अपि मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतॊ गुणाः ॥ 16 ॥

  17. इति तन्मयम एवैतत सर्वं सथावरजङ्गमम परलीयते चॊद्भवति तस्मान निर्दिश्यते तथा ॥ 17 ॥

  18. येन पश्यति तच चक्षुः शृणॊति शरॊत्रम उच्यते जिघ्रति घराणम इत्य आहू रसं जानाति जिह्वया ॥ 18 ॥

  19. तवचा सपृशति च सपर्शान बुद्धिर विक्रियते ऽसकृत येन संकल्पयत्य अर्थं किं चिद भवति तन मनः ॥ 19 ॥

  20. अधिष्ठानानि बुद्धेर हि पृथग अर्थानि पञ्चधा पञ्चेन्द्रियाणि यान्य आहुस तान्य अदृश्यॊ ऽधितिष्ठति ॥ 20 ॥

  21. पुरुषाधिष्ठिता बुद्धिस तरिषु भावेषु वर्तते कदा चिल लभते परीतिं कदा चिद अनुशॊचति ॥ 21 ॥

  22. न सुखेन न दुःखेन कदा चिद अपि वर्तते एवं नराणां मनसि तरिषु भावेष्व अवस्थिता ॥ 22 ॥

  23. सेयं भावात्मिका भावांस तरीन एतान नातिवर्तते सरितां सारगॊ भर्ता महावेलाम इवॊर्मिमान ॥ 23 ॥

  24. अतिभाव गता बुद्धिर भावे मनसि वर्तते परवर्तमानं हि रजस तद्भावम अनुवर्तते ॥ 24 ॥

  25. इन्द्रियाणि हि सर्वाणि परदर्शयति सा सदा परीतिः सत्त्वं रजः शॊकस तमॊ मॊहश च ते तरयः ॥ 25 ॥

  26. ये ये च भावा लॊके ऽसमिन सर्वेष्व एतेषु ते तरिषु इति बुद्धिगतिः सर्वा वयाख्याता तव भारत ॥ 26 ॥

  27. इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता सत्त्वं रजस तमश चैव पराणिनां संश्रिताः सदा ॥ 27 ॥

  28. तरिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते सात्त्विकी राजसी चैव तमसी चेति भारत ॥ 28 ॥

  29. सुखस्पर्शः सत्त्वगुणॊ दुःखस्पर्शॊ रजॊगुणः तमॊ गुणेन संयुक्तौ भवतॊ ऽवयावहारिकौ ॥ 29 ॥

  30. तत्र यत परीतिसंयुक्तं काये मनसि वा भवेत वर्तते सात्त्विकॊ भाव इत्य अवेक्षेत तत तदा ॥ 30 ॥

  31. अथ यद दुःखसंयुक्तम अतुष्टिकरम आत्मनः परवृत्तं रज इत्य एव तन्न असंरभ्य चिन्तयेत ॥ 31 ॥

  32. अथ यन मॊहसंयुक्तम अव्यक्तम इव यद भवेत अप्रतर्क्यम अविज्ञेयं तमस तद उपधारयेत ॥ 32 ॥

  33. परहर्षः परीतिर आनन्दः सुखं संशान्त चित्तता कथं चिद अभिवर्तन्त इत्य एते सात्त्विका गुणाः ॥ 33 ॥

  34. अतुष्टिः परितापश च शॊकॊ लॊभस तथाक्षमा लिङ्गानि रजसस तानि दृश्यन्ते हेत्वहेतुभिः ॥ 34 ॥

  35. अभिमानस तथा मॊहः परमादः सवप्नतन्द्रिता कथं चिद अभिवर्तन्ते विविधास तामसा गुणाः ॥ 35 ॥

  36. दूरगं बहुधा गामि परार्थना संशयात्मकम मनः सुनियतं यस्य स सुखी परेत्य चेह च ॥ 36 ॥

  37. सत्त्वक्षेत्रज्ञयॊर एतद अन्तरं पश्य सूक्ष्मयॊः सृजते तु गुणान एक एकॊ न सृजते गुणाः ॥ 37 ॥

  38. मशकॊदुम्बरौ चापि संप्रयुक्तौ यथा सदा अन्यॊन्यम अन्यौ च यथा संप्रयॊगस तथा तयॊः ॥ 38 ॥

  39. पृथग भूतौ परकृत्या तौ संप्रयुक्तौ च सर्वदा यथामत्स्यॊ जलं चैव संप्रयुक्तौ तथैव तौ ॥ 39 ॥

  40. न गुणा विदुर आत्मानं स गुणान वेत्ति सर्वशः परिद्रस्ता गुणानां च संस्रस्ता मन्यते सदा ॥ 40 ॥

  41. इन्द्रियैस तु परदीपार्थं कुरुते बुद्धिसप्तमैः निर्विचेष्टैर अजानद्भिः परमात्मा परदीपवत ॥ 41 ॥

  42. सृजते हि गुणान सत्त्वं कषेत्रज्ञः परिपश्यति संप्रयॊगस तयॊर एष सत्त्वक्षेत्रज्ञयॊर धरुवः ॥ 42 ॥

  43. आश्रयॊ नास्ति सत्त्वस्य कषेत्रज्ञस्य च कश चन सत्त्वं मनः संसृजति न गुणान वै कदा चन ॥ 43 ॥

  44. रश्मींस तेषां स मनसा यदा सम्यङ नियच्छति तदा परकाशते ऽसयात्मा घते दीपॊ जवलन्न इव ॥ 44 ॥

  45. तयक्त्वा यः पराकृतं कर्म नित्यम आत्मरतिर मुनिः सर्वभूतात्मभूतः सयात स गच्छेत परमां गतिम ॥ 45 ॥

  46. यथा वारि चरः पक्षी लिप्यमानॊ न लिप्यते एवम एव कृतप्रज्ञॊ भूतेषु परिवर्तते ॥ 46 ॥

  47. एवं सवभावम एवैतत सवबुद्ध्या विहरेन नरः अशॊचन्न अप्रहृष्यंश च चरेद विगतमत्सरः ॥ 47 ॥

  48. सवभावसिद्ध्या संसिद्धान स नित्यं सृजते गुणान ऊर्ण नाभिर यथा सरष्टा विज्ञेयास तन्तुवद गुणाः ॥ 48 ॥

  49. परध्वस्ता न निवर्तन्ते निवृत्तिर नॊपलभ्यते परत्यक्षेण परॊक्षं तद अनुमानेन सिध्यति ॥ 49 ॥

  50. एवम एके वयवस्यन्ति निवृत्तिर इति चापरे उभयं संप्रधार्यैतद अध्यवस्येद यथामति ॥ 50 ॥

  51. इतीमं हृदयग्रन्थिं बुद्धिभेद मयं दृधम विमुच्य सुखम आसीत न शॊचेच छिन्नसंशयः ॥ 51 ॥

  52. मलिनाः पराप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः अवगाह्य सुविद्वंसॊ विद्धि जञानम इदं तथा ॥ 52 ॥

  53. महानदीं हि पारज्ञस तप्यते न तरन यथा एवं ये विदुर अध्यात्मं कैवल्यं जञानम उत्तमम ॥ 53 ॥

  54. एतां बुद्ध्वा नरः सर्वां भूतानाम आगतिं गतिम अवेक्ष्य च शनैर बुद्ध्या लभते शं परं ततः ॥ 54 ॥

  55. तरिवर्गॊ यस्य विदितः पराग जयॊतिः स विमुच्यते अन्विष्य मनसा युक्तस तत्त्वदर्शी निरुत्सुकः ॥ 55 ॥

  56. न चात्मा शक्यते दरष्टुम इन्द्रियेषु विभागशः तत्र तत्र विसृष्टेषु दुर्जयेष्व अकृतात्मभिः ॥ 56 ॥

  57. एतद बुद्ध्वा भवेद बुद्धः किम अन्यद बुद्ध लक्षणम विज्ञाय तद धि मन्यन्ते कृतकृत्या मनीसिनः ॥ 57 ॥

  58. न भवति विदुषां ततॊ भयं; यद अविदुषां सुमहद भयं भवेत न हि गतिर अधिकास्ति कस्य चित; सति हि गुणे परवदन्त्य अतुल्यताम ॥ 58 ॥

  59. यत करॊत्य अनभिसंधि पूर्वकं; तच च निर्नुदति यत पुरा कृतम नाप्रियं तद उभयं कुतः परियं; तस्य तज जनयतीह कुर्वतः ॥ 59 ॥

  60. लॊक आतुरजनान विराविणस; तत तद एव बहु पश्य शॊचतः तत्र पश्य कुशलान अशॊचतॊ; ये विदुस तद उभयं पदं सदा ॥ 60 ॥

Reach this point to mark the section finished.

Continue to अध्याय 188

Previous: अध्याय 186