[य] आचारस्य विधिं तात परॊच्यमानं तवयानघ शरॊतुम इच्छामि धर्मज्ञ सर्वज्ञॊ हय असि मे मतः ॥ 1 ॥
[भीस्म] दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः परिय साहसाः असन्तॊ हय अभिविख्याताः सन्तश चाचार लक्षणाः ॥ 2 ॥
पुरीसं यदि वा मूत्रं ये न कुर्वन्ति मानवाः राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ॥ 3 ॥
शौचम आवश्यकं कृत्वा देवतानां च तर्पणम धर्मम आहुर मनुष्याणाम उपस्पृश्य नदीं तरेत ॥ 4 ॥
सूर्यं सदॊपतिष्ठेन न सवप्याद भास्करॊदये सायंप्रातर जपन संध्यां तिष्ठेत पूर्वां तथापराम ॥ 5 ॥
पञ्चार्ध्रॊ भॊजनं कुर्यात पराङ्मुखॊ मौनम आस्थितः न निदेद अन्नभक्ष्यांश च सवाद्व अस्वादु च भक्षयेत ॥ 6 ॥
नार्द्र पानिः समुत्तिष्ठेन नार्द्र पादः सवपेन निशि देवर्षिनारद परॊक्तम एतद आचार लक्षणम ॥ 7 ॥
शुचि कामम अनद्वाहं देव गॊष्ठं चतुष्पथम बराह्मणं धार्मिकं चैव नित्यं कुर्यात परदक्षिणम ॥ 8 ॥
अतिथीनां च सर्वेषां परेष्यानां सवजनस्य च सामान्यं भॊजनं भृत्यैः पुरुषस्य परशस्यते ॥ 9 ॥
सायंप्रातर मनुष्याणाम अशनं देवनिर्मितम नान्तरा भॊजनं दृष्टम उपवासी तथा भवेत ॥ 10 ॥
हॊमकाले तथा जुह्वन्न ऋतुकाले तथा वरजन अनन्यस्त्री जनः पराज्ञॊ बरह्मचारी तथा भवेत ॥ 11 ॥
अमृतं बराह्मणॊच्छिष्टं जनन्या हृदयं कृतम उपासीत जनः सत्यं सत्यं सन्त उपासते ॥ 12 ॥
यजुषा संस्कृतं मांसं निवृत्तॊ माम भक्षणात न भक्षयेद वृथा मांसं पृष्ठमांसं च वर्जयेत ॥ 13 ॥
सवदेशे परदेशे वा अतिथिं नॊपवासयेत काम्यं कर्मफलं लब्ध्वा गुरूणाम उपपादयेत ॥ 14 ॥
गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम गुरून अभ्यर्च्य युज्यन्ते आयुषा यशसा शरिया ॥ 15 ॥
नेक्षेतादित्यम उद्यन्तं न च नग्नां परस्त्रियम मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत ॥ 16 ॥
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः सर्वम आर्य कृतं शौचं वालसंस्पर्शनानि च ॥ 17 ॥
दर्शने दर्शने नित्यं सुखप्रश्नम उदाहरेत सायंप्रातर च विप्राणां परदिष्टम अभिवादनम ॥ 18 ॥
देव गॊष्ठे गवां मध्ये बराह्मणानां करिया पथे सवाध्याये भॊजने चैव दक्षिणं पानिम उद्धरेत ॥ 19 ॥
पन्यानां शॊभनं पन्यं कृषीणां बाद्यते कृषिः बहु कारं च सस्यानां वाह्ये वाह्यं तथा गवाम ॥ 20 ॥
संपन्नं भॊजने नित्यं पानीये तर्पणं तथा सुशृतं पायसे बरूयाद यवाग्वां कृसरे तथा ॥ 21 ॥
शमश्रुकर्मणि संप्राप्ते कषुते सनाने ऽथ भॊजने वयाधितानां च सर्वेषाम आयुष्यम अभिनन्दनम ॥ 22 ॥
परत्यादित्यं न मेहेत न पश्येद आत्मनः शकृत सुत सत्रिया च शयनं सह भॊज्यं च वर्जयेत ॥ 23 ॥
तवं कारं नामधेयं च जयेष्ठानां परिवर्जयेत अवराणां समानानाम उभयेषां न दुष्यति ॥ 24 ॥
हृदयं पापवृत्तानां पापम आख्याति वैकृतम जञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ 25 ॥
जञानपूर्वं कृतं पापं छादयन्त्य अबहुश्रुताः नैनं मनुष्याः पश्यन्ति पश्यन्ति तरिदिवौकसः ॥ 26 ॥
पापेन हि कृतं पापं पापम एवानुवर्तते धार्मिकेण कृतॊ धर्मः कर्तारम अनुवर्तते ॥ 27 ॥
पापं कृतं न समरतीह मूढॊ; विवर्तमानस्य तद एति कर्तुः पाहुर यथा चन्द्रम उपैति चापि; तथाबुधं पापम उपैति कर्म ॥ 28 ॥
आशया संचितं दरव्यं यत काले नेह भुज्यते तद बुधा न परशन्सन्ति मरणं न परतिक्षते ॥ 29 ॥
मानसं सर्वभूतानां धर्मम आहुर मनीसिनः तस्मात सर्वेषु भूतेषु मनसा शिवम आचरेत ॥ 30 ॥
एक एव चरेद धर्मं नास्ति धर्मे सहायता केवलं विधिम आसाद्य सहायः किं करिष्यति ॥ 31 ॥
देवा यॊनिर मनुष्याणां देवानाम अमृतं दिवि परेत्य भावे सुखं धर्माच छश्वत तैर उपभुज्यते ॥ 32 ॥
शान्तिपर्व · Shanti Parva
अध्याय 186
Reach this point to mark the section finished.
Continue to अध्याय 187