धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 182

  1. [भरद्वाज] बराह्मणः केन भवति कषत्रियॊ वा दविजॊत्तम वैश्यः शूद्रश च विप्रर्षे तद बरूहि वदतां वर ॥ 1 ॥

  2. [भृगु] जातकर्मादिभिर यस तु संस्कारैः संस्कृतः शुचिः वेदाध्ययनसंपन्नः सः सुकर्मस्व अवस्थितः ॥ 2 ॥

  3. शौचाचार सथितः सम्यग विघसासी गुरुप्रियः नित्यव्रती सत्यपरः स वै बराह्मण उच्यते ॥ 3 ॥

  4. सत्यं दानं दमॊ दरॊह आनृशंस्यं कषमा घृणा तपश च दृश्यते यत्र स बराह्मण इति समृतः ॥ 4 ॥

  5. कषत्रजं सेवते कर्म वेदाध्ययनसंमतः दानादान रतिर यश च स वै कषत्रिय उच्यते ॥ 5 ॥

  6. कृषिगॊरक्ष्य वानिज्यं यॊ विशत्य अनिशं शुचिः वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ 6 ॥

  7. सर्वभक्ष रतिर नित्यं सर्वकर्म करॊ ऽशुचिः तयक्तवेदस तव अनाचारः स वै शूद्र इति समृतः ॥ 7 ॥

  8. शूद्रे चैतद भवेल लक्ष्यं दविजे चैतन न विद्यते न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः ॥ 8 ॥

  9. सर्वॊपायैस तु लॊभस्य करॊधस्य च विनिग्रहः एतत पवित्रं जञातव्यं तथा चैवात्म संयमः ॥ 9 ॥

  10. नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात विद्यां मानावमानाभ्याम आत्मानं तु परमादतः ॥ 10 ॥

  11. यस्य सर्वे समारम्भा निराशीर बन्धनास तव इह तयागे यस्य हुतं सर्वं स तयागी स च बुद्धिमान ॥ 11 ॥

  12. अहिंस्रः सर्वभूतानां मैत्रायण गतश चरेत अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन मनः ॥ 12 ॥

  13. परिग्रहान परित्यज्य भवेद बुद्ध्या जितेन्द्रियः अशॊकं सथानम आतिष्ठेद इह चामुत्र चाभयम ॥ 13 ॥

  14. तपॊनित्येन दान्तेन मुनिना संयतात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना ॥ 14 ॥

  15. इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम ॥ 15 ॥

  16. मनः पराणे निगृह्णीयात पराणं बरह्माणि धारयेत निर्वानाद एव निर्वानॊ न च किं चिद विचिन्तयेत सुखं वै बराह्मणॊ बरह्म स वै तेनाधिगच्छति ॥ 16 ॥

  17. शौचेन सततं युक्तस तथाचार समन्वितः सानुक्रॊशश च भूतेषु तद दविजातिषु लक्षणम ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 183

Previous: अध्याय 181