धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 183

  1. [भृगु] सत्यं बरह्म तपः सत्यं सत्यं सृजति च परजाः सत्येन धार्यते लॊकः सवर्गं सत्येन गच्छति ॥ 1 ॥

  2. अनृतं तमसॊ रूपं तमसा नीयते हय अधः तमॊ गरस्ता न पश्यन्ति परकाशं तमसावृतम ॥ 2 ॥

  3. सवर्गः परकाश इत्य आहुर नरकं तम एव च सत्यानृतात तद उभयं पराप्यते जगतीचरैः ॥ 3 ॥

  4. तत्र तव एवंविधा वृत्तिर लॊके सत्यानृता भवेत धर्माधर्मौ परकाशश च तमॊ दुःखं सुखं तथा ॥ 4 ॥

  5. तत्र यत सत्यं स धर्मॊ यॊ धर्मः स परकाशॊ यः परकाशस तत सुखम इति तत्र यद अनृतं सॊ ऽधर्मॊ यॊ ऽधर्मस तत तमॊ यत तमस तद्दुःखम इति ॥ 5 ॥

  6. अत्रॊच्यते शारीरैर मानसैर दुःखैः सुखैश चाप्य असुखॊदयैः लॊकसृष्टिं परपश्यन्तॊ न मुह्यन्ति विचक्षणाः ॥ 6 ॥

  7. तत्र दुःखविमॊक्षार्थं परयतेत विचक्षणः सुखं हय अनित्यं भूतानाम इह लॊके परत्र च ॥ 7 ॥

  8. राहुग्रस्तस्य सॊमस्य यथा जयॊत्स्ना न भासते तथा तमॊ ऽभिभूतानां भूतानां भरश्यते सुखम ॥ 8 ॥

  9. तत खलु दविविधं सुखम उच्यते शारीरं मानसं च इह खल्व अमुष्मिंश च लॊके सर्वारम्भप्रवृत्तयः सुखार्थाभिधीयन्ते न हय अतस तरिवर्गफलं विशिष्टतरम अस्ति सैष काम्यॊ गुणविशेषॊ धर्मार्थयॊर आरम्भस तद धेतुर अस्यॊत्पत्तिः सुखप्रयॊजना ॥ 9 ॥

  10. भरद्वाज उवाच यद एतद भवताभिहितं सुखानां परमाः सत्रिय इति तन न गृह्नीमः न हय एषाम ऋषीणां महति सथितानाम अप्राप्यैष गुणविशेषॊ न चैनम अभिलसन्ति शरूयते च भगवांस तरिलॊककृद बरह्मा परभ्व एकाकी तिष्ठति बरह्मचारी न कामसुखेष्व आत्मानम अवदधाति अपि च भगवान विश्वेश्वरॊमा पतिः कामम अभिवर्तमानम अनङ्गत्वेन शमम अनयत तस्माद बरूमॊ न महात्मभिर अयं परतिगृहीतॊ न तव एष तावद विशिष्टॊ गुण इति नैतद भगवतः परत्येमि भगवता तूक्तं सुखानां परमाः सत्रिय इति लॊकप्रवादॊ ऽपि च भवति दविविधः फलॊदयः सुकृतात सुखम अवाप्यते दुष्कृताद दुःखम इति अत्रॊच्यताम ॥ 10 ॥

  11. भृगुर उवाच अनृतात खलु तमः परादुर्भूतं तमॊग्रस्ता अधर्मम एवानुवर्तन्ते न धर्मम करॊधलॊभ मॊहमानानृतादिभिर अवच्छन्ना न खल्व अस्मिँल लॊके न चामुत्र सुखम आप्नुवन्ति विविधव्याधिगणॊपतापैर अवकीर्यन्ते वधबन्धरॊग परिक्लेशादिभिश च कषुत्पिपासा शरमकृतैर उपतापैर उपतप्यन्ते चण्ड वातात्युष्णातिशीत कृतैश च परतिभयैः शारीरैर दुःखैर उपतप्यन्ते बन्धुधनविनाश विप्रयॊग कृतैश च मानसैः शॊकैर अभिभूयन्ते जरामृत्युकृतैश चान्यैर इति ॥ 11 ॥

  12. यस तव एतैः शारीरैर मानसैर दुःखैर न सपृश्यते स सुखं वेद न चैते दॊषाः सवर्गे परादुर्भवन्ति तत्र भवति खलु ॥ 12 ॥

  13. सुसुखः पवनः सवर्गे गन्धश च सुरभिस तथा कषुत्पिपासा शरमॊ नास्ति न जरा न च पापकम ॥ 13 ॥

  14. नित्यम एव सुखं सवर्गे सुखं दुःखम इहॊभयम नरके दुःखम एवाहुः समं तु परमं पदम ॥ 14 ॥

  15. पृथिवी सर्वभूतानां जनित्री तविधाः सत्रियः पुमान परजापतिस तत्र शुक्रं तेजॊमयं विदुः ॥ 15 ॥

  16. इत्य एतल लॊकनिर्मानं बरह्मणा विहितं पुरा परजा विपरिवर्तन्ते सवैः सवैः कर्मभिर आवृताः ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 184

Previous: अध्याय 182