धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 180

  1. [भृगु] न परनाशॊ ऽसति जीवानां दत्तस्य च कृतस्य च याति देहान्तरं परानी शरीरं तु विशीर्यते ॥ 1 ॥

  2. न शरीराश्रितॊ जीवस तस्मिन नष्टे परनश्यति यथा समित्सु दग्धासु न परनश्यति पावकः ॥ 2 ॥

  3. [भरद्वाज] अग्नेर यथातथा तस्य यदि नाशॊ न विद्यते इन्धनस्यॊपयॊगान्ते स चाग्निर नॊपलभ्यते ॥ 3 ॥

  4. नश्यतीत्य एव जानामि शान्तम अग्निम अनिन्धनम गतिर यस्य परमानं वा संस्थानं वा न दृश्यते ॥ 4 ॥

  5. [भ] समिधाम उपयॊगान्ते सन्न एवाग्निर न दृश्यते आकाशानुगतत्वाद धि दुर्ग्रहः स निराश्रहः ॥ 5 ॥

  6. तथा शरीरसंत्यागे जीवॊ हय आकाशवत सथितः न गृह्यते सुसूक्ष्मत्वाद यथा जयॊतिर न संशयः ॥ 6 ॥

  7. परानान धारयते हय अग्निः स जीव उपधार्यताम वायुसंधारणॊ हय अग्निर नश्यत्य उच्छ्वासनिग्रहात ॥ 7 ॥

  8. तस्मिन नष्टे शरीराग्नौ शरीरं तद अचेतनम पतितं याति भूमित्वम अयनं तस्य हि कषितिः ॥ 8 ॥

  9. जङ्गमानां हि सर्वेषां सथावराणां तथैव च आकाशं पवनॊ ऽभयेति जयॊतिस तम अनुगच्छति तत्र तरयाणाम एकत्वं दवयं भूमौ परतिष्ठितम ॥ 9 ॥

  10. यत्र खं तत्र पवनस तत्राग्निर यत्र मारुतः अमूर्तयस ते विज्ञेया आपॊ मूर्तास तथा कषितिः ॥ 10 ॥

  11. [भ] यद्य अग्निमारुतौ भूमिः खम आपश च शरीरिषु जीवः किं लक्षणस तत्रेत्य एतद आचक्ष्व मे ऽनघ ॥ 11 ॥

  12. पञ्चात्मके पञ्च रतौ पञ्च विज्ञानसंयुते शरीरे परानिनां जीवं जञातुम इच्छामि यादृशम ॥ 12 ॥

  13. मांसशॊनित संघाते मेदः सनाय्व अस्थि संचये भिद्यमाने शरीरे तु जीवॊ नैवॊपलभ्यते ॥ 13 ॥

  14. यद्य अजीवं शरीरं तु पञ्च भूतसमन्वितम शारीरे मानसे दुःखे कस तां वेदयते रुजम ॥ 14 ॥

  15. शृणॊति कथितं जीवः कर्णाभ्यां न शृणॊति तत महर्षे मनसि वयग्रे तस्माज जीवॊ निरर्थकः ॥ 15 ॥

  16. सर्वं पश्यति यद दृश्यं मनॊ युक्तेन चक्षुषा मनसि वयाकुले तद धि पश्यन्न अपि न पश्यति ॥ 16 ॥

  17. न पश्यति न च बरूते न शृणॊति न जिघ्रति न च सपर्शरसौ वेत्ति निद्रावशगतः पुनः ॥ 17 ॥

  18. हृष्यति करुध्यति च कः शॊचत्य उद्विजते च कः इच्छति धयायति दवेष्टि वाचम ईरयते च कः ॥ 18 ॥

  19. [भ] न पञ्च साधारणम अत्र किं चिच; छरीरम एकॊ वहते ऽनतरात्मा स वेत्ति गन्धांश च रसाञ शरुतिं च; सपर्शं च रूपं च गुणाश च ये ऽनये ॥ 19 ॥

  20. पञ्चात्मके पञ्च गुणप्रदर्शी; स सर्वगात्रानुगतॊ ऽनतरात्मा स वेत्ति दुःखानि सुखानि चात्र; तद विप्रयॊगात तु न वेत्ति देहः ॥ 20 ॥

  21. यदा न रूपं न सपर्शॊ नॊस्म भावश च पावके तदा शान्ते शरीराग्नौ देहं तयक्त्वा स नश्यति ॥ 21 ॥

  22. अम मयं सर्वम एवेदम आपॊ मूर्तिः शरीरिणाम तत्रात्मा मानसॊ बरह्मा सर्वभूतेषु लॊककृत ॥ 22 ॥

  23. आत्मानं तं विजानीहि सर्वलॊह हितात्मकम तस्मिन यः संश्रितॊ देहे हय अब्बिन्दुर इव पुष्करे ॥ 23 ॥

  24. कषेत्रज्ञं तं विजानीहि नित्यं लॊकहितात्मकम तमॊ रजश च सत्त्वं च विद्धि जीव गुणान इमान ॥ 24 ॥

  25. सचेतनं जीव गुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम ततः परं कषेत्रविदं वदन्ति; परावतयद यॊ भुवनानि सप्त ॥ 25 ॥

  26. न जीवनाशॊ ऽसति हि देहभेदे; मिथ्यैतद आहुर मृत इत्य अबुद्धाः जीवस तु देहान्तरितः परयाति; दशार्धतैवास्य शरीरभेदः ॥ 26 ॥

  27. एवं सर्वेषु भूतेषु गूधश चरति संवृतः दृश्यते तव अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ 27 ॥

  28. तं पूर्वापररात्रेषु युज्ञानः सततं बुधः लघ्व आहारॊ विशुद्धात्मा पश्यत्य आत्मानम आत्मनि ॥ 28 ॥

  29. चित्तस्य हि परसादेन हित्वा कर्म शुभाशुभम परसन्नात्मात्मनि सथित्वा सुखम अक्षयम अश्नुते ॥ 29 ॥

  30. मानसॊ ऽगनिः शरीरेषु जीव इत्य अभिधीयते सृष्टिः परजापतेर एषा भूताध्यात्म विनिश्चये ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 181

Previous: अध्याय 179