धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 179

  1. [भरद्वाज] यदि परानायते वायुर वायुर एव विचेष्टते शवसित्य आभासते चैव तस्माज जीवॊ निरर्थकः ॥ 1 ॥

  2. यद्य ऊष्म भाव आग्नेयॊ वह्निना पच्यते यदि अग्निर जरयते चैव तस्माज जीवॊ निरर्थकः ॥ 2 ॥

  3. जन्तॊः परमीयमानस्य जीवॊ नैवॊपलभ्यते वायुर एव जहात्य एनम ऊष्म भावश च नश्यति ॥ 3 ॥

  4. यदि वातॊपमॊ जीवः संश्लेषॊ यदि वायुना वायुमन्दलवद दृश्यॊ गच्छेत सह मरुद्गणैः ॥ 4 ॥

  5. शलेषॊ यदि च वातेन यदि तस्मात परनश्यति महार्णव विमुक्तत्वाद अन्यत सलिलभाजनम ॥ 5 ॥

  6. कूपे वा सलिलं दद्यात परदीपं वा हुताशने परक्षिप्तं नश्यति कषिप्रं यथा नश्यत्य असौ तथा ॥ 6 ॥

  7. पञ्च साधारणे हय अस्मिञ शरीरे जीवितं कुतः येषाम अन्यतर तयागाच चतुर्णां नास्ति संग्रहः ॥ 7 ॥

  8. नश्यन्त्य आपॊ हय अनाहाराद वायुर उच्छ्वासनिग्रहात नश्यते कॊष्ठ भेदात खम अग्निर नश्यत्य अभॊजनात ॥ 8 ॥

  9. वयाधिव्रण परिक्लेशैर मेदिनी चैव शीर्यते पीडिते ऽनयतरे हय एषां सघातॊ याति पञ्चधा ॥ 9 ॥

  10. तस्मिन पञ्चत्वम आपन्ने जीवः किम अनुधावति किं वेदयति वा जीवः किं शृणॊति बरवीति वा ॥ 10 ॥

  11. एषा गौः परलॊकस्थं तारयिष्यति माम इति यॊ दत्त्वा मरियते जन्तुः सा गौः कं तारयिष्यति ॥ 11 ॥

  12. गौश च परतिग्रहीता च दाता चैव समं यदा इहैव विलयं यान्ति कुतस तेषां समागमः ॥ 12 ॥

  13. विहगैर उपयुक्तस्य शैलाग्रात पतितस्य वा अग्निना चॊपयुक्तस्य कुतः संजीवनं पुनः ॥ 13 ॥

  14. छिन्नस्य यदि वृक्षस्य न मूलं परतिरॊहति बीजान्य अस्य परवर्तन्ते मृतः कव पुनर एष्यति ॥ 14 ॥

  15. बीजमात्रं पुरा सृष्टं यद एतत परिवर्तते मृता मृताः परनश्यन्ति बीजाद बीजं परवर्तते ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 180

Previous: अध्याय 178