धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 18

  1. [वैषम्पायन] तूष्णींभूतं तु राजानं पुनर एवार्जुनॊ ऽबरवीत संतप्तः शॊकदुःखाभ्यां राज्ञॊ वाक्शल्य पीडितः ॥ 1 ॥

  2. कथयन्ति पुरावृत्तम इतिहासम इमं जनाः विदेहराज्ञः संवादं भार्यया सह भारत ॥ 2 ॥

  3. उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम विदेहराजं महिषी दुःखिता परत्यभाषत ॥ 3 ॥

  4. धनाय अपत्यं मित्राणि रत्नानि विविधानि च पन्थानं पावनं हित्वा जनकॊ मौण्ड्यम आस्थितः ॥ 4 ॥

  5. तं ददर्श परिया भार्या भैक्ष्य वृत्तिम अकिंचनम धाना मुष्टिम उपासीनं निरीहं गतमत्सरम ॥ 5 ॥

  6. तम उवाच समागम्य भर्तारम अकुतॊभयम करुद्धा मनस्विनी भार्या विविक्ते हेतुमद वचः ॥ 6 ॥

  7. कथम उत्सृज्य राज्यं सवं धनधान्य समाचितम कापालीं वृत्तिम आस्थाय धाना मुष्टिर वने ऽचरः ॥ 7 ॥

  8. परतिज्ञा ते ऽनयथा राजन विचेष्टा चान्यथा तव यद राज्यं महद उत्सृज्य सवल्पे तुष्यसि पार्थिव ॥ 8 ॥

  9. नैतेनातिथयॊ राजन देवर्षिपितरस तथा शक्यम अद्य तवया भर्तुं मॊघस ते ऽयं परिश्रमः ॥ 9 ॥

  10. देवतातिथिभिश चैव पितृभिश चैव पार्थिव सर्वैर एतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥ 10 ॥

  11. यस तवं तरैविद्य वृद्धानां बराह्मणानां सहस्रशः भर्ता भूत्वा च लॊकस्य सॊ ऽदयान्यैर भृतिम इच्छसि ॥ 11 ॥

  12. शरियं हित्वा परदीप्तां तवं शववत संप्रति वीक्ष्यसे अपुत्रा जननी ते ऽदय कौसल्या चापतिस तवया ॥ 12 ॥

  13. अशीतिर धर्मकामास तवां कषत्रियाः पर्युपासते तवद आशाम अभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ॥ 13 ॥

  14. ताश च तवं विफलाः कुर्वन कालं लॊकान नु गमिष्यसि राजन संशयिते मॊक्षे परतन्त्रेषु देहिषु ॥ 14 ॥

  15. नैव ते ऽसति परॊ लॊकॊ नापरः पापकर्मणः धर्म्यान दारान परित्यज्य यस तवम इच्छसि जीवितुम ॥ 15 ॥

  16. सरजॊ गन्धान अलं कारान वासांसि विविधानि च किमर्थम अभिसंत्यज्य परिव्रजसि निष्क्रियः ॥ 16 ॥

  17. निपानं सर्वभूतानां भूत्वा तवं पावनं महत आढ्यॊ वनस्पतिर भूत्वा सॊ ऽदयान्यान पर्युपाससे ॥ 17 ॥

  18. खादन्ति हस्तिनं नयासे करव्यादा बहवॊ ऽपय उत बहवः कृमयश चैव किं पुनस तवाम अनर्थकम ॥ 18 ॥

  19. य इमां कुण्डिकां भिन्द्यान तरिविष्टब्धं च ते हरेत वासॊ चापहरेत तस्मिन कथं ते मानसं भवेत ॥ 19 ॥

  20. यस तव अयं सर्वम उत्सृज्य धाना मुष्टिपरिग्रहः यदानेन समं सर्वं किम इदं मम दीयते धाना मुष्टिर इहार्थश चेत परतिज्ञा ते विनश्यति ॥ 20 ॥

  21. का वाहं तव कॊ मे तवं कॊ ऽदय ते मय्य अनुग्रहः परशाधि पृथिवीं राजन यत्र ते ऽनुग्रहॊ भवेत परासादं शयनं यानं वासांस्य आभरणानि च ॥ 21 ॥

  22. शरिया निराशैर अधनैस तयक्तमित्रैर अकिंचनैः सौखिकैः संभृतान अर्थान यः संत्यजसि किं नु तत ॥ 22 ॥

  23. यॊ ऽतयन्तं परतिगृह्णीयाद यश च दद्यात सदैव हि तयॊस तवम अन्तरं विद्धि शरेयांस ताभ्यां क उच्यते ॥ 23 ॥

  24. सदैव याचमानेषु सत्सु दम्भविवर्जिषु एतेषु दक्षिणा दत्ता दावाग्नाव इव दुर्हुतम ॥ 24 ॥

  25. जातवेदा यथा राजन्न आदग्ध्वैवॊपशाम्यति सदैव याचमानॊ वै तथा शाम्यति न दविजः ॥ 25 ॥

  26. सतां च वेदा अन्नं च लॊके ऽसमिन परकृतिर धरुवा न चेद दाता भवेद दाता कुतः सयुर मॊक्षकाङ्क्षिणः ॥ 26 ॥

  27. अन्नाद गृहस्था लॊके ऽसमिन भिक्षवस तत एव च अन्नात पराणः परभवति अन्नदः पराणदॊ भवेत ॥ 27 ॥

  28. गृहस्थैभ्यॊ ऽभिनिर्वृत्ता गृहस्थान एव संश्रिताः परभवं च परतिष्ठां च दान्ता निन्दन्त आसते ॥ 28 ॥

  29. तयागान न भिक्षुकं विद्यान न मौण्ड्यान न च याचनात ऋजुस तु यॊ ऽरथं तयजति तं सुखं विद्धि भिक्षुकम ॥ 29 ॥

  30. असक्तः सक्तवद गच्छन निःसङ्गॊ मुक्तबन्धनः समः शत्रौ च मित्रे च स वै मुक्तॊ महीपते ॥ 30 ॥

  31. परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः सिता बहुविधैः पाशैः संचिन्वन्तॊ वृथामिषम ॥ 31 ॥

  32. तरयीं च नाम वार्तां च तयक्त्वा पुत्रांस तयजन्ति ये तरिविष्टब्धं च वासॊ च परतिगृह्णन्त्य अबुद्धयः ॥ 32 ॥

  33. अनिष्कषाये काषायम ईहार्थम इति विद्धि तत धर्मध्वजानां मुण्डानां वृत्त्यर्थम इति मे मतिः ॥ 33 ॥

  34. काषायैर अजिनैश चीरैर नग्नान मुण्डाञ जटाधरान बिभ्रत साधून महाराज जय लॊकाञ जितेन्द्रियः ॥ 34 ॥

  35. अग्न्याधेयानि गुर्वर्थान करतून स पशुदक्षिणान ददात्य अहर अहः पूर्वं कॊ नु धर्मतरस ततः ॥ 35 ॥

  36. तत्त्वज्ञॊ जनकॊ राजा लॊके ऽसमिन्न इति गीयते सॊ ऽपय आसीन मॊहसंपन्नॊ मा मॊहवशम अन्वगाः ॥ 36 ॥

  37. एवं धर्मम अनुक्रान्तं सदा दानपरैर नरैः आनृशंस्य गुणॊपेतैः कामक्रॊधविवर्जिताः ॥ 37 ॥

  38. पालयन्तः परजाश चैव दानम उत्तमम आस्थिताः इष्टाँल लॊकान अवाप्स्यामॊ बरह्मण्याः सत्यवादिनः ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17