धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 17

  1. [युधिस्ठिर] असंतॊषः परमादश च मदॊ रागॊ ऽपरशान्तता बलं मॊहॊ ऽभिमानश च उद्वेगश चापि सर्वशः ॥ 1 ॥

  2. एभिः पाप्मभिर आविष्टॊ राज्यं तवम अभिकाङ्क्षसि निरामिषॊ विनिर्मुक्तः परशान्तः सुसुखी भव ॥ 2 ॥

  3. य इमाम अखिलां भूमिं शिष्याद एकॊ महीपतिः तस्याप्य उदरम एवैकं किम इदं तवं परशंससि ॥ 3 ॥

  4. नाह्ना पूरयितुं शक्या न मासेन नरर्षभ अपूर्यां पूरयन्न इच्छाम आयुषापि न शक्नुयात ॥ 4 ॥

  5. यथेद्धः परज्वलत्य अग्निर असमिद्धः परशाम्यति अल्पाहारतया तव अग्निं शमयौदर्यम उत्थितम जयॊदरं पृथिव्या ते शरेयॊ निर्जितया जितम ॥ 5 ॥

  6. मानुषान कामभॊगांस तवम ऐश्वर्यं च परशंससि अभॊगिनॊ ऽबलाश चैव यान्ति सथानम अनुत्तमम ॥ 6 ॥

  7. यॊगक्षेमौ च राष्ट्रस्य धर्माधर्मौ तवयि सथितौ मुच्यस्व महतॊ भारात तयागम एवाभिसंश्रय ॥ 7 ॥

  8. एकॊदर कृते वयाघ्रः करॊति विघसं बहु तम अन्ये ऽपय उपजीवन्ति मन्दवेगं चरा मृगाः ॥ 8 ॥

  9. विषयान परतिसंहृत्य संन्यासं कुरुते यतिः न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥ 9 ॥

  10. पत्राहारैर अश्मकुट्टैर दन्तॊलूखलिकैस तथा अब्भक्षैर वायुभक्षैश च तैर अयं नरकॊ जितः ॥ 10 ॥

  11. यश चेमां वसुधां कृत्स्नां परशासेद अखिलां नृपः तुल्याश्म काञ्चनॊ यश च स कृतार्थॊ न पार्थिवः ॥ 11 ॥

  12. संकल्पेषु निरारम्भॊ निराशॊ निर्ममॊ भव विशॊकं सथानम आतिष्ठ इह चामुत्र चाव्ययम ॥ 12 ॥

  13. निरामिषा न शॊचन्ति शॊचसि तवं किम आमिषम परित्यज्यामिषं सर्वं मृषावादात परमॊक्ष्यसे ॥ 13 ॥

  14. पन्थानौ पितृयानश च देव यानश च विश्रुतौ ईजानाः पितृयानेन देव यानेन मॊक्षिणः ॥ 14 ॥

  15. तपसा बरह्मचर्येण सवाध्यायेन च पाविताः विमुच्य देहान वै भान्ति मृत्यॊर अविषयं गताः ॥ 15 ॥

  16. आमिषं बन्धनं लॊके कर्मेहॊक्तं तथामिषम ताभ्यां विमुक्तः पाशाभ्यां पदम आप्नॊति तत्परम ॥ 16 ॥

  17. अपि गाथाम इमां गीतां जनकेन वदन्त्य उत निर्द्वन्द्वेन विमुक्तेन मॊक्षं समनुपश्यता ॥ 17 ॥

  18. अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन मिथिलायां परदीप्तायां न मे दह्यति किं चन ॥ 18 ॥

  19. परज्ञा परसादम आरुह्य न शॊच्याञ शॊचतॊ जनान जगतीस्थान इवाद्रिस्थॊ मन्दबुद्धीन अवेक्षते ॥ 19 ॥

  20. दृश्यं पश्यति यः पश्यन स चक्षुष्मान स बुद्धिमान अज्ञातानां च विज्ञानात संबॊधाद बुद्धिर उच्यते ॥ 20 ॥

  21. यस तु वाचं विजानाति बहुमानम इयात स वै बरह्म भावप्रसूतानां वैद्यानां भावितात्मनाम ॥ 21 ॥

  22. यदा भूतपृथग्भावम एकस्थम अनुपश्यति तत एव च विस्तारं बरह्म संपद्यते तदा ॥ 22 ॥

  23. ते जनानां गतिं यान्ति नाविद्वांसॊ ऽलपचेतसः नाबुद्धयॊ नातपसः सर्वं बुद्धौ परतिष्ठितम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16