[भरद्वाज] एते ते धातवः पञ्च बरह्मा यान असृजत पुरा आवृता यैर इमे लॊका महाभूताभिसंज्ञितैः ॥ 1 ॥
यद आसृजत सहस्राणि भूतानां स महामतिः पञ्चानाम एव भूतत्वं कथं समुपपद्यते ॥ 2 ॥
[भृगु] अमितानां महाशब्दॊ यान्ति भूतानि संभवम ततस तेषां महाभूतशब्दॊ ऽयम उपपद्यते ॥ 3 ॥
चेष्टा वयूः खम आकासम ऊष्माग्निः सलिलं दरवः पृथिवी चात्र संघातः शरीरं पाञ्च भौतिकम ॥ 4 ॥
इत्य एतैः पञ्चभिर भूतैर युक्तं सथावरजङ्गमम शरॊत्रं घराणं रसः सपर्शॊ दृष्टिश चेन्द्रियसंज्ञिताः ॥ 5 ॥
[भ] पञ्चभिर यदि भूतैस तु युक्ताः सथावरजङ्गमाः सथावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ 6 ॥
अनूस्मनाम अचेष्टानां घनानां चैव तत्त्वतः वृक्षाणां नॊपलभ्यन्ते शरीरे पञ्च धातवः ॥ 7 ॥
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः न च सपर्शं विजानन्ति ते कथं पाञ्च भौतिकाः ॥ 8 ॥
अद्रवत्वाद अनग्नित्वाद अभौमत्वाद अवायुतः आकाशस्याप्रमेयत्वाद वृक्षाणां नास्ति भौतिकम ॥ 9 ॥
[भ] घनानाम अपि वृक्षाणाम आकाशॊ ऽसति न संशयः तेषां पुष्प फले वयक्तिर नित्यं समुपलभ्यते ॥ 10 ॥
ऊष्मतॊ गलान पर्णानां तवक फलं पुष्पम एव च मलायते चैव शीतेन सपर्शस तेनात्र विद्यते ॥ 11 ॥
वाय्वग्न्यशनि निष्पेषैः फलपुष्पं विशीर्यते शरॊत्रेण गृह्यते शब्दस तस्माच छृण्वन्ति पादपाः ॥ 12 ॥
वल्ली वेष्टयते वृक्षं सर्वतश चैव गच्छति न हय अदृष्टेश च मार्गॊ ऽसति तस्मात पश्यन्ति पादपाः ॥ 13 ॥
पुण्यापुण्यैस तथा गन्धैर धूपैश च विविधैर अपि अरॊगाः पुष्पिताः सन्ति तस्माज जिघ्रन्ति पादपाः ॥ 14 ॥
पादैः सलिलपानं च वयाधीनाम अपि दर्शनम वयाधिप्रतिक्रियत्वाच च विद्यते रसनं दरुमे ॥ 15 ॥
वक्त्रेणॊत्पल नालेन यथॊर्ध्वं जलम आददेत तथा पवनसंयुक्तः पादैः पिबति पादपाः ॥ 16 ॥
गरहणात सुखदुःखस्य छिन्नस्य च विरॊहणात जीवं पश्यामि वृक्षाणाम अचैतन्यं न विद्यते ॥ 17 ॥
तेन तज जलम आदत्तं जरयत्य अग्निमारुतौ आहारपरिनामाच च सनेहॊ वृद्धिश च जायते ॥ 18 ॥
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः परत्येकशः परभिद्यन्ते यैः शरीरं विचेष्टते ॥ 19 ॥
तवक च मांसं तथास्थीनि मज्जा सनायु च पञ्चमम इत्य एतद इह संख्यातं शरीरे पृथिवी मयम ॥ 20 ॥
तेजॊ ऽगनिश च तथा करॊधश चक्षुर ऊष्मा तथैव च अग्निर जरयते चापि पञ्चाग्नेयाः शरीरिणः ॥ 21 ॥
शरॊत्रं घराणम अथास्यं च हृदयं कॊष्ठम एव च आकाशात परानिनाम एते शरीरे पञ्च धातवः ॥ 22 ॥
शलेष्मा पित्तम अथ सवेदॊ वसा शॊनितम एव च इत्य आपः पञ्चधा देहे भवन्ति परानिनां सदा ॥ 23 ॥
परानात परानीयते परानी वयानाद वयायच्छते तथा गच्छत्य अपानॊ ऽवाक्चैव समानॊ हृद्य अवस्थिथ ॥ 24 ॥
उदानाद उच्छ्वसिति च परतिभेदाच च भासते इत्य एते वायवः पञ्च चेष्टयन्तीह देहिनम ॥ 25 ॥
भूमेर गन्धगुणान वेत्ति रसं चाद्भ्यः शरीरवान जयॊतिः पश्यति चक्षुर्भ्यां सपर्शं वेत्ति च वायुना ॥ 26 ॥
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान गुणान इष्टश चानिष्ट गन्धश च मधुरः कतुर एव च ॥ 27 ॥
निर्हारी संहतः सनिग्धॊ रूक्षॊ विशद एव च एवं नवविधॊ जञेयः पार्थिवॊ गन्धविस्तरः ॥ 28 ॥
शब्दः सपर्शश च रूपं च रसश चापां गुणाः समृताः रसज्ञानं तु वक्ष्यामि तन मे निगदतः शृणु ॥ 29 ॥
रसॊ बहुविधः परॊक्तः सूरिभिः परथितात्मभिः मधुरॊ लवनस तिक्तः कसायॊ ऽमलः कतुस तथा एष षड्विध विस्तारॊ रसॊ वारि मयः समृतः ॥ 30 ॥
शब्दः सपर्शश च रूपं च तरिगुणं जयॊतिर उच्यते जयॊतिः पश्यति रूपाणि रूपं च बहुधा समृतम ॥ 31 ॥
हरस्वॊ दीर्घस तथा सथूलश चतुरस्रॊ ऽनु वृत्तवान शुक्लः कृष्णस तथा रक्तॊ नीलः पीतॊ ऽरुणस तथा एवं दवादश विस्तारॊ जयॊती रूपगुण समृतः ॥ 32 ॥
शब्दस्पर्शौ तु विज्ञेयौ दविगुणॊ वायुर उच्यते वायव्यस तु गुणः सपर्शः सपर्शश च बहुधा समृतः ॥ 33 ॥
कथिनश चिक्कनः शलक्ष्णः पिच्छलॊ मृदु दारुणः उष्णः शीतः सुखॊ दुःखः सनिग्धॊ विशद एव च एवं दवादश विस्तारॊ वायव्यॊ गुण उच्यते ॥ 34 ॥
तत्रैकगुणम आकाशं शब्द इत्य एव तत समृतम तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम ॥ 35 ॥
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस तथा धैवतश चापि विज्ञेयस तथा चापि निषादकः ॥ 36 ॥
एष सप्त विधः परॊक्तॊ गुण आकाशलक्षणः तरैस्वर्येण तु सर्वत्र सथितॊ ऽपि पतहादिषु ॥ 37 ॥
आकाशजं शब्दम आहुर एभिर वायुगुणैः सह अव्याहतैश चेतयते न वेत्ति विषमागतैः ॥ 38 ॥
आप्यायन्ते च ते नित्यं धातवस तैस तु धातुभिः आपॊ ऽगनिर मारुतश चैव नित्यं जाग्रति देहिषु ॥ 39 ॥
शान्तिपर्व · Shanti Parva
अध्याय 177
Reach this point to mark the section finished.
Continue to अध्याय 178