[य] कुतः सृष्टम इदं विश्वं जगत सथावरजङ्गमम परलये च कम अभ्येति तन मे बरूहि पितामह ॥ 1 ॥
ससागरः सगगनः सशैलः सबलाहकः सभूमिः साग्निपवनॊ लॊकॊ ऽयं केन निर्मितः ॥ 2 ॥
सथं सृष्टानि भूतानि कथं वर्णविभक्तयः शौचाशौचं कथं तेषां धर्माधर्माव अथॊ कथम ॥ 3 ॥
कीदृशॊ जीवतां जीवः कव वा गच्छन्ति ये मृताः अस्माल लॊकाद अमुं लॊकं सर्वं शंसतु नॊ भवान ॥ 4 ॥
[भस] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भृगुणाभिहितं शरेष्ठं भरद्वाजाय पृच्छते ॥ 5 ॥
कैलासशिखरे दृष्ट्वा दीप्यमानम इवौजसा भृगुं महर्षिम आसीनं भरद्वाजॊ ऽनवपृच्छत ॥ 6 ॥
ससागरः सगगनः सशैलः सबलाहकः सभूमिः साग्निपवनॊ लॊकॊ ऽयं केन निर्मितः ॥ 7 ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः शौचाशौचं कथं तेषां धर्माधर्माव अथॊ कथम ॥ 8 ॥
कीदृशॊ जीवतां जीवः कव वा गच्छन्ति ये मृताः परलॊकम इमं चापि सर्वं शंसतु नॊ भगान ॥ 9 ॥
एवं स भगवान पृष्टॊ भरद्वाजेन संशयम महर्षिर बरह्म संकाशः सर्वं तस्मै ततॊ ऽबरवीत ॥ 10 ॥
मानसॊ नाम विख्यातः शरुतपूर्वॊ महर्षिभिः अनादि निधनॊ देवस तथाभेद्यॊ ऽजरामरः ॥ 11 ॥
अव्यक्त इति विख्यातः शाश्वतॊ ऽथाक्षरॊ ऽवययः यतः सृष्टानि भूतानि जायन्ते च मरियन्ति च ॥ 12 ॥
सॊ ऽसृजत परथमं देवॊ महान्तं नाम नामतः आकाशम इति विख्यातं सर्वभूतधरः परभुः ॥ 13 ॥
आकाशाद अभवद वारि सलिलाद अग्निमारुतौ अग्निमारुत संयॊगात ततः समभवन मही ॥ 14 ॥
ततस तेजॊमयं दिव्यं पद्मं सृष्टं सवयम्भुवा तस्मात पद्मात समभवद बरह्मा वेदमयॊ निधिः ॥ 15 ॥
अहंकार इति खयातः सर्वभूतात्मभूतकृत बरह्मा वै सुमहातेजा य एते पञ्च धातवः ॥ 16 ॥
शैलास तस्यास्थि संज्ञास तु मेदॊ मांसं व मेदिनी समुद्रास तस्य रुधिरम आकाशम उदरं तथा ॥ 17 ॥
पवनश चैव निःश्वासस तेजॊ ऽगनिर निम्नगाः सिराः अग्नीसॊमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥ 18 ॥
नभश चॊर्ध्वं शिरस तस्य कषितिः पादौ दिशॊ भुजौ दुर्विज्ञेयॊ हय अनन्तत्वात सिद्धैर अपि न संशयः ॥ 19 ॥
स एव भगवान विष्णुर अनन्त इति विश्रुतः सर्वभूतात्मभूतस्थॊ दुर्विज्ञेयॊ ऽकृतात्मभिः ॥ 20 ॥
अहंकारस्य यः सरष्टा सर्वभूतभवाय वै यतः समभवद विश्वं पृष्टॊ ऽहं यद इह तवया ॥ 21 ॥
[भरद्वाज] गगनस्य दिशां चैव भूतलस्यानिलस्य च कान्य अत्र परिमानानि संशयं छिन्धि मे ऽरथतः ॥ 22 ॥
[भृगु] अनन्तम एतद आकाशं सिद्धचारणसेवितम रम्यं नानाश्रयाकीर्णं यस्यान्तॊ नाधिगम्यते ॥ 23 ॥
ऊर्ध्वं गतेर अधस्तात तु चन्द्रादित्यौ न दृश्यतः तत्र देवाः सवयं दीप्ता भास्वराश चाग्निवर्चसः ॥ 24 ॥
ते चाप्य अन्तं न पश्यन्ति नभसः परथितौजसः दुर्गमत्वाद अनन्तत्वाद इति मे विद्धि मानद ॥ 25 ॥
उपरिष्टॊपरिष्टात तु परज्वलद्भिः सवयंप्रभैः निरुद्धम एतद आकाशम अप्रमेयं सुरैर अपि ॥ 26 ॥
पृथिव्य अन्ते समुद्रास तु समुद्रान्ते तमः समृतम तमसॊ ऽनते जलं पराहुर जलस्यान्ते ऽगनिर एव च ॥ 27 ॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः तद अन्ते पुनर आकाशम आकाशान्ते पुनर जलम ॥ 28 ॥
एवम अन्तं भगवतः परमानं सलिलस्य च अग्निमारुत तॊयेभ्यॊ दुर्ज्ञेयं दैवतैर अपि ॥ 29 ॥
अग्निमारुत तॊयानां वर्णाः कषितितलस्य च आकाशसदृशा हय एते भिद्यन्ते तत्त्वदर्शनात ॥ 30 ॥
पथन्ति चैव मुनयः शास्त्रेषु विविधेषु च तरैलॊक्ये सागरे चैव परमानं विहितं यथा अदृश्याय तव अगम्याय कः परमानम उदाहरेत ॥ 31 ॥
सिद्धानां देवतानां च यदा परिमिता गतिः तदा गौनम अनन्तस्य नामानन्तेति विश्रुतम नामधेयानुरूपस्य मानसस्य महात्मनः ॥ 32 ॥
यदा तु दिव्यं तद रूपं हरसते वर्धते पुनः कॊ ऽनयस तद वेदितुं शक्तॊ यॊ ऽपि सयात तद्विधॊ ऽपरः ॥ 33 ॥
ततः पुष्करतः सृष्टः सर्वज्ञॊ मूर्तिमान परभुः बरह्मा धर्ममयः पूर्वः परजापतिर अनुत्तमः ॥ 34 ॥
[भ] पुष्कराद यदि संभूतॊ जयेष्ठं भवति पुष्करम बरह्माणं पूर्वजं चाह भवान संदेह एव मे ॥ 35 ॥
[भ] मानसस्येह या मूर्तिर बरह्मत्वं समुपागता तस्यासन विधानार्थं पृथिवी पद्मम उच्यते ॥ 36 ॥
कनिका तस्य पद्यस्य मेरुर गगनम उच्छ्रितः तस्य मध्ये सथितॊ लॊकान सृजते जगतः परभुः ॥ 37 ॥
शान्तिपर्व · Shanti Parva
अध्याय 175
Reach this point to mark the section finished.
Continue to अध्याय 176