[युधिस्ठिर] यद्य अस्ति दत्तम इष्टं वा तपस तप्तं तथैव च गुरूणां चापि शुश्रूसा तन मे बरूहि पितामह ॥ 1 ॥
[भीस्म] आत्मनानर्थ युक्तेन पापे निविशते मनः स कर्म कलुषं कृत्वा कलेशे महति धीयते ॥ 2 ॥
दुर्भिक्षाद एव दुर्भिक्षं कलेशात कलेशं भयाद भयम मृतेभ्यः परमृतं यान्ति दरिद्राः पापकारिणः ॥ 3 ॥
उत्सवाद उत्सवं यान्ति सवर्गात सवर्गं सुखात सुखम शरद्दधानाश च दान्ताश च धनाध्याः शुभकारिणः ॥ 4 ॥
वयालकुञ्जरदुर्गेषु सर्पचॊर भयेषु च हस्तावापेन गच्छन्ति नास्तिकाः किम अतः परम ॥ 5 ॥
परिय देवातिथेयाश च वदान्याः परिय साधवः कषेम्यम आत्मवतां मार्गम आस्थिता हस्तदक्षिणम ॥ 6 ॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु तद्विधास ते मनुष्येषु येषां धर्मॊ न कारणम ॥ 7 ॥
सुशीघ्रम अपि धावन्तं विधानम अनुधावति शेते सह शयानेन येन येन यथा कृतम ॥ 8 ॥
उपतिष्ठति तिष्ठन्तं गच्छन्तम अनुगच्छति करॊति कुर्वतः कर्म छायेवानुविधीयते ॥ 9 ॥
येन येन यथा यद यत पुरा कर्म समाचितम तत तद एव नरॊ भुङ्क्ते नित्यं विहितम आत्मना ॥ 10 ॥
सवकर्मफलविक्षिप्तं विधानपरिरक्षितम भूतग्रामम इमं कालः समन्तात परिकर्षति ॥ 11 ॥
अचॊद्यमानानि यथा पुष्पानि च फलानि च सवकालं नातिवर्तन्ते तथा कर्म पुरा कृतम ॥ 12 ॥
संमानश चावमानश च लाभालाभौ कषयॊदयौ परवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः ॥ 13 ॥
आत्मना विहितं दुःखम आत्मना विहितं सुखम गर्भशय्याम उपादाय भुज्यते पौर्वदेहिकम ॥ 14 ॥
बालॊ युवा च वृद्धश च यत करॊति शुभाशुभम तस्यां तस्याम अवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ 15 ॥
यथा धेनु सहस्रेषु वत्सॊ विन्दति मातरम तथा पूर्वकृतं कर्म कर्तारम अनुगच्छति ॥ 16 ॥
समुन्नम अग्रतॊ वस्त्रं पश्चाच छुध्यति कर्मणा उपवासैः परतप्तानां दीर्घं सुखम अनन्तकम ॥ 17 ॥
दीर्घकालेन तपसा सेवितेन तपॊवने धर्मनिर्धूतपापानां संसिध्यन्ते मनॊरथाः ॥ 18 ॥
शकुनीनाम इवाकाशे मत्स्यानाम इव चॊदके पदं यथा न दृश्येत तथा जञानविदां गतिः ॥ 19 ॥
अलम अन्यैर उपालम्भैर कीर्तितैश च वयतिक्रमैः पेशलं चानुरूपं च कर्तव्यं हितम आत्मनः ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 174
Reach this point to mark the section finished.
Continue to अध्याय 175