धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 173

  1. [युधिस्ठिर] बान्धवाः कर्म वित्तं वा परज्ञा वेह पितामह नरस्य का परतिष्ठा सयाद एतत पृष्ठॊ वदस्व मे ॥ 1 ॥

  2. [भीस्म] परज्ञा परतिष्ठा भूतानां परज्ञा लाभः परॊ मतः परज्ञा निःश्रेयसी लॊके परज्ञा सवर्गॊ मतः सताम ॥ 2 ॥

  3. परज्ञया परापितार्थॊ हि बलिर ऐश्वर्यसंक्षये परह्रादॊ नमुचिर मङ्किस तस्याः किं विद्यते परम ॥ 3 ॥

  4. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम इन्द्र काश्यप संवादं तन निबॊध युधिष्ठिर ॥ 4 ॥

  5. वैश्यः कश चिद ऋषिं तात काश्यपं संशितव्रतम रथेन पातयाम आस शरीमान दृप्तस तपस्विनम ॥ 5 ॥

  6. आर्तः स पतितः करुद्धस तयक्त्वात्मानम अथाब्रवीत मरिष्याम्य अधनस्येह जीवितार्थॊ न विद्यते ॥ 6 ॥

  7. तथा मुमूर्षम आसीनम अकूजन्तम अचेतसम इन्द्रः सृगालरूपेण बभासे करुद्ध मानसम ॥ 7 ॥

  8. मनुष्ययॊनिम इच्छन्ति सर्वभूतानि सर्वशः मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ 8 ॥

  9. मनुष्यॊ बराह्मणश चापि शरॊत्रियश चासि काश्यप सुदुर्लभम अवाप्यैतद अदॊषान मर्तुम इच्छसि ॥ 9 ॥

  10. सर्वे लाभाः साभिमाना इति सत्या बत शरुतिः संतॊषणीय रूपॊ ऽसि लॊभाद यद अभिमन्यसे ॥ 10 ॥

  11. अहॊ सिद्धार्थता तेषां येषां सन्तीह पानयः पानिमद्भ्यः सपृहास्माकं यथा तव धनस्य वै ॥ 11 ॥

  12. न पानि लाभाद अधिकॊ लाभः कश चन विद्यते अपानित्वाद वयं बरह्मन कन्तकान नॊद्धरामहे ॥ 12 ॥

  13. अथ येषां पुनः पानी देवदत्तौ दशाङ्गुली उद्धरन्ति कृमीन अङ्गाद दशमानान कसन्ति च ॥ 13 ॥

  14. हिमवर्षातपानां च परित्राणानि कुर्वते चेलम अन्नं सुखं शय्यां निवातं चॊपभुज्ञते ॥ 14 ॥

  15. अधिष्ठाय च गां लॊके भुज्ञते वाहयन्ति च उपायैर बहुभिश चैव वश्यान आत्मनि कुर्वते ॥ 15 ॥

  16. ये खल्व अजिह्वाः कृपणा अल्पप्राना अपानयः सहन्ते तानि दुःखानि दिष्ट्या तवं न तथा मुने ॥ 16 ॥

  17. दिष्ट्या तवं न सृगालॊ वै न कृमिर न च मूषकः न सर्पॊ न च मन्दूकॊ न चान्यः पापयॊनिजः ॥ 17 ॥

  18. एतावतापि लाभेन तॊष्टुम अर्हसि काश्यप किं पुनर यॊ ऽसि सत्त्वानां सर्वेषां बराह्मणॊत्तमः ॥ 18 ॥

  19. इमे मां कृमयॊ ऽदन्ति तेषाम उद्धरणाय मे नास्ति शक्तिर अपानित्वात पश्यावस्थाम इमां मम ॥ 19 ॥

  20. अकार्यम इति चैवेमं नात्मानं संत्यजाम्य अहम नेतः पापीयसीं यॊनिं पतेयम अपराम इति ॥ 20 ॥

  21. मध्ये वै पापयॊनीनां सार्गाली याम अहं गतः पापीयस्यॊ बहुतरा इतॊ ऽनयाः पापयॊनयः ॥ 21 ॥

  22. जात्यैवैके सुखतराः सन्त्य अन्ये भृशदुःखिताः नैकान्त सुखम एवेह कव चित पश्यामि कस्य चित ॥ 22 ॥

  23. मनुष्या हय आध्यतां पराप्य राज्यम इच्छन्त्य अनन्तरम राज्याद देवत्वम इच्छन्ति देवत्वाद इन्द्रताम अपि ॥ 23 ॥

  24. भवेस तवं यद्य अपि तव आध्यॊ न राजा न च दैवतम देवत्वं पराप्य चेन्द्रत्वं नैव तुष्येस तथा सति ॥ 24 ॥

  25. न तृप्तिः परिय लाभे ऽसति तृष्णा नाद्भिः परशाम्यति संप्रज्वलति सा भूयः समिद्भिर इव पावकः ॥ 25 ॥

  26. अस्त्य एव तवयि शॊकॊ वै हर्षश चास्ति तथा तवयि सुखदुःखे तथा चॊभे तत्र का परिदेवना ॥ 26 ॥

  27. परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम मूलं रुन्धीन्द्रिय गरामं शकुन्तान इव पञ्जरे ॥ 27 ॥

  28. न खल्व अप्य अरसज्ञस्य कामः कव चन जायते संस्पर्शाद दर्शनाद वापि शरवणाद वापि जायते ॥ 28 ॥

  29. न तवं समरसि वारुण्या लत्वाकानां च पक्षिणाम ताभ्यां चाभ्यधिकॊ भक्ष्यॊ न कश चिद विद्यते कव चित ॥ 29 ॥

  30. यानि चान्यानि दूरेषु भक्ष्यभॊज्यानि काश्यप येषाम अभुक्त पूर्वं ते तेषाम अस्मृतिर एव च ॥ 30 ॥

  31. अप्राशनम असंस्पर्शम असंदर्शनम एव च पुरुषस्यैष नियमॊ मन्ये शरेयॊ न संशयः ॥ 31 ॥

  32. पानिमन्तॊ धनैर युक्ता बलवन्तॊ न संशयः मनुष्या मानुषैर एव दासत्वम उपपादिताः ॥ 32 ॥

  33. वधबन्धपरिक्लेशैः कलिश्यन्ते च पुनः पुनः ते खल्व अपि रमन्ते च मॊदन्ते च हसन्ति च ॥ 33 ॥

  34. अपरे बाहुबलिनः कृतविद्या मनस्विनः जुगुप्सितां सुकृपणां पापां वृत्तिम उपासते ॥ 34 ॥

  35. उत्सहन्ते च ते वृत्तिम अन्याम अप्य उपसेवितुम सवकर्मणा तु नियतं भवितव्यं तु तत तथा ॥ 35 ॥

  36. न पुल्कसॊ न चन्दाल आत्मानं तयक्तुम इच्छति असंतुष्टः सवया यॊन्या मायां पश्यस्व यादृशीम ॥ 36 ॥

  37. दृष्ट्वा कुनीन पक्षहतान मनुष्यान आमयाविनः सुसंपूर्णः सवया यॊन्या लब्धलाभॊ ऽसि काश्यप ॥ 37 ॥

  38. यदि बराह्मण देहस ते निरातङ्कॊ निरामयः अङ्गानि च समग्राणि न च लॊकेषु धिक्कृतः ॥ 38 ॥

  39. न केन चित परवादेन सत्येनैवापहारिणा धर्मायॊत्तिष्ठ विप्रर्षे नात्मानं तयक्तुम अर्हसि ॥ 39 ॥

  40. यदि बरह्मञ शृणॊष्य एतच छरद्दधासि च मे वचः वेदॊक्तस्य च धर्मस्य फलं मुख्यम अवाप्स्यसि ॥ 40 ॥

  41. सवाध्यायम अग्निसंस्कारम अप्रमत्तॊ ऽनुपालय सत्यं दमं च दानं च सपर्धिष्ठा मा च केन चित ॥ 41 ॥

  42. ये के चन सवध्ययनाः पराप्ता यजन याजनम कथं ते जातु शॊचेयुर धयायेयुर वाप्य अशॊभनम ॥ 42 ॥

  43. इच्छन्तस ते विहाराय सुखं महद अवाप्नुयुः उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥ 43 ॥

  44. नक्षत्रेष्व आसुरेष्व अन्ये दुस्तीर्था दुर्मुहूर्तजाः संपतन्त्य आसुरीं यॊनिं यज्ञप्रसव वर्जिताम ॥ 44 ॥

  45. अहम आसं पण्डितकॊ हैतुकॊ वेद निन्दकः आन्वीक्षिकीं तर्क विद्याम अनुरक्तॊ निरर्थिकाम ॥ 45 ॥

  46. हेतुवादान परवदिता वक्ता संसत्सु हेतुमत आक्रॊष्टा चाभिवक्ता च बरह्म यज्ञेषु वै दविजान ॥ 46 ॥

  47. नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः तस्येयं फलनिर्वृत्तिः सृगालत्वं मम दविज ॥ 47 ॥

  48. अपि जातु तथा तत सयाद अहॊरात्र शतैर अपि यद अहं मानुषीं यॊनिं सृगालः पराप्नुयां पुनः ॥ 48 ॥

  49. संतुष्टश चाप्रमत्तश च यज्ञदानतपॊ रतिः जञेय जञाता भवेयं वै वर्ज्य वर्जयिता तथा ॥ 49 ॥

  50. ततः स मुनिर उत्थाय काश्यपस तम उवाच ह अहॊ बहासि कुशलॊ बुद्धिमान इति विस्मितः ॥ 50 ॥

  51. समवैक्षत तं विप्रॊ जञानदीर्घेण चक्षुषा ददर्श चैनं देवानाम इन्द्रं देवं शचीपतिम ॥ 51 ॥

  52. ततः संपूजयाम आस काश्यपॊ हरिवाहनम अनुज्ञातश च तेनाथ परविवेश सवम आश्रमम ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 174

Previous: अध्याय 172