धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 170

  1. [य] धनिनॊ वाधना ये च वर्तयन्ति सवतन्त्रिणः सुखदुःखागमस तेषां कः कथं वा पितामह ॥ 1 ॥

  2. [भीस्म] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शम्याकेन विमुक्तेन गीतं शान्ति गतेन ह ॥ 2 ॥

  3. अब्रवीन मां पुरा कश चिद बराह्मणस तयागम आस्थितः कलिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥ 3 ॥

  4. उत्पन्नम इह लॊके वै जन्मप्रभृति मानवम विविधान्य उपवर्तन्ते दुःखानि च सुखानि च ॥ 4 ॥

  5. तयॊर एकतरे मार्गे यद्य एनम अभिसंनयेत न सुखं पराप्य संहृष्येन न दुःखं पराप्य संज्वरेत ॥ 5 ॥

  6. न वै चरसि यच छरेय आत्मनॊ वा यद ईहसे अकामात्मापि हि सदा धुरम उद्यम्य चैव हि ॥ 6 ॥

  7. अकिंचनः परिपतन सुखम आस्वादयिष्यसि अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥ 7 ॥

  8. आकिंचन्यं सुखं लॊके पथ्यं शिवम अनामयम अनमित्रम अथॊ हय एतद दुर्लभं सुलभं सताम ॥ 8 ॥

  9. अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः अवेक्षमाणस तरीँल लॊकान न तुल्यम उपलक्षये ॥ 9 ॥

  10. आकिंचन्यं च राज्यं च तुलया समतॊलयम अत्यरिच्यत दारिद्र्यं राज्याद अपि गुणाधिकम ॥ 10 ॥

  11. आकिंचन्ये च राज्ये च विशेषः सुमहान अयम नित्यॊद्विग्नॊ हि धनवान मृत्यॊर आस्य गतॊ यथा ॥ 11 ॥

  12. नैवास्याग्निर न चादित्यॊ न मृत्युर न च दस्यवः परभवन्ति धनज्यानि निर्मुक्तस्य निराशिषः ॥ 12 ॥

  13. तं वै सदा कामचरम अनुपस्तीर्ण शायिनम बाहूपधानं शाम्यन्तं परशंसन्ति दिवौकसः ॥ 13 ॥

  14. धनवान करॊधलॊभाभ्याम आविष्टॊ नष्ट चेतनः तिर्यग ईक्षः शुष्कमुखः पापकॊ भरुकुतीमुखः ॥ 14 ॥

  15. निर्दशंश चाधरौष्ठं च करुद्धॊ दारुणभाषिता कस तम इच्छेत परिद्रष्टुं दातुम इच्छति चेन महीम ॥ 15 ॥

  16. शरिया हय अभीस्क्नं संवासॊ मॊहयत्य अविचक्षणम सा तस्य चित्तं हरति शारदाभ्रम इवानिलः ॥ 16 ॥

  17. अथैनं रूपमानश च धनमानश च विन्दति अभिजातॊ ऽसमि सिद्धॊ ऽसमि नास्मि केवलमानुषः इत्य एभिः कारणैस तस्य तरिभिर चित्तं परसिच्यते ॥ 17 ॥

  18. स परसिक्त मनॊ भॊगान विसृज्य पितृसंचितान परिक्षीणः परस्वानाम आदानं साधु मन्यते ॥ 18 ॥

  19. तम अतिक्रान्त मर्यादम आददानं ततस ततः परतिषेधन्ति राजानॊ लुब्धा मृगम इवेषुभिः ॥ 19 ॥

  20. एवम एतानि दुःखानि तानि तानीह मानवम विविधान्य उपवर्तन्ते गात्रसंस्पर्शजानि च ॥ 20 ॥

  21. तेषां परमदुःखानां बुद्ध्या भैषज्यम आचरेत लॊकधर्मं समाज्ञाय धरुवाणाम अध्रुवैः सह ॥ 21 ॥

  22. नात्यक्त्वा सुखम आप्नॊति नात्यक्त्वा विन्दते परम नात्यक्त्वा चाभयः शेते तयक्त्वा सर्वं सुखी भव ॥ 22 ॥

  23. इत्य एतद धास्तिनपुरे बराह्मणेनॊपवर्णितम शम्याकेन पुरा मह्यं तस्मात तयागः परॊ मतः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 171

Previous: अध्याय 169