[युधिस्थिर] ईहमानः समारम्भान यदि नासादयेद धनम धनतृष्णाभिभूतश च किं कुर्वन सुखम आप्नुयात ॥ 1 ॥
[भीस्म] सर्वसाम्यम अनायासः सत्यवाक्यं च भारत निर्वेदश चाविवित्सा च यस्य सयात स सुखी नरः ॥ 2 ॥
एतान्य एव पदान्य आहुः पञ्च वृद्धाः परशान्तये एष सवर्गश च धर्मश च सुखं चानुत्तमं सताम ॥ 3 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम निर्वेदान मङ्किना गीतं तन निबॊध युधिष्ठिर ॥ 4 ॥
ईहमानॊ धनं मङ्किर भग्नेहश च पुनः पुनः केन चिद धनशेषेण करीतवान दम्य गॊयुगम ॥ 5 ॥
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ आसीनम उष्ट्रं मध्येन सहसैवाभ्यधावताम ॥ 6 ॥
तयॊः संप्राप्तयॊर उष्ट्रः सकन्धदेशम अमर्षणः उत्थायॊत्क्षिप्य तौ दम्यौ परससार महाजवः ॥ 7 ॥
हरियमाणौ तु तौ दम्यौ तेनॊष्ट्रेण परमाथिना मरियमाणौ च संप्रेक्ष्य मङ्किस तत्राब्रवीद इदम ॥ 8 ॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम युक्तेन शरद्धया सम्यग ईहां समनुतिष्ठता ॥ 9 ॥
कृतस्य पूर्वं चानर्थैर युक्तस्याप्य अनुतिष्ठतः इमं पश्यत संगत्या मम दैवम उपप्लवम ॥ 10 ॥
उद्यम्यॊद्यम्य मे दम्यौ विषमेनेव गच्छति उत्क्षिप्य काकतालीयम उन्माथेनेव जम्बुकः ॥ 11 ॥
मनी वॊष्ट्रस्य लम्बेते परियौ वत्सतरौ मम शुद्धं हि दैवम एवेदम अतॊ नैवास्ति पौरुषम ॥ 12 ॥
यदि वाप्य उपपद्येत पौरुषं नाम कर्हि चित अन्विष्यमाणं तद अपि दैवम एवावतिष्ठते ॥ 13 ॥
तस्मान निर्वेद एवेह गन्तव्यः सुखम ईप्सता सुखं सवपिति निर्विण्णॊ निराशश चार्थसाधने ॥ 14 ॥
अहॊ सम्यक शुकेनॊक्तं सर्वतः परिमुच्यता परतिष्ठता महारण्यं जनकस्य निवेशनात ॥ 15 ॥
यः कामान पराप्नुयात सर्वान यश चैनान केवलांस तयजेत परापनात सर्वकामानां परित्यागॊ विशिष्यते ॥ 16 ॥
नान्तं सर्वविवित्सानां गतपूर्वॊ ऽसति कश चन शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥ 17 ॥
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक असकृच चासि निकृतॊ न च निर्विद्यसे तनॊ ॥ 18 ॥
यदि नाहं विनाश्यस ते यद्य एवं रमसे मया मा मां यॊजय लॊभेन वृथा तवं वित्तकामुक ॥ 19 ॥
संचितं संचितं दरव्यं नष्टं तव पुनः पुनः कदा विमॊक्ष्यसे मूढ धनेहां धनकामुक ॥ 20 ॥
अहॊ नु मम बालिश्यं यॊ ऽहं करीदनकस तव किं नैव जातु पुरुषः परेषां परेष्यताम इयात ॥ 21 ॥
न पूर्वे नापरे जातु कामानाम अन्तम आप्नुवन तयक्त्वा सर्वसमारम्भान परतिबुद्धॊ ऽसमि जागृमि ॥ 22 ॥
नूनं ते हृदयं कामवज्र सारमयं दृधम यद अनर्थशताविष्टं शतधा न विदीर्यते ॥ 23 ॥
तयजामि कामत्वां चैव यच च किं चित परियं तव तवाहं सुखम अन्विच्छन्न आत्मन्य उपलभे सुखम ॥ 24 ॥
कामजानामि ते मूलं संकल्पात किल जायसे न तवां संकल्पयिष्यामि समूलॊ न भविष्यति ॥ 25 ॥
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी लब्धानाशॊ यथा मृत्युर लब्धं भवति वा न वा ॥ 26 ॥
परेत्य यॊ न लभते ततॊ दुःखतरं नु किम न च तुष्यति लब्धेन भूय एव च मार्गति ॥ 27 ॥
अनुतर्षुल एवार्थः सवादु गाङ्गम इवॊदकम मद विलापनम एतत तु परतिबुद्धॊ ऽसमि संत्यज ॥ 28 ॥
य इमं मामकं देहं भूतग्रामः समाश्रितः स यात्व इतॊ यथाकामं वसतां वा यथासुखम ॥ 29 ॥
न युष्मास्व इह मे परीतिः कामलॊभानुसारिषु तस्माद उत्सृज्य सर्वान वः सत्यम एवाश्रयाम्य अहम ॥ 30 ॥
सर्वभूतान्य अहं देहे पश्यन मनसि चात्मनः यॊगे बुद्धिं शरुते सत्त्वं मनॊ बरह्मणि धारयन ॥ 31 ॥
विहरिष्याम्य अनासक्तः सुखी लॊकान निरामयः यथा मा तवं पुनर नैवं दुःखेषु परनिधास्यसि ॥ 32 ॥
तवया हि मे परनुन्नस्य गतिर अन्या न विद्यते तृष्णा शॊकश्रमाणां हि तवं कामप्रभवः सदा ॥ 33 ॥
धननाशॊ ऽधिकं दुःखं मन्ये सर्वमहत्तरम जञातयॊ हय अवमन्यन्ते मित्राणि च धनच्युतम ॥ 34 ॥
अवज्ञान सहस्रैस तु दॊषाः कस्ततराधने धने सुखकला या च सापि दुःखैर विधीयते ॥ 35 ॥
धनम अस्येति पुरुषं पुरा निघ्नन्ति दस्यवः कलिश्यन्ति विविधैर दन्दैर नित्यम उद्वेजयन्ति च ॥ 36 ॥
मन्दलॊलुपता दुःखम इति बुद्धिं चिरान मया यद यद आलम्बसे कामतत तद एवानुरुध्यसे ॥ 37 ॥
अतत्त्वज्ञॊ ऽसि बालश च दुस्तॊषॊ ऽपूरणॊ ऽनलः नैव तवं वेत्थ सुलभं नैव तवं वेत्थ दुर्लभम ॥ 38 ॥
पातालम इव दुष्पूरॊ मां दुःखैर यॊक्तुम इच्छसि नाहम अद्य समावेष्टुं शक्यः कामपुनस तवया ॥ 39 ॥
निर्वेदम अहम आसाद्य दरव्यनाशाद यदृच्छया निर्वृतिं परमां पराप्य नाद्य कामान विचिन्तये ॥ 40 ॥
अतिक्लेशान सहामीह नाहं बुध्याम्य अबुद्धिमान निकृतॊ धननाशेन शये सर्वाङ्गविज्वरः ॥ 41 ॥
परित्यजामि कामत्वां हित्वा सर्वमनॊगतीः न तवं मया पुनः कामनस्यॊतेनेव रंस्यसे ॥ 42 ॥
कषमिष्ये ऽकषममाणानां न हिंसिष्ये च हिंसितः दवेष्य मुक्तः परियं वक्ष्याम्य अनादृत्य तद अप्रियम ॥ 43 ॥
तृप्तः सवस्थेन्द्रियॊ नित्यं यथा लब्धेन वर्तयन न सकामं करिष्यामि तवाम अहं शत्रुम आत्मनः ॥ 44 ॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं कषमाम सर्वभूतदयां चैव विद्धि मां शरणागतम ॥ 45 ॥
तस्मात कामश च लॊभश च तृष्णा कार्पण्यम एव च तयजन्तु मां परतिष्ठन्तं सत्त्वस्थॊ हय अस्मि सांप्रतम ॥ 46 ॥
परहाय कामं लॊभं च करॊधं पारुष्यम एव च नाद्य लॊभवशं पराप्तॊ दुःखं पराप्स्याम्य अनात्मवान ॥ 47 ॥
यद यत तयजति कामानां तत सुखस्याभिपूर्यते कामस्य वशगॊ नित्यं दुःखम एव परपद्यते ॥ 48 ॥
कामान वयुदस्य धुनुते यत किं चित पुरुषॊ रजः कामक्रॊधॊद्भवं दुःखम अह्रीर अरतिर एव च ॥ 49 ॥
एष बरह्म परविष्टॊ ऽहं गरीस्मे शीतम इव हरदम शाम्यामि परिनिर्वामि सुखम आसे च केवलम ॥ 50 ॥
यच च कामसुखं लॊके यच च दिव्यं महत सुखम तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम ॥ 51 ॥
आत्मना सप्तमं कामं हत्वा शत्रुम इवॊत्तमम पराप्यावध्यं बरह्म पुरं राजेव सयाम अहं सुखी ॥ 52 ॥
एतां बुद्धिं समास्थाय मङ्किर निर्वेदम आगतः सर्वान कामान परित्यज्य पराप्य बरह्म महत सुखम ॥ 53 ॥
दम्य नाश कृते मङ्किर अमरत्वं किलागमत अछिनत काममूलं स तेन पराप महत सुखम ॥ 54 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं विदेहराजेन जनकेन परशाम्यता ॥ 55 ॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन मिथिलायां परदीप्तायां न मे दह्यति किं चन ॥ 56 ॥
अत्रैवॊदाहरन्तीमं बॊध्यस्य पदसंचयम निर्वेदं परति विन्यस्तं परतिबॊध युधिष्ठिर ॥ 57 ॥
बॊध्यं दान्तम ऋषिं राजा नहुषः पर्यपृच्छत निर्वेदाच छान्तिम आपन्नं शान्तं परज्ञान तर्पितम ॥ 58 ॥
उपदेशं महाप्राज्ञ शमस्यॊपदिशस्व मे कां बुद्धिं समनुध्याय शान्तश चरसि निर्वृतः ॥ 59 ॥
[बॊध्य] उपदेशेन वर्तामि नानुशास्मीह कं चन लक्षणं तस्य वक्ष्ये ऽहं तत सवयं परविमृश्यताम ॥ 60 ॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने इषुकारः कुमारी च स एते गुरवॊ मम ॥ 61 ॥
शान्तिपर्व · Shanti Parva
अध्याय 171
Reach this point to mark the section finished.
Continue to अध्याय 172