धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 169

  1. [य] अतिक्रामति काले ऽसमिन सर्वभूतक्षयावहे किं शरेयः परतिपद्येत तन मे बरूहि पितामह ॥ 1 ॥

  2. [भीस्म] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम पितुः पुत्रेण संवादं तन निबॊध युधिष्ठिर ॥ 2 ॥

  3. दविजातेः कस्य चित पार्थ सवाध्यायनिरतस्य वै बभूव पुत्रॊ मेधावी मेधावी नाम नामतः ॥ 3 ॥

  4. सॊ ऽबरवीत पितरं पुत्रः सवाध्यायकरणे रतम मॊक्षधर्मार्थकुशलॊ लॊकतत्त्वविचक्षणः ॥ 4 ॥

  5. धीरः किं सवित तात कुर्यात परजानन; कषिप्रं हय आयुर भरश्यते मानवानाम पितस तद आचक्ष्व यथार्थयॊगं; ममानुपूर्व्या येन धर्मं चरेयम ॥ 5 ॥

  6. [पिता] वेदान अधीत्य बरह्मचर्येण पुत्र; पुत्रान इच्छेत पावनार्थं पितॄणाम अग्नीन आधाय विधिवच चेष्टयज्ञॊ; वनं परविश्याथ मुनिर बुभूसेत ॥ 6 ॥

  7. [पुत्र] एवम अभ्याहते लॊके समन्तात परिवारिते अमॊघासु पतन्तीषु किं धीर इव भाषसे ॥ 7 ॥

  8. [पिता] कथम अभ्याहतॊ लॊकः केन वा परिवारितः अमॊघाः काः पतन्तीह किं नु भीसयसीव माम ॥ 8 ॥

  9. [पुत्र] मृत्युनाभ्याहतॊ लॊकॊ जरया परिवारितः अहॊरात्राः पतन्त्य एते ननु कस्मान न बुध्यसे ॥ 9 ॥

  10. यदाहम एतज जानामि न मृत्युस तिष्ठतीति ह सॊ ऽहं कथं परतीक्षिष्ये जालेनापिहितश चरन ॥ 10 ॥

  11. रात्र्यां रात्र्यां वयतीतायाम आयुर अल्पतरं यदा गाधॊदके मत्स्य इव सुखं विन्देत कस तदा तद एव वन्ध्यं दिवसम इति विद्याद विचक्षणः ॥ 11 ॥

  12. अनवाप्तेषु कामेषु मृत्युर अभ्येति मानवम शस्पानीव विचिन्वन्तम अन्यत्र गतमानसम वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति ॥ 12 ॥

  13. अद्यैव कुरु यच छरेयॊ मा तवा कालॊ ऽतयगाद अयम अकृतेष्व एव कार्येषु मृत्युर वै संप्रकर्षति ॥ 13 ॥

  14. शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम न हि परतीक्षते मृत्युः कृतं वास्य न वा कृतम कॊ हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ॥ 14 ॥

  15. युवैव धर्मशीलः सयाद अनिमित्तं हि जीवितम कृते धर्मे भवेत कीर्तिर इह परेत्य च वै सुखम ॥ 15 ॥

  16. मॊहेन हि समाविष्टः पुत्रदारार्थम उद्यतः कृत्वा कार्यम अकार्यं वा पुष्टिम एषां परयच्छति ॥ 16 ॥

  17. तं पुत्रपशुसंमत्तं वयासक्तमनसं नरम सुप्तं वयाघ्रं महौघॊ वा मृत्युर आदाय गच्छति ॥ 17 ॥

  18. संचिन्वानकम एवैकं कामानाम अवितृप्तकम वयाघ्रः पशुम इवादाय मृत्युर आदाय गच्छति ॥ 18 ॥

  19. इदं कृतम इदं कार्यम इदम अन्यत कृताकृतम एवम ईहा सुखासक्तं कृतान्तः कुरुते वशे ॥ 19 ॥

  20. कृतानां फलम अप्राप्तं कर्मणां फलसङ्गिनम कषेत्रापन गृहासक्तं मृत्युर आदाय गच्छति ॥ 20 ॥

  21. मृत्युर जरा च वयाधिश च दुःखं चानेक कारणम अनुषक्तं यदा देहे किं सवस्थ इव तिष्ठसि ॥ 21 ॥

  22. जातम एवान्तकॊ ऽनताय जरा चान्वेति देहिनम अनुषक्ता दवयेनैते भावाः सथावरजङ्गमाः ॥ 22 ॥

  23. मृत्यॊर वा गृहम एवैतद या गरामे वसतॊ रतिः देवामाम एष वै गॊष्ठॊ यद अरण्यम इति शरुतिः ॥ 23 ॥

  24. निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ 24 ॥

  25. न हिंसयति यः परानान मनॊवाक्कायहेतुभिः जीवितार्थापनयनैः कर्मभिर न स बध्यते ॥ 25 ॥

  26. न मृत्युसेनाम आयान्तीं जातु कश चित परबाधते ऋते सत्यम असंत्याज्यं सत्ये हय अमृतम आश्रितम ॥ 26 ॥

  27. तस्मात सत्यव्रताचारः सत्ययॊगपरायनः सत्यारामः समॊ दान्तः सत्येनैवान्तकं जयेत ॥ 27 ॥

  28. अमृतं चैव मृत्युश च दवयं देहे परतिष्ठितम मृत्युम आपद्यते मॊहात सत्येनापद्यते ऽमृतम ॥ 28 ॥

  29. सॊ ऽहं हय अहिंस्रः सत्यार्थी कामक्रॊधबहिष्कृतः समदुःखसुखः कषेमी मृत्युं हास्याम्य अमर्त्यवत ॥ 29 ॥

  30. शान्ति यज्ञरतॊ दान्तॊ बरह्म यज्ञे सथितॊ मुनिः वाङ्मनः कर्म यज्ञश च भविष्याम्य उदगायने ॥ 30 ॥

  31. पशुयज्ञैः कथं हिंस्रैर मादृशॊ यस्तुम अर्हति अन्तवद्भिर उत पराज्ञः कषत्रयज्ञैः पिशाचवत ॥ 31 ॥

  32. यस्य वाङ्मनसी सयातां सम्यक परनिहिते सदा तपस तयागश च यॊगश च स वै सर्वम अवाप्नुयात ॥ 32 ॥

  33. नास्ति विद्या समं चक्षुर नास्ति विद्या समं बलम नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम ॥ 33 ॥

  34. आत्मन्य एवात्मना जात आत्मनिष्ठॊ ऽपरजॊ ऽपि वा आत्मन्य एव भविष्यामि न मां तारयति परजा ॥ 34 ॥

  35. नैतादृशं बराह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च शीले सथितिर दन्द निधानम आर्जवं; ततस ततश चॊपरमः करियाभ्यः ॥ 35 ॥

  36. किं ते धनैर बान्धवैर वापि किं ते; किं ते दारैर बराह्मण यॊ मरिष्यसि आत्मानम अन्विच्छ गुहां परविष्टं; पितामहस ते कव गतः पिता च ॥ 36 ॥

  37. [भीस्म] पुत्रस्यैतद वचः शरुत्वा तथाकार्षीत पिता नृप तथा तवम अपि वर्तस्य सत्यधर्मपरायनः ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 170

Previous: अध्याय 168