धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 16

  1. [वैषम्पायन] अर्जुनस्य वचॊ शरुत्वा भीमसेनॊ ऽतय अमर्षणः धैर्यम आस्थाय तेजस्वी जयेष्ठं भरातरम अब्रवीत ॥ 1 ॥

  2. राजन विदितधर्मॊ ऽसि न ते ऽसत्य अविदितं भुवि उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥ 2 ॥

  3. न वक्ष्यामि न वक्ष्यामीत्य एवं मे मनसि सथितम अति दुःखात तु वक्ष्यामि तन निबॊध जनाधिप ॥ 3 ॥

  4. भवतस तु परमॊहेन सर्वं संशयितं कृतम विक्लवत्वं च नः पराप्तम अबलत्वं तथैव च ॥ 4 ॥

  5. कथं हि राजा लॊकस्य सर्वशास्त्रविशारदः मॊहम आपद्यते दैन्याद यथा कु पुरुषस तथा ॥ 5 ॥

  6. आगतिश च गतिश चैव लॊकस्य विदिता तव आयत्यां च तदात्वे च न ते ऽसत्य अविदितं परभॊ ॥ 6 ॥

  7. एवंगते महाराज राज्यं परति जनाधिप हेतुम अत्र परवक्ष्यामि तद इहैकमनाः शृणु ॥ 7 ॥

  8. दविदिधॊ जायते वयाधिः शारीरॊ मानसस तथा परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते ॥ 8 ॥

  9. शारीराज जायते वयाधिर मानसॊ नात्र संशयः मानसाज जायते वयाधिः शारीर इति निश्चयः ॥ 9 ॥

  10. शारीर मानसे दुःखे यॊ ऽतीते अनुशॊचति दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते ॥ 10 ॥

  11. शीतॊष्णे चैव वायुश च तरयः शारीर जा गुणाः तेषां गुणानां साम्यं च तद आहुः सवस्थलक्षणम ॥ 11 ॥

  12. तेषाम अन्यतमॊत्सेके विधानम उपदिष्यते उष्णेन बाध्यते शीतं शीतेनॊष्णं परबाध्यते ॥ 12 ॥

  13. सत्त्वं रजॊ तमॊ चैव मानसाः सयुस तरयॊ गुणाः हर्षेण बाध्यते शॊकॊ हर्षः शॊकेन बाध्यते ॥ 13 ॥

  14. कश चित सुखे वर्तमानॊ दुःखस्य समर्तुम इच्छति कश चिद दुःखे वर्तमानः सुखस्य समर्तुम इच्छति ॥ 14 ॥

  15. स तवं न दुःखी दुःखस्य न सुखी च सुखस्य च न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ॥ 15 ॥

  16. समर्तुम अर्हसि कौरव्य दिष्टं तु बलवत्तरम अथ वा ते सवभावॊ ऽयं येन पार्थिव कृष्यसे ॥ 16 ॥

  17. दृष्ट्वा सभा गतां कृष्णाम एकवस्त्रां रजस्वलाम मिषतां पाण्डुपुत्राणां न तस्य समर्तुम अर्हसि ॥ 17 ॥

  18. परव्राजनं च नगराद अजिनैश च निवासनम महारण्यनिवासश च न तस्य समर्तुम अर्हसि ॥ 18 ॥

  19. जटासुरात परिक्लेशं चित्रसेनेन चाहवम सैन्धवाच च परिक्लेशं कथं विस्मृतवान असि पुनर अज्ञातचर्यायां कीचकेन पदा वधम ॥ 19 ॥

  20. यच च ते दरॊण भीष्माभ्यां युद्धम आसीद अरिंदम मनसैकेन ते युद्धम इदं घॊरम उपस्थितम ॥ 20 ॥

  21. यत्र नास्ति शरैः कार्यं न मित्रैर न च बन्धुभिः आत्मनैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम ॥ 21 ॥

  22. तस्मिन्न अनिर्जिते युद्धे परणान यदि ह मॊक्ष्यसे अन्यं देहं समास्थाय पुनस तेनैव यॊत्स्यसे ॥ 22 ॥

  23. तस्माद अद्यैव गन्तव्यं युद्धस्य भरतर्षभ एतज जित्वा महाराज कृतकृत्यॊ भविष्यसि ॥ 23 ॥

  24. एतां बुद्धिं विनिश्चित्य भूतानाम आगतिं गतिम पितृपैतामहे वृत्ते शाधि राज्यं यथॊचितम ॥ 24 ॥

  25. दिष्ट्या दुर्यॊधनः पापॊ निहतः सानुगॊ युधि दरौपद्याः केशपक्षस्य दिष्ट्या तवं पदवीं गतः ॥ 25 ॥

  26. यजस्व वाजिमेधेन विधिवद दक्षिणावता वयं ते किंकराः पार्थ वासुदेवश च वीर्यवान ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 17

Previous: अध्याय 15