धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 168

  1. [य] धर्माः पितामहेनॊक्ता राजधर्माश्रिताः शुभाः धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हसि पार्थिव ॥ 1 ॥

  2. [भीस्म] सर्वत्र विहितॊ धर्मः सवर्ग्यः सत्यफलं तपः बहु दवारस्य धर्मस्य नेहास्ति विफला करिया ॥ 2 ॥

  3. यस्मिन यस्मिंस तु विनये यॊ यॊ याति विनिश्चयम स तम एवाभिजानाति नान्यं भरतसत्तम ॥ 3 ॥

  4. यथा यथा च पर्येति लॊकतन्त्रम असारवत तथा तथा विरागॊ ऽतर जायते नात्र संशयः ॥ 4 ॥

  5. एवं वयवसिते लॊके बहुदॊषे युधिष्ठिर आत्ममॊक्षनिमित्तं वै यतेत मतिमान नरः ॥ 5 ॥

  6. [य] नष्टे धने वा दारे वा पुत्रे पितरि वा मृते यया बुद्ध्या नुदेच छॊकं तन मे बरूहि पितामह ॥ 6 ॥

  7. [भी] नष्टे धने वा दारे वा पुत्रे पितरि वा मृते अहॊ दुःखम इति धयायञ शॊकस्यापचितिं चरेत ॥ 7 ॥

  8. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा सेनजितं विप्रः कश चिद इत्य अब्रवीद वचः ॥ 8 ॥

  9. पुत्रशॊकाभिसंतप्तं राजानं शॊकविह्वलम विषन्नवदनं दृष्ट्वा विप्रॊ वचनम अब्रवीत ॥ 9 ॥

  10. किं नु खल्व असि मूढस तवं शॊच्यः किम अनुशॊचसि यदा तवाम अपि शॊचन्तः शॊच्या यास्यन्ति तां गतिम ॥ 10 ॥

  11. तवं चैवाहं च ये चान्ये तवां राजन पर्युपासते सर्वे तत्र गमिष्यामॊ यत एवागता वयम ॥ 11 ॥

  12. [सेनजित] का बुद्धिः किं तपॊ विप्र कः समाधिस तपॊधन किं जञानं किं शरुतं वा ते यत पराप्य न विषीदसि ॥ 12 ॥

  13. [बराह्मण] पश्य भूतानि दुःखेन वयतिषक्तानि सर्वशः आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ 13 ॥

  14. यथा मम तथान्येषाम इति बुद्ध्या न मे वयथा एतां बुद्धिम अहं पराप्य न परहृष्ये न च वयथे ॥ 14 ॥

  15. यथा काष्ठं च काष्ठं च समेयातां महॊदधौ समेत्य च वयपेयातां तद्वद भूतसमागमः ॥ 15 ॥

  16. एवं पुत्राश च पौत्राश च जञातयॊ बान्धवास तथा तेषु सनेहॊ न कर्तव्यॊ विप्रयॊगॊ हि तैर धरुवम ॥ 16 ॥

  17. अदर्शनाद आपतितः पुनश चादर्शनं गतः न तवासौ वेद न तवं तं कः सन कम अनुशॊचसि ॥ 17 ॥

  18. तृष्णार्ति परभवं दुःखं दुःखार्ति परभवं सुखम सुखात संजायते दुःखम एवम एतत पुनः पुनः सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम ॥ 18 ॥

  19. सुखात तवं दुःखम आपन्नः पुनर आपत्स्यसे सुखम न नित्यं लभते दुःखं न नित्यं लभते सुखम ॥ 19 ॥

  20. नालं सुखाय सुहृदॊ नालं दुःखाय शत्रवः न च परज्ञालम अर्थानां न सुखानाम अलं धनम ॥ 20 ॥

  21. न बुद्धिर धनलाभाय न जाद्यम असमृद्धये लॊकपर्याय वृत्तान्तं पराज्ञॊ जानाति नेतरः ॥ 21 ॥

  22. बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम दुर्बलं बलवन्तं च भागिनं भजते सुखम ॥ 22 ॥

  23. धेनुर वत्सस्य गॊपस्य सवामिनस तस्करस्य च पयः पिबति यस तस्या धेनुस तस्येति निश्चयः ॥ 23 ॥

  24. ये च मूढतमा लॊके ये च बुद्धेः परं गताः ते नराः सुखम एधन्ते कलिश्यत्य अन्तरितॊ जनः ॥ 24 ॥

  25. अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे अन्त्य पराप्तिं सुखाम आहुर दुःखम अन्तरम अन्तयॊः ॥ 25 ॥

  26. ये तु बुद्धिसुखं पराप्ता दवन्द्वातीता विमत्सराः तान नैवार्था न चानर्था वयथयन्ति कदा चन ॥ 26 ॥

  27. अथ ये बुद्धिम अप्राप्ता वयतिक्रान्ताश च मूढताम ते ऽतिवेलं परहृष्यन्ति संतापम उपयान्ति च ॥ 27 ॥

  28. नित्यप्रमुदिता मूढा दिवि देवगणा इव अवलेपेन महता परिदृब्धा विचेतसः ॥ 28 ॥

  29. सुखं दुःखान्तम आलस्यं दुःखं दाक्ष्यं सुखॊदयम भूतिश चैव शरिया सार्धं दक्षे वसति नालसे ॥ 29 ॥

  30. सुखं वा यदि वा दुःखं दवेष्यं वा यदि वा परियम पराप्तं पराप्तम उपासीत हृदयेनापराजितः ॥ 30 ॥

  31. शॊकस्थान सहस्राणि हर्षस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम ॥ 31 ॥

  32. बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुम अनसूयकम दान्तं जितेन्द्रियं चापि शॊकॊ न सपृशते नरम ॥ 32 ॥

  33. एतां बुद्धिं समास्थाय गुप्तचित्तश चरेद बुधः उदयास्तमयज्ञं हि न शॊकः सप्रस्तुम अर्हति ॥ 33 ॥

  34. यन्निमित्तं भवेच छॊकस तरासॊ वा दुःखम एव वा आयासॊ वा यतॊमूलस तद एकाङ्गम अपि तयजेत ॥ 34 ॥

  35. यद यत तयजति कामानां तत सुखस्याभिपूर्यते कामानुसारी पुरुषः कामान अनु विनश्यति ॥ 35 ॥

  36. यच च कामसुखं लॊके यच च दिव्यं महत सुखम तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम ॥ 36 ॥

  37. पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम पराज्ञं मूढं तथा शूरं भजते यादृशं कृतम ॥ 37 ॥

  38. एवम एव किलैतानि परियाण्य एवाप्रियाणि च जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ 38 ॥

  39. तद एवं बुद्धिम आस्थाय सुखं जीवेद गुणान्वितः सर्वान कामाञ जुगुप्सेत सङ्गान कुर्वीत पृष्ठतः वृत्त एष हृदि परौधॊ मृत्युर एष मनॊमयः ॥ 39 ॥

  40. यदा संहरते कामान कूर्मॊ ऽङगानीव सर्वशः तदात्मज्यॊतिर आत्मा च आत्मन्य एव परसीदति ॥ 40 ॥

  41. किं चिद एव ममत्वेन यदा भवति कल्पितम तद एव परितापार्थं सर्वं संपद्यते तदा ॥ 41 ॥

  42. न बिभेति यदा चायं यदा चास्मान न बिभ्यति यदा नेच्छति न दवेष्टि बरह्म संपद्यते तदा ॥ 42 ॥

  43. उभे सत्यानृते तयक्त्वा शॊकानन्दौ भयाभये परियाप्रिये परित्यज्य परशान्तात्मा भविष्यसि ॥ 43 ॥

  44. यदा न कुरुते धीरः सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा ॥ 44 ॥

  45. या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम ॥ 45 ॥

  46. अत्र पिङ्गलया गीता गाथाः शरूयन्ति पार्थिव यथा सा कृच्छ्रकाले ऽपि लेभे धर्मं सनातनम ॥ 46 ॥

  47. संकेते पिङ्गला वेश्या कान्तेनासीद विनाकृता अथ कृच्छ्रगता शान्तां बुद्धिम आस्थापयत तदा ॥ 47 ॥

  48. [पिन्गला] उन्मत्ताहम अनुन्मत्तं कान्तम अन्ववसं चिरम अन्तिके रमणं सन्तं नैनम अध्यगमं पुरा ॥ 48 ॥

  49. एकस्थूनं नवद्वारम अपिधास्याम्य अगारकम का हि कान्तम इहायान्तम अयं कान्तेति मन्स्यते ॥ 49 ॥

  50. अकामाः कामरूपेण धूर्ता नरकरूपिणः न पुनर वञ्चयिष्यन्ति परतिबुद्धास्मि जागृमि ॥ 50 ॥

  51. अनर्थॊ ऽपि भवत्य अर्थॊ दैवात पूर्वकृतेन वा संबुद्धाहं निराकारा नाहम अद्याजितेन्द्रिया ॥ 51 ॥

  52. सुखं निराशः सवपिति नैराश्यं परमं सुखम आशाम अनाशां कृत्वा हि सुखं सवपिति पिङ्गला ॥ 52 ॥

  53. [भी] एतैश चान्यैश च विप्रस्य हेतुमद्भिः परभाषितैः पर्यवस्थापितॊ राजा सेनजिन मुमुदे सुखम ॥ 53 ॥

Reach this point to mark the section finished.

Continue to अध्याय 169

Previous: अध्याय 167