[भ] ततश चितां बकपतेः कारयाम आस राक्षसः रत्नैर गन्धैश च बहुभिर वस्त्रैश च समलंकृताम ॥ 1 ॥
तत्र परज्वाल्य नृपते बकराजं परतावपान परेतकार्याणि विधिवद राक्षसेन्द्रश चकार ह ॥ 2 ॥
तस्मिन काले ऽथ सुरभिर देवी दाक्षायणी शुभा उपरिष्टात ततस तस्य सा बभूव पयस्विनी ॥ 3 ॥
तस्या वक्त्राच चयुतः फेनः कषीरमिश्रस तदानघ सॊ ऽपतद वै ततस तस्यां चितायां राजधर्मणः ॥ 4 ॥
ततः संजीवितस तेन बकराजस तदानघ उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥ 5 ॥
ततॊ ऽभययाद देवराजॊ विरूपाक्षपुरं तदा पराह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्य उत ॥ 6 ॥
शरावयाम आस चेन्द्रस तं विरूपाक्षं पुरातनम यथा शापः पुरा दत्तॊ बरह्मणा राजधर्मणः ॥ 7 ॥
यदा बकपती राजन बरह्माणं नॊपसर्पति ततॊ रॊषाद इदं पराह बकेन्द्राय पितामहः ॥ 8 ॥
यस्मान मूढॊ मम सदॊ नागतॊ ऽसौ बकाधमः तस्माद वधं स दुष्टात्मा नचिरात समवाप्स्यति ॥ 9 ॥
तदायं तस्य वचनान निहतॊ गौतमेन वै तेनैवामृत सिक्तश च पुनः संजीवितॊ बकः ॥ 10 ॥
राजधर्मा ततः पराह परणिपत्य पुरंदरम यदि ते ऽनुग्रह कृता मयि बुद्धिः पुरंदर सखायं मे सुदयितं गौतमं जीवयेत्य उत ॥ 11 ॥
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ संजीवयित्वा सख्ये वै परादात तं गौतमं तदा ॥ 12 ॥
स भाण्डॊपस्करं राजंस तम आसाद्य बकाधिपः संपरिष्वज्य सुहृदं परीत्या परमया युतः ॥ 13 ॥
अथ तं पापकर्माणं राजधर्मा बकाधिपः विसर्जयित्वा सधनं परविवेश सवम आलयम ॥ 14 ॥
यथॊचितं च स बकॊ ययौ बरह्म सदस तदा बरह्मा च तं महात्मानम आतिथ्येनाभ्यपूजयत ॥ 15 ॥
गौतमश चापि संप्राप्य पुनस तं शबरालयम शूद्रायां जनयाम आस पुत्रान दुष्कृतकारिणः ॥ 16 ॥
शापश च सुमहांस तस्य दत्तः सुरगणैस तदा कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात सुतान निरयं पराप्स्यति महत कृतघ्नॊ ऽयम इति परभॊ ॥ 17 ॥
एतत पराह पुरा सर्वं नारदॊ मम भारत संस्मृत्य चापि सुमहद आख्यानं पुरुषर्षभ मयापि भवते सर्वं यथावद उपवर्णितम ॥ 18 ॥
कुतः कृतघ्नस्य यशः कुतः सथानं कुतः सुखम अश्रद्धेयः कृतघ्नॊ हि कृतघ्ने नास्ति निष्कृतिः ॥ 19 ॥
मित्रद्रॊहॊ न कर्तव्यः पुरुषेण विशेषतः मित्र धरुन निरयं घॊरम अनन्तं परतिपद्यते ॥ 20 ॥
कृतज्ञेन सदा भाव्यं मित्र कामेन चानघ मित्रात परभवते सत्यं मित्रात परभवते बलम सत्कारैर उत्तमैर मित्रं पूजयेत विचक्षणः ॥ 21 ॥
परित्याज्यॊ बुधैः पापः कृतघ्नॊ निरपत्रपः मित्रद्रॊही कुलाङ्गारः पापकर्मा नराधमः ॥ 22 ॥
एष धर्मभृतां शरेष्ठ परॊक्तः पापॊ मया तव मित्रद्रॊही कृतघ्नॊ वै किं भूयः शरॊतुम इच्छसि ॥ 23 ॥
[व] एतच छरुत्वा तदा वाक्यं भीष्मेणॊक्तं महात्मना युधिष्ठिरः परीतमना बभूव जनमेजय ॥ 24 ॥
शान्तिपर्व · Shanti Parva
अध्याय 167
Reach this point to mark the section finished.
Continue to अध्याय 168