[भ] अथ तत्र महार्चिष्मान अनलॊ वातसारथिः तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतॊ ऽभवत ॥ 1 ॥
स चापि पार्श्वे सुष्वाप विश्वस्तॊ बकराट तदा कृतघ्नस तु स दुष्टात्मा तं जिघांसुर अजागरत ॥ 2 ॥
ततॊ ऽलातेन दीप्तेन विश्वस्तं निजघान तम निहत्य च मुदा युक्तः सॊ ऽनुबन्धं न दृष्टवान ॥ 3 ॥
स तं विपक्ष रॊमाणं कृत्वाग्नाव अपचत तदा तं गृहीत्वा सुवर्णं च ययौ दरुततरं दविजः ॥ 4 ॥
ततॊ ऽनयस्मिन गते चाह्नि विरूपाक्षॊ ऽबरवीत सुतम न परेक्षे राजधर्माणम अद्य पुत्र खगॊत्तमम ॥ 5 ॥
स पूर्वसंध्यां बरह्माणं वन्दितुं याति सर्वदा मां चादृष्ट्वा कदा चित स न गच्छति गृहान खगः ॥ 6 ॥
उभे दविरात्रं संध्ये वै नाभ्यगात स ममालयम तस्मान न शुध्यते भावॊ मम स जञायतां सुहृत ॥ 7 ॥
सवाध्यायेन वियुक्तॊ हि बरह्म वर्चस वर्जितः तं गतस तत्र मे शङ्का हन्यात तं स दविजाधमः ॥ 8 ॥
दुराचारस तु दुर्बुद्धिर इङ्गितैर लक्षितॊ मया निष्क्रियॊ दारुणाकारः कृष्णॊ दस्युर इवाधमः ॥ 9 ॥
गौतमः स गतस तत्र तेनॊद्विग्नं मनॊ मम पुत्र शीघ्रम इतॊ गत्वा राजधर्मनिवेशनम जञायतां स विशुद्धात्मा यदि जीवति माचिरम ॥ 10 ॥
स एवम उक्तस तवरितॊ रक्षॊभिः सहितॊ ययौ नयग्रॊधं तत्र चापश्यत कङ्कालं राजधर्मणः ॥ 11 ॥
स रुदन्न अगमत पुत्रॊ राक्षसेन्द्रस्य धीमतः तवरमाणः परं शक्त्या गौतम गरहणाय वै ॥ 12 ॥
ततॊ ऽविदूरे जगृहुर गौतमं राक्षसास तदा राजधर्मशरीरं च पक्षास्थि चरणॊज्झितम ॥ 13 ॥
तम आदायाथ रक्षांसि दरुतं मेरुव्रजं ययुः राज्ञश च दर्शयाम आसुः शरीरं राजधर्मणः कृतघ्नं पुरुषं तं च गौतमं पापचेतसम ॥ 14 ॥
रुरॊद राजा तं दृष्ट्वा सामात्यः स पुरॊहितः आर्तनादश च सुमहान अभूत तस्य निवेशने ॥ 15 ॥
स सत्री कुमारं च पुरं बभूवास्वस्थ मानसम अथाब्रवीन नृपः पुत्रं पापॊ ऽयं वध्यताम इति ॥ 16 ॥
अस्य मांसैर इमे सर्वे विहरन्तु यथेष्टतः पापाचारः पापकर्मा पापात्मा पापनिश्चयः हन्तव्यॊ ऽयं मम मतिर भवद्भिर इति राक्षसाः ॥ 17 ॥
इत्य उक्ता राक्षसेन्द्रेण राक्षसा घॊरविक्रमाः नैच्छन्त तं भक्षयितुं पापकर्मायम इत्य उत ॥ 18 ॥
दस्यूनां दीयताम एष साध्व अद्य पुरुषाधमः इत्य ऊचुस तं महाराज राक्षसेन्द्रं निशाचराः ॥ 19 ॥
शिरॊभिश च गता भूमिम ऊचू रक्षॊगणाधिपम न दातुम अर्हसि तवं नॊ भक्षणायास्य किल्बिषम ॥ 20 ॥
एवम अस्त्व इति तान आह राक्षसेन्द्रॊ निशाचरान दस्यूनां दीयताम एष कृतघ्नॊ ऽदयैव राक्षसाः ॥ 21 ॥
इत्य उक्ते तस्य ते दासाः शूलमुद्गर पाणयः छित्त्वा तं खण्डशः पापं दस्युभ्यः परददुस तदा ॥ 22 ॥
दस्यवश चापि नैच्छन्त तम अत्तुं पापकारिणम करव्यादा अपि राजेन्द्र कृतघ्नं नॊपभुञ्जते ॥ 23 ॥
बरह्मघ्ने च सुरापे च चॊरे भग्नव्रते तथा निष्कृतिर विहिता राजन कृतघ्ने नास्ति निष्कृतिः ॥ 24 ॥
मित्रद्रॊही नृशंसश च कृतघ्नश च नराधमः करव्यादैः कृमिभिश चान्यैर न भुज्यन्ते हि तादृशाः ॥ 25 ॥
शान्तिपर्व · Shanti Parva
अध्याय 166
Reach this point to mark the section finished.
Continue to अध्याय 167