[भ] ततः स विदितॊ राज्ञः परविश्य गृहम उत्तमम पूजितॊ राक्षसेन्द्रेण निषसादासनॊत्तमे ॥ 1 ॥
पृष्टश च गॊत्र चरणं सवाध्यायं बरह्म चारिकम न तत्र वयाजहारान्यद गॊत्र मात्राद ऋते दविजः ॥ 2 ॥
बरह्म वर्चस हीनस्य सवाध्यायविरतस्य च गॊत्र मात्रविदॊ राजा निवासं समपृच्छत ॥ 3 ॥
कव ते निवासः कल्याण किं गॊत्रा बराह्मणी च ते तत्त्वं बरूहि न भीः कार्या विश्रमस्व यथासुखम ॥ 4 ॥
[ग] मध्यदेशप्रसूतॊ ऽहं वासॊ मे शबरालये शूद्रा पुनर्भूर भार्या मे सत्यम एतद बरवीमि ते ॥ 5 ॥
[भ] ततॊ राजा विममृशे कथं कार्यम इदं भवेत कथं वा सुकृतं मे सयाद इति बुद्ध्यान्वचिन्तयत ॥ 6 ॥
अयं वै जननाद विप्रः सुहृत तस्य महात्मनः संप्रेषितश च तेनायं काश्यपेन ममान्तिकम ॥ 7 ॥
तस्य परियं करिष्यामि स हि माम आश्रितः सदा भराता मे बान्धवश चासौ सखा च हृदयंगमः ॥ 8 ॥
कार्त्तिक्याम अद्य भॊक्तारः सहस्रं मे दविजॊत्तमाः तत्रायम अपि भॊक्ता वै देयम अस्मै च मे धनम ॥ 9 ॥
ततः सहस्रं विप्राणां विदुषां समलंकृतम सनातानाम अनुसंप्राप्तम अहत कषौमवाससाम ॥ 10 ॥
तान आगतान दविजश्रेष्ठान विरूपाक्षॊ विशां पते यथार्हं परतिजग्राह विधिदृष्टेन कर्मणा ॥ 11 ॥
बृस्यस तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात भूमौ वरकुथास्तीर्णाः परेष्यैर भरतसत्तम ॥ 12 ॥
तासु ते पूजिता राज्ञा निषण्णा दविजसत्तमाः वयराजन्त महाराज नक्षत्रपतयॊ यथा ॥ 13 ॥
ततॊ जाम्बूनदाः पात्रीर वज्राङ्का विमलाः शुभाः वरान्न पूर्णा विप्रेभ्यः परादान मधु घृताप्लुताः ॥ 14 ॥
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवॊ दविजाः ईप्सितं भॊजनवरं लभन्ते सत्कृतं सदा ॥ 15 ॥
विशेषतस तु कार्त्तिक्यां दविजेभ्यः संप्रयच्छति शरद्व्यपाये रत्नानि पौर्णमास्याम इति शरुतिः ॥ 16 ॥
सुवर्णं रजतं चैव मणीन अथ च मौक्तिकम वर्जान महाधनांश चैव वैडूर्याजिन राङ्कवान ॥ 17 ॥
रत्नराशीन विनिक्षिप्य दक्षिणार्थे स भारत ततः पराह दविजश्रेष्ठान विरूपाक्षॊ महायशाः ॥ 18 ॥
गृह्णीत रत्नान्य एतानि यथॊत्साहं यथेष्टतः येषु येषु च भाण्डेषु भुक्तं वॊ दविजसत्तमाः तान्य एवादाय गच्छध्वं सववेश्मानीति भारत ॥ 19 ॥
इत्य उक्तवचने तस्मिन राक्षसेन्द्रे महात्मनि यथेष्टं तानि रत्नानि जगृहुर बराह्मणर्षभाः ॥ 20 ॥
ततॊ महार्हैस ते सर्वे रत्नैर अभ्यर्चिताः शुभैः बराह्मणा मृष्टवसनाः सुप्रीताः सम तदाभवन ॥ 21 ॥
ततस तान राक्षसेन्द्राश च दविजान आह पुनर वचः नाना दिग आगतान राजन राक्षसान परतिषिध्य वै ॥ 22 ॥
अध्यैक दिवसं विप्रा न वॊ ऽसतीह भयं कव चित राक्षसेभ्यः परमॊदध्वम इष्टतॊ यातमा चिरम ॥ 23 ॥
ततः परदुद्रुवुः सर्वे विप्र संघाः समन्ततः गौतमॊ ऽपि सुवर्णस्य भारम आदाय स तवरः ॥ 24 ॥
कृच्छ्रात समुद्वहन वीर नयग्रॊधं समुपागमत नयषीदच च परिश्रान्तः कलान्तश च कषुधितश च ह ॥ 25 ॥
ततस तमाभ्यगाद राजन राजधर्मा खगॊत्तमः सवागतेनाभ्यनन्दच च गौतमं मित्रवत्सलः ॥ 26 ॥
तस्य पक्षाग्र विक्षेपैः कलमं वयपनयत खगः पूजां चाप्य अकरॊद धीमान भॊजनं चाप्य अकल्पयत ॥ 27 ॥
स भुक्तवान सुविश्रान्तॊ गौतमॊ ऽचिन्तयत तदा हाटकस्याभिरूपस्य भारॊ ऽयं सुमहान मया गृहीतॊ लॊभमॊहाद वै दूरं च गमनं मम ॥ 28 ॥
न चास्ति पथि भॊक्तव्यं पराणसंधारणं मम किं कृत्वा धारयेयं वै परणान इत्य अभ्यचिन्तयत ॥ 29 ॥
ततः स पथि भॊक्तव्यं परेक्षमाणॊ न किं चन कृतघ्नः पुरुषव्याघ्र मनसेदम अचिन्तयत ॥ 30 ॥
अयं बकपतिः पार्श्वे मांसराशिः सथितॊ मम इमं हत्वा गृहीत्वाच यास्ये ऽहं समभिद्रुतम ॥ 31 ॥
शान्तिपर्व · Shanti Parva
अध्याय 165
Reach this point to mark the section finished.
Continue to अध्याय 166