धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 164

  1. [भ] गिरं तां मधुरां शरुत्वा गौतमॊ विस्मितस तदा कौतूहलान्वितॊ राजन राजधर्माणम ऐक्षत ॥ 1 ॥

  2. [र] भॊः कश्यपस्य पुत्रॊ ऽहं माता दाक्षायणी च मे अतिथिस तवं गुणॊपेतः सवागतं ते दविजर्षभ ॥ 2 ॥

  3. [भ] तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत ॥ 3 ॥

  4. भगीरथ रथाक्रान्तान देशान गङ्गा निषेवितान ये चरन्ति महामीनास तांश च तस्यान्वकल्पयत ॥ 4 ॥

  5. वह्निं चापि सुसंदीप्तं मीनांश चैव सुपीवरान स गौतमायातिथये नयवेदयत काश्यपः ॥ 5 ॥

  6. भुक्तवन्तं च तं विप्रं परीतात्मानं महामनाः कलमापनयनार्थं स पक्षाभ्याम अभ्यवीजयत ॥ 6 ॥

  7. ततॊ विश्रान्तम आसीनं गॊत्र परश्नम अपृच्छत सॊ ऽबरवीद गौतमॊ ऽसमीति बराह्म नान्यद उदाहरत ॥ 7 ॥

  8. तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम गन्धाढ्यं शयनं परादात स शिश्ये तत्र वै सुखम ॥ 8 ॥

  9. अथॊपविष्टं शयने गौतमं बकराट तदा पप्रच्छ काश्यपॊ वाग्मी किम आगमनकारणम ॥ 9 ॥

  10. ततॊ ऽबरवीद गौतमस तं दरिद्रॊ ऽहं महामते समुद्रगमनाकाङ्क्षी दरव्यार्थम इति भारत ॥ 10 ॥

  11. तं काश्यपॊ ऽबरवीत परीतॊ नॊत्कण्ठां कर्तुम अर्हसि कृतकार्यॊ दविजश्रेष्ठ स दरव्यॊ यास्यसे गृहान ॥ 11 ॥

  12. चतुर्विधा हय अर्थगतिर बृहस्पतिमतं यथा पारम्पर्यं तथा दैवं कर्म मित्रम इति परभॊ ॥ 12 ॥

  13. परादुर्भूतॊ ऽसमि ते मित्रं सुहृत तवं च मम तवयि सॊ ऽहं तथा यतिष्यामि भविष्यसि यथार्थवान ॥ 13 ॥

  14. ततः परभातसमये सुखं पृष्ट्वाब्रवीद इदम गच्छ सौम्य पथानेन कृतकृत्यॊ भविष्यसि ॥ 14 ॥

  15. इतस तरियॊजनं गत्वा राक्षसाधिपतिर महान विरूपाक्ष इति खयातः सखा मम महाबलः ॥ 15 ॥

  16. तं गच्छ दविजमुख्य तवं मम वाक्यप्रचॊदितः कामान अभीप्सितांस तुभ्यं दाता नास्त्य अत्र संशयः ॥ 16 ॥

  17. इत्य उक्तः परययौ राजन गौतमॊ विगतक्लमः फलान्य अमृतकल्पानि भक्षयन सम यथेष्टतः ॥ 17 ॥

  18. चन्दनागुरुमुख्यानि तवक पत्राणां वनानि च तस्मिन पथि महाराज सेवमानॊ दरुतं ययौ ॥ 18 ॥

  19. ततॊ मेरुव्रजं नाम नगरं शैलतॊरणम शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ॥ 19 ॥

  20. विदितश चाभवत तस्य राक्षसेन्द्रस्य धीमतः परहितः सुहृदा राजन परीयता वै परियातिथिः ॥ 20 ॥

  21. ततः स राक्षसेन्द्रः सवान परेष्यान आह युधिष्ठिर गौतमॊ नगरद्वाराच छीघ्रम आनीयताम इति ॥ 21 ॥

  22. ततः पुरवरात तस्मात पुरुषाः शवेतवेष्टनाः गौतमेत्य अभिभाषन्तः पुरद्वारम उपागमन ॥ 22 ॥

  23. ते तम ऊचुर महाराज परेष्या रक्षःपतेर दविजम तवरस्व तूर्णम आगच्छ राजा तवां दरष्टुम इच्छति ॥ 23 ॥

  24. राक्षसाधिपतिर वीरॊ विरूपाक्ष इति शरुतः स तवां तवरति वै दरष्टुं तत कषिप्रं संविधीयताम ॥ 24 ॥

  25. ततः स पराद्रवद विप्रॊ विस्मयाद विगतक्लमः गौतमॊ नगरर्द्धिं तां पश्यन परमविस्मितः ॥ 25 ॥

  26. तैर एव सहितॊ राज्ञॊ वेश्म तूर्णम उपाद्रवत दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणॊ दविजस तदा ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 165

Previous: अध्याय 163