[भ] तस्यां निशायां वयुष्टायां गते तस्मिन दविजॊत्तमे निष्क्रम्य गौतमॊ ऽगच्छत समुद्रं परति भारत ॥ 1 ॥
सामुद्रकान स वणिजस ततॊ ऽपश्यत सथितान पथि स तेन सार्थेन सह परययौ सागरं परति ॥ 2 ॥
स तु सार्थॊ महाराज कस्मिंश चिद गिरिगह्वरे मत्तेन दविरदेनाथ निहतः परायशॊ ऽभवत ॥ 3 ॥
स कथं चित ततस तस्मात सार्थान मुक्तॊ दविजस तदा कांदिग भूतॊ जीवितार्थी परदुद्रावॊत्तरां दिशम ॥ 4 ॥
स सर्वतः परिभ्रष्टः सार्थाद देशात तथार्थतः एकाकी वयद्रवत तत्र वने किं पुरुषॊ यथा ॥ 5 ॥
स पन्थानम अथासाद्य समुद्राभिसरं तदा आससाद वनं रम्यं महत पुष्पितपादपम ॥ 6 ॥
सर्वर्तुकैर आम्रवनैः पुष्पितैर उपशॊभितम नन्दनॊद्देश सदृशं यक्षकिंनरसेवितम ॥ 7 ॥
शालतालधवाश्वत्थत्वचागुरु वनैस तथा चन्दनस्य च मुख्यस्य पादपैर उपशॊभितम गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु ॥ 8 ॥
समन्ततॊ दविजश्रेष्ठा वल्गु कूजन्ति तत्र वै मनुष्यवदनास तव अन्ये भारुण्डा इति विश्रुताः भूलिङ्गशकुनाश चान्ये समुद्रं सर्वतॊ ऽभवन ॥ 9 ॥
स तान्य अतिमनॊज्ञानि विहंगाभिरुतानि वै शृण्वन सुरमणीयानि विप्रॊ ऽगच्छत गौतमः ॥ 10 ॥
ततॊ ऽपश्यत सुरम्ये स सुवर्णसिकताचिते देशभागे समे चित्रे सवर्गॊद्देश समप्रभे ॥ 11 ॥
शरिया जुष्टं महावृक्षं नयग्रॊधं परिमण्डलम शाखाभिर अनुरूपाभिर भूषितं छत्रसंनिभम ॥ 12 ॥
तस्य मूलं सुसंसिक्तं वरचन्दन वारिणा दिव्यपुष्पान्वितं शरीमत पितामह सदॊपमम ॥ 13 ॥
तं दृष्ट्वा गौतमः परीतॊ मुनिकान्तम अनुत्तमम मेध्यं सुरगृह परख्यं पुष्पितैः पादपैर वृतम तम आगम्य मुदा युक्तस तस्याधस्ताद उपाविशत ॥ 14 ॥
तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः पुष्पाणि समुपस्पृश्य परववाव अनिलः शुचिः हलादयन सर्वगात्राणि गौतमस्य तदा नृप ॥ 15 ॥
स तु विप्रः परिश्रान्तः सपृष्टः पुण्येन वायुना सुखम आसाद्य सुष्वाप भास्करश चास्तम अभ्यगात ॥ 16 ॥
ततॊ ऽसतं भास्करे याते संध्याकाल उपस्थिते आजगाम सवभवनं बरह्मलॊकात खगॊत्तमः ॥ 17 ॥
नाडी जङ्घ इति खयातॊ दयितॊ बरह्मणः सखा बकराजॊ महाप्राज्ञः कश्यपस्यात्मसंभवः ॥ 18 ॥
राजधर्मेति विख्यातॊ बभूवाप्रतिमॊ भुवि देवकन्या सुतः शरीमान विद्वान देवपतिप्रभः ॥ 19 ॥
मृष्टहाटक संछन्नॊ भूषणैर अर्कसंनिभैः भूषितः सर्वगात्रेषु देवगर्भः शरिया जवलन ॥ 20 ॥
तम आगतं दविजं दृष्ट्वा विस्मितॊ गौतमॊ ऽभवत कषुत्पिपासापरीतात्मा हिंसार्थी चाप्य अवैक्षत ॥ 21 ॥
[राजधर्म] सवागतं भवते विप्र दिष्ट्या पराप्तॊ ऽसि मे गृहम अस्तं च सविता यातः संध्येयं समुपस्थिता ॥ 22 ॥
मम तवं निलयं पराप्तः परियातिथिर अनिन्दितः पूजितॊ यास्यसि परातर विधिदृष्टेन कर्मणा ॥ 23 ॥
शान्तिपर्व · Shanti Parva
अध्याय 163
Reach this point to mark the section finished.
Continue to अध्याय 164