[व] इत्य उक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः पप्रच्छावसरं गत्वा भरातॄन विदुर पञ्चमान ॥ 1 ॥
धर्मे चार्थे च कामे च लॊकवृत्तिः समाहिता तेषां गरीयान कतमॊ मध्यमः कॊ लघुश च कः ॥ 2 ॥
कस्मिंश चात्मा नियन्तव्यस तरिवर्गविजयाय वै संतुष्टा नैष्ठिकं वाक्यं यथावद वक्तुम अर्हथ ॥ 3 ॥
ततॊ ऽरथगतितत्त्वज्ञः परथमं परतिभानवान जगाद विरुदॊ वाक्यं धर्मशास्त्रम अनुस्मरन ॥ 4 ॥
बाहुश्रुत्यं तपस तयागः शरद्धा यज्ञक्रिया कषमा भावशुद्धिर दया सत्यं संयमश चात्मसंपदः ॥ 5 ॥
एतद एवाभिपद्यस्व मा ते भूच चलितं मनः एतन मूलौ हि धर्मार्थाव एतद एकपदं हितम ॥ 6 ॥
धर्मेणैवर्षयस तीर्णा धर्मे लॊकाः परतिष्ठिताः धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ 7 ॥
धर्मॊ राजन गुणश्रेष्ठॊ मध्यमॊ हय अर्थ उच्यते कामॊ यवीयान इति च परवदन्ति मनीषिणः तस्माद धर्मप्रधानेन भवितव्यं यतात्मना ॥ 8 ॥
समाप्तवचने तस्मिन्न अर्थशास्त्रविशारदः पार्थॊ वाक्यार्थतत्त्वज्ञॊ जगौ वाक्यम अतन्द्रितः ॥ 9 ॥
कर्मभूमिर इयं राजन्न इह वार्ता परशस्यते कृषिवाणिज्य गॊरक्ष्यं शिल्पानि विविधानि च ॥ 10 ॥
अर्थ इत्य एव सर्वेषां कर्मणाम अव्यतिक्रमः न ऋते ऽरथेन वर्तेते धर्मकामाव इति शरुतिः ॥ 11 ॥
विजयी हय अर्थवान धर्मम आराधयितुम उत्तमम कामं च चरितुं शक्तॊ दुष्प्रापम अकृतात्मभिः ॥ 12 ॥
अर्थस्यावयवाव एतौ धर्मकामाव इति शरुतिः अर्थसिद्ध्या हि निर्वृत्ताव उभाव एतौ भविष्यतः ॥ 13 ॥
उद्भूतार्थं हि पुरुषं विशिष्टतर यॊनयः बरह्माणम इव भूतानि सततं पर्युपासते ॥ 14 ॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः मुण्डा निस्तन्तवश चापि वसन्त्य अर्थार्थिनः पृथक ॥ 15 ॥
काषायवसनाश चान्ये शमश्रुला हरीसुसंवृताः विद्वांसश चैव शान्ताश च मुक्ताः सर्वपरिग्रहैः ॥ 16 ॥
अर्थार्थिनः सन्ति के चिद अपरे सवर्गकाङ्क्षिणः कुलप्रत्यागमाश चैके सवं सवं मार्गम अनुष्ठिताः ॥ 17 ॥
आस्तिका नास्तिकाश चैव नियताः संयमे परे अप्रज्ञानं तमॊ भूतं परज्ञानं तु परकाशता ॥ 18 ॥
भृत्यान भॊगैर दविषॊ दण्डैर यॊ यॊजयति सॊ ऽरथवान एतन मतिमतां शरेष्ठ मतं मम यथातथम अनयॊस तु निबॊध तवं वचनं वाक्यकण्ठयॊः ॥ 19 ॥
ततॊ धर्मार्थकुशलौ माद्रीपुत्राव अनन्तरम नकुलः सहदेवश च वाक्यं जगदतुः परम ॥ 20 ॥
आसीनश च शयानश च विचरन्न अपि च सथितः अर्थयॊगं दृढं कुर्याद यॊगैर उच्चावचैर अपि ॥ 21 ॥
अस्मिंस तु वै सुसंवृत्ते दुर्लभे परमप्रिय इह कामान अवाप्नॊति परत्यक्षं नात्र संशयः ॥ 22 ॥
यॊ ऽरथॊ धर्मेण संयुक्तॊ धर्मॊ यश चार्थसंयुतः मध्व इवामृत संयुक्तं तस्माद एतौ मताव इह ॥ 23 ॥
अनर्थस्य न कामॊ ऽसति तथार्थॊ ऽधर्मिणः कुतः तस्माद उद्विजते लॊकॊ धर्मार्थाद यॊ बहिष्कृतः ॥ 24 ॥
तस्माद धर्मप्रधानेन साध्यॊ ऽरथः संयतात्मना विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ 25 ॥
धर्मं समाचरेत पूर्वं तथार्थं धर्मसंयुतम ततः कामं चरेत पश्चात सिद्धार्थस्य हि तत फलम ॥ 26 ॥
विरेमतुस तु तद वाक्यम उक्त्वा ताव अश्विनॊः सुतौ भीमसेनस तदा वाक्यम इदं वक्तुं परचक्रमे ॥ 27 ॥
नाकामः कामयत्य अर्थं नाकामॊ धर्मम इच्छति नाकामः कामयानॊ ऽसति तस्मात कामॊ विशिष्यते ॥ 28 ॥
कामेन युक्ता ऋषयस तपस्य एव समाहिताः पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ 29 ॥
वेदॊपवादेष्व अपरे युक्ताः सवाध्यायपारगाः शराद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ 30 ॥
वणिजः कर्षका गॊपाः कारवः शिल्पिनस तथा दैवकर्म कृतश चैव युक्ताः कामेन कर्मसु ॥ 31 ॥
समुद्रं चाविशन्त्य अन्ये नराः कामेन संयुताः कामॊ हि विविधाकारः सर्वं कामेन संततम ॥ 32 ॥
नास्ति नासीन नाभविष्यद भूतं कामात्मकात परम एतत सारं महाराज धर्मार्थाव अत्र संश्रितौ ॥ 33 ॥
नव नीतं यथा दध्नस तथा कामॊ ऽरथधर्मतः शरेयस तैलं च पिण्याकाद धृतं शरेय उदश्वितः ॥ 34 ॥
शरेयः पुष्पफलं काष्ठात कामॊ धर्मार्थयॊर वरः पुष्पितॊ मध्व इव रसः कामात संजायते सुखम ॥ 35 ॥
सुचारु वेषाभिर अलंकृताभिर; मदॊत्कटाभिः परियवादिनीभिः रमस्व यॊषाभिर उपेत्य कामं; कामॊ हि राजंस तरसाभिपाती ॥ 36 ॥
बुद्धिर ममैषा परिषत सथितस्य; मा भूद विचारस तव धर्मपुत्र सयात संहितं सद्भिर अफल्गुसारं; समेत्य वाक्यं परम आनृशंस्यम ॥ 37 ॥
धर्मार्थकामाः समम एव सेव्या; यस तव एकसेवी स नरॊ जघन्यः दवयॊस तु दक्षं परवदन्ति मध्यं; स उत्तमॊ यॊ निरतिस तरिवर्गे ॥ 38 ॥
पराज्ञः सुहृच चन्दनसारलिप्तॊ; विचित्रमाल्याभरणैर उपेतः ततॊ वचः संग्रहविग्रहेण; परॊक्त्वा यवीयान विरराम भीमः ॥ 39 ॥
ततॊ मुहूर्ताद अथ धर्मराजॊ; वाक्यानि तेषाम अनुचिन्त्य सम्यक उवाच वाचावितथं समयन वै; बहुश्रुतॊ धर्मभृतां वरिष्ठः ॥ 40 ॥
निःसंशयं निश्चित धर्मशास्त्राः; सर्वे भवन्तॊ विदितप्रमाणाः विज्ञातु कामस्य ममेह वाक्यम; उक्तं यद वै नैष्ठिकं तच छरुतं मे इह तव अवश्यं गदतॊ ममापि; वाक्यं निबॊधध्वम अनन्यभावाः ॥ 41 ॥
यॊ वै न पापे निरतॊ न पुण्ये; नार्थे न धर्मे मनुजॊ न कामे विमुक्तदॊषः समलॊष्ट काञ्चनः; स मुच्यते दुःखसुखार्थ सिद्धेः ॥ 42 ॥
भूतानि जाती मरणान्वितानि; जरा विकारैश च समन्वितानि भूयश च तैस तैः परतिबॊधितानि; मॊक्षं परशंसन्ति न तं च विद्मः ॥ 43 ॥
सनेहे न बुद्धस्य न सन्ति तानीत्य; एवं सवयम्भूर भगवान उवाच बुधाश च निर्वाणपरा वदन्ति; तस्मान न कुर्यात परियम अप्रियं च ॥ 44 ॥
एतत परधानं न तु कामकारॊ; यथा नियुक्तॊ ऽसमि तथा चरामि भूतानि सर्वाणि विधिर नियुङ्क्ते; विधिर बलीयान इति वित्तसर्वे ॥ 45 ॥
न कर्मणाप्नॊत्य अनवाप्यम अर्थं; यद भावि सर्वं भवतीति वित्त तरिवर्गहीनॊ ऽपि हि विन्दते ऽरथं; तस्माद इदं लॊकहिताय गुह्यम ॥ 46 ॥
ततस तदग्र्यं वचनं मनॊऽनुगं; समस्तम आज्ञाय ततॊ ऽतिहेतुमत तदा परणेदुश च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर अञ्जलीन ॥ 47 ॥
सुचारु वर्णाक्षर शब्दभूषितां; मनॊऽनुगां निर्धुत वाक्यकण्टकाम निशम्य तां पार्थिव पार्थ भाषितां; गिरं नरेन्द्राः परशशंसुर एव ते पुनश च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम अहीन सत्त्वः ॥ 48 ॥
शान्तिपर्व · Shanti Parva
अध्याय 161
Reach this point to mark the section finished.
Continue to अध्याय 162