[व] कथान्तरम अथासाद्य खड्गयुद्धविशारदः नकुलः शरतल्पस्थम इदम आह पितामहम ॥ 1 ॥
धनुः परहरणं शरेष्ठम इति वादः पितामह मतस तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥ 2 ॥
विशीर्णे कार्मुके राजन परक्षीणेषु च वाजिषु खड्गेन शक्यते युद्धे साध्व आत्मा परिरक्षितुम ॥ 3 ॥
शरासनधरांश चैव गदा शक्तिधरांस तथा एकः खड्गधरॊ वीरः समर्थः परतिबाधितुम ॥ 4 ॥
अत्र मे संशयश चैव कौतूहलम अतीव च किं सवित परहरणं शरेष्ठं सर्वयुद्धेषु पार्थिव ॥ 5 ॥
कथं चॊत्पादितः खड्गः कस्यार्थाय च केन वा पूर्वाचार्यं च खड्गस्य परब्रूहि परपितामह ॥ 6 ॥
तस्य तद वचनं शरुत्वा माद्रीपुत्रस्य धीमतः सर्वकौशल संयुक्तं सूक्ष्मचित्रार्थवच छुभम ॥ 7 ॥
ततस तस्यॊत्तरं वाक्यं सवरवर्णॊपपादितम शिक्षा नयायॊपसंपन्नं दरॊणशिष्याय पृच्छते ॥ 8 ॥
उवाच सर्वधर्मज्ञॊ धनुर्वेदस्य पारगः शरतल्पगतॊ भीष्मॊ नकुलाय महात्मने ॥ 9 ॥
तत्त्वं शृणुष्व माद्रेय यद एतत परिपृच्छसि परबॊधितॊ ऽसमि भवता धातुमान इव पर्वतः ॥ 10 ॥
सलिलैकार्णवं तात पुरा सर्वम अभूद इदम निष्प्रकम्पम अनाकाशम अनिर्देश्य महीतलम ॥ 11 ॥
तमः संवृतम अस्पर्शम अतिगम्भीर दर्शनम निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥ 12 ॥
सॊ ऽसृजद वायुम अग्निं च भास्करं चापि वीर्यवान आकाशम असृजच चॊर्ध्वम अधॊ भूमिं च नैरृतिम ॥ 13 ॥
नभः स चन्द्र तारं च नक्षत्राणि गरहांस तथा संवत्सरान अहॊरात्रान ऋतून अथ लवान कषणान ॥ 14 ॥
ततः शरीरं लॊकस्थं सथापयित्वा पितामहः जनयाम आस भगवान पुत्रान उत्तमतेजसः ॥ 15 ॥
मरीचिम ऋषिम अत्रिं च पुलस्त्यं पुलहं करतुम वसिष्ठाङ्गिरसौ चॊभौ रुद्रं च परभुम ईश्वरम ॥ 16 ॥
पराचेतसस तथा दक्षः कन्या षष्ठिम अजीजनत ता वै बरह्मर्षयः सर्वाः परजार्थं परतिपेदिरे ॥ 17 ॥
ताभ्यॊ विश्वानि भूतानि देवाः पितृगणास तथा गन्धर्वाप्सरसश चैव रक्षांसि विविधानि च ॥ 18 ॥
पतत्रिमृगमीनाश च पलवंगाश च महॊरगाः नानाकृति बलाश चान्ये जलक्षितिविचारिणः ॥ 19 ॥
औद्भिदाः सवेदजाश चैव अण्डजाश च जरायुजाः जज्ञे तात तथा सर्वं जगत सथावरजङ्गमम ॥ 20 ॥
भूतसर्गम इमं कृत्वा सर्वलॊकपितामहः शाश्वतं वेद पठितं धर्मं च युयुजे पुनः ॥ 21 ॥
तस्मिन धर्मे सथिता देवाः सहाचार्य पुरॊहिताः आदित्या वसवॊ रुद्राः स साध्या मरुद अश्विनः ॥ 22 ॥
भृग्वत्र्य अङ्गिरसः सिद्धाः काश्यपश च तपॊधनः वसिष्ठ गौतमागस्त्यास तथा नारद पर्वतौ ॥ 23 ॥
ऋषयॊ वालखिल्याश च परभासाः सिकतास तथा घृताचाः सॊमवायव्या वैखानस मरीचिपाः ॥ 24 ॥
अकृष्टाश चैव हंसाश च ऋषयॊ ऽथाग्नियॊनिजाः वानप्रस्थाः पृश्नयश च सथिता बरह्मानुशासने ॥ 25 ॥
दानवेन्द्रास तव अतिक्रम्य तत पितामह शासनम धर्मस्यापचयं चक्रुः करॊधलॊभ समन्विताः ॥ 26 ॥
हिरण्यकशिपुश चैव हिरण्याक्षॊ विरॊचनः शम्बरॊ विप्रचित्तिश च परह्रादॊ नमुचिर बलिः ॥ 27 ॥
एते चान्ये च बहवः सगणा दैत्यदानवाः धर्मसेतुम अतिक्रम्य रेमिरे ऽधर्मनिश्चयाः ॥ 28 ॥
सर्वे सम तुल्यजातीया यथा देवास तथा वयम इत्य एवं हेतुम आस्थाय सपर्धमानाः सुरर्षिभिः ॥ 29 ॥
न परियं नाप्य अनुक्रॊशं चक्रुर भूतेषु भारत तरीन उपायान अतिक्रम्य दण्डेन रुरुधुः परजाः न जग्मुः संविदं तैश च दर्पाद असुरसत्तमाः ॥ 30 ॥
अथ वै भगवान बरह्मा बरह्मर्षिभिर उपस्थितः तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ॥ 31 ॥
शतयॊजनविस्तारे मणिमुक्ता चयाचिते तस्मिन गिरिवरे पुत्र पुष्पितद्रुमकानने तस्थौ स विबुधश्रेष्ठॊ बरह्मा लॊकार्थ सिद्धये ॥ 32 ॥
ततॊ वर्षसहस्रान्ते वितानम अकरॊत परभुः विधिना कल्पदृष्टेन यथॊक्तेनॊपपादितम ॥ 33 ॥
ऋषिभिर यज्ञपटुभिर यथावत कर्म कर्तृभिः मरुद्भिः परिसंस्तीर्णं दीप्यमानैश च पावकैः ॥ 34 ॥
काञ्चनैर यज्ञभाण्डैश च भराजिष्णुभिर अलंकृतम वृतं देवगणैश चैव परबभौ यज्ञमण्डलम ॥ 35 ॥
तथा बरह्मर्षिभिश चैव सदस्यैर उपशॊभितम तत्र घॊरतमं वृत्तम ऋषीणां मे परिश्रुतम ॥ 36 ॥
चन्द्रमा विमलं वयॊम यथाभ्युदित तारकम विदार्याग्निं तथा भूतम उत्थितं शरूयते ततः ॥ 37 ॥
नीलॊत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशॊदरम परांशु दुर्दर्शनं चैवाप्य अतितेजस तथैव च ॥ 38 ॥
तस्मिन्न उत्पतमाने च परचचाल वसुंधरा तत्रॊर्मि कलिलावर्तश चुक्षुभे च महार्णवः ॥ 39 ॥
पेतुर उल्का महॊत्पाताः शाखाश च मुमुचुर दरुमाः अप्रसन्ना दिशः सर्वाः पवनश चाशिवॊ ववौ मुहुर मुहुश च भूतानि पराव्यथन्त भयात तथा ॥ 40 ॥
ततः सुतुमुलं दृष्ट्वा तद अद्भुतम उपस्थितम महर्षिसुरगन्धर्वान उवाचेदं पितामहः ॥ 41 ॥
मयैतच चिन्तितं भूतम असिर नामैष वीर्यवान रक्षणार्थाय लॊकस्य वधाय च सुरद्विषाम ॥ 42 ॥
ततस तद रूपम उत्सृज्य बभौ निस्त्रिंश एव सः विमलस तीक्ष्णधारश च कालान्तक इवॊद्यतः ॥ 43 ॥
ततस तं शितिकण्ठाय रुद्रायर्षभ केतवे बरह्मा ददाव असिं दीप्तम अधर्मप्रतिवारणम ॥ 44 ॥
ततः स भगवान रुद्रॊ बरह्मर्षिगणसंस्तुतः परगृह्यासिम अमेयात्मा रूपम अन्यच चकार ह ॥ 45 ॥
चतुर्बाहुः सपृशन मूर्ध्ना भूस्थितॊ ऽपि नभस्तलम ऊर्ध्वदृष्टिर महालिङ्गॊ मुखाज जवालाः समुत्सृजन विकुर्वन बहुधा वर्णान नीलपाण्डुर लॊहितान ॥ 46 ॥
बिभ्रत कृष्णाजिनं वासॊ हेमप्रवर तारकम नेत्रं चैकं ललाटेन भास्करप्रतिमं महत शुशुभाते च विमले दवे नेत्रे कृष्णपिङ्गले ॥ 47 ॥
ततॊ देवॊ महादेवः शूलपाणिर भगाक्षि हा संप्रगृह्य तु निस्त्रिंशं कालार्कानल संनिभम ॥ 48 ॥
तरिकूटं चर्म चॊद्यम्य स विद्युतम इवाम्बुदम चचार विविधान मार्गान महाबलपराक्रमः विधुन्वन्न असिम आकाशे दानवान्त चिकीर्षया ॥ 49 ॥
तस्य नादं विनदतॊ महाहासं च मुञ्चतः बभौ परतिभयं रूपं तदा रुद्रस्य भारत ॥ 50 ॥
तद रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥ 51 ॥
अश्मभिश चाप्य अवर्षन्त परदीप्तैश च तथॊल्मुकैः घॊरैः परहरणैश चान्यैः शितधारैर अयॊमुखैः ॥ 52 ॥
ततस तद दानवानीकं संप्रणेतारम अच्युतम रुद्र खड्गबलॊद्धूतं परचचाल मुमॊह च ॥ 53 ॥
चित्रं शीघ्रतरत्वाच च चरन्तम असि धारिणम तम एकम असुराः सर्वे सहस्रम इति मेनिरे ॥ 54 ॥
छिन्दन भिन्दन रुजन कृन्तन दारयन परमथन्न अपि अचरद दैत्य संघेषु रुद्रॊ ऽगनिर इव कक्षगः ॥ 55 ॥
असि वेगप्ररुग्णास ते छिन्नबाहूरुवक्षसः संप्रकृत्तॊत्तमाङ्गाश च पेतुर उर्व्यां महासुराः ॥ 56 ॥
अपरे दानवा भग्ना रुद्र घातावपीडिताः अन्यॊन्यम अभिनर्दन्तॊ दिशः संप्रतिपेदिरे ॥ 57 ॥
भूमिं के चित परविविशुः पर्वतान अपरे तथा अपरे जग्मुर आकाशम अपरे ऽमभः समाविशन ॥ 58 ॥
तस्मिन महति संवृत्ते समरे भृशदारुणे बभौ भूमिः परतिभया तदा रुधिरकर्दमा ॥ 59 ॥
दानवानां शरीरैश च महद्भिः शॊणितॊक्षितैः समाकीर्णा महाबाहॊ शैलैर इव स किंशुकैः ॥ 60 ॥
रुधिरेण परिक्लिन्ना परबभौ वसुधा तदा रक्तार्द्र वसना शयामा नारीव मदविह्वला ॥ 61 ॥
स रुद्रॊ दानवान हत्वा कृत्वा धर्मॊत्तरं जगत रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ॥ 62 ॥
ततॊ महर्षयः सर्वे सर्वे देवगणास तथा जयेनाद्भुत कल्पेन देवदेवम अथार्चयन ॥ 63 ॥
ततः स भगवान रुद्रॊ दानव कषतजॊक्षितम असिं धर्मस्य गॊप्तारं ददौ सत्कृत्य विष्णवे ॥ 64 ॥
विष्णुर मरीचये परादान मरीचिर भगवांश च तम महर्षिभ्यॊ ददौ खड्गम ऋषयॊ वासवाय तु ॥ 65 ॥
महेन्द्रॊ लॊकपालेभ्यॊ लॊकपालास तु पुत्रक मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम ॥ 66 ॥
ऊचुश चैनं तथैवाद्यं मानुषाणां तवम ईश्वरः असिना धर्मगर्भेण पालयस्व परजा इति ॥ 67 ॥
धर्मसेतुम अतिक्रान्ताः सूक्ष्मस्थूलार्थ कारणात विभज्य दण्डं रक्ष्याः सयुर धर्मतॊ न यदृच्छया ॥ 68 ॥
दुर्वाचा निग्रहॊ दण्डॊ हिरण्यबहुलस तथा वयङ्गनं च शरीरस्य वधॊ वानल्प कारणात ॥ 69 ॥
असेर एतानि रूपाणि दुर्वाचादीनि निर्दिशेत असेर एव परमाणानि परिमाण वयतिक्रमात ॥ 70 ॥
अधिसृज्याथ पुत्रं सवं परजानाम अधिपं ततः मनुः परजानां रक्षार्थं कषुपाय परददाव असिम ॥ 71 ॥
कषुपाज जग्राह चेक्ष्वाकुर इष्क्वाकॊश च पुरूरवाः आयुश च तस्माल लेभे तं नहुषश च ततॊ भुवि ॥ 72 ॥
ययातिर नहुषाच चापि पूरुस तस्माच च लब्धवान आमूर्तरयसस तस्मात ततॊ भूमिशयॊ नृपः ॥ 73 ॥
भरतश चापि दौःषन्तिर लेभे भूमिशयाद असिम तस्माच च लेभे धर्मज्ञॊ राजन्न ऐडबिडस तथा ॥ 74 ॥
ततश चैडबिडाल लेभे धुन्धुमारॊ जनेश्वरः धुन्धुमाराच च काम्बॊजॊ मुचुकुन्दस ततॊ ऽलभत ॥ 75 ॥
मुचुकुन्दान मरुत्तश च मरुत्ताद अपि रैवतः रैवताद युवनाश्वश च युवनाश्वात ततॊ रघुः ॥ 76 ॥
इष्क्वाकु वंशजस तस्माद धरिणाश्वः परतापवान हरिणाश्वाद असिं लेभे शुनकः शुनकाद अपि ॥ 77 ॥
उशीनरॊ वै धर्मात्मा तस्माद भॊजाः स यादवाः यदुभ्यश च शिबिर लेभे शिबेश चापि परतर्दनः ॥ 78 ॥
परतर्दनाद अष्टकश च रुशद अश्वॊ ऽषटकाद अपि रुशद अश्वाद भरद्वाजॊ दरॊणस तस्मात कृपस ततः ततस तवं भरातृभिः सार्धं परमासिम अवाप्तवान ॥ 79 ॥
कृत्तिकाश चास्य नक्षत्रम असेर अग्निश च दैवतम रॊहिण्यॊ गॊत्रम अस्याथ रुद्रश च गुरुर उत्तमः ॥ 80 ॥
असेर अष्टौ च नामानि रहस्यानि निबॊध मे पाण्डवेय सदा यानि कीर्तयँल लभते जयम ॥ 81 ॥
असिर विशसनः खड्गस तीक्ष्णवर्त्मा दुरासदः शरीगर्भॊ विजयश चैव धर्मपालस तथैव च ॥ 82 ॥
अग्र्यः परहरणानां च खड्गॊ माद्रवतीसुत महेश्वर परणीतश च पुराणे निश्चयं गतः ॥ 83 ॥
पृथुस तूत्पादयाम आस धनुर आद्यम अरिंदम तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥ 84 ॥
तद एतद आर्षं माद्रेय परमाणं कर्तुम अर्हसि असेश च पूजा कर्तव्या सदा युद्धविशारदैः ॥ 85 ॥
इत्य एष परथमः कल्पॊ वयाख्यातस ते सुविस्तरः असेर उत्पत्तिसंसर्गॊ यथावद भरतर्षभ ॥ 86 ॥
सर्वथैतद इह शरुत्वा खड्गसाधनम उत्तमम लभते पुरुषः कीर्तिं परेत्य चानन्त्यम अश्नुते ॥ 87 ॥
शान्तिपर्व · Shanti Parva
अध्याय 160
Reach this point to mark the section finished.
Continue to अध्याय 161