धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 159

  1. [भ] कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा ॥ 1 ॥

  2. एते वै साधवॊ दृष्टा बराह्मणा धर्मभिक्षवः अस्वेभ्यॊ देयम एतेभ्यॊ दानं विद्या विशेषतः ॥ 2 ॥

  3. अन्यत्र दक्षिणा यातु देया भरतसत्तम अन्येभ्यॊ हि बहिर वेद्यां नाकृतान्नं विधीयते ॥ 3 ॥

  4. सर्वरत्नानि राजा च यथार्हं परतिपादयेत बराह्मणाश चैव यज्ञाश च सहान्नाः सह दक्षिणाः ॥ 4 ॥

  5. यस्य तरैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये अधिकं वापि विद्येत स सॊमं पातुम अर्हति ॥ 5 ॥

  6. यज्ञश चेत परतिविद्धः सयाद अङ्गेनैकेन यज्वनः बराह्मणस्य विशेषेण धार्मिके सति राजनि ॥ 6 ॥

  7. यॊ वैश्यः सयाद बहु पशुर हीनक्रतुर असॊमपः कुटुम्बात तस्य तद दरव्यं यज्ञार्थं पार्थिवॊ हरेत ॥ 7 ॥

  8. आहरेद वेश्मतः किं चित कामं शूद्रस्य दरव्यतः न हि वेश्मनि शूद्रस्य कश चिद अस्ति परिग्रहः ॥ 8 ॥

  9. यॊ ऽनाहिताग्निः शतगुर अयज्वा च सहस्रगुः तयॊर अपि कुटुम्बाभ्याम आहरेद अविचारयन ॥ 9 ॥

  10. अदातृभ्यॊ हरेन नित्यं वयाख्याप्य नृपतिः परभॊ तथा हय आचरतॊ धर्मॊ नृपतेः सयाद अथाखिलः ॥ 10 ॥

  11. तथैव सप्तमे भक्ते भक्तानि षड अनश्नता अश्वस्तन विधानेन हर्तव्यं हीनकर्मणः खलात कषेत्रात तथागाराद यतॊ वाप्य उपपद्यते ॥ 11 ॥

  12. आख्यातव्यं नृपस्यैतत पृच्छतॊ ऽपृच्छतॊ ऽपि वा न तस्मै धारयेद दण्डं राजा धर्मेण धर्मवित ॥ 12 ॥

  13. कषत्रियस्य हि बालिश्याद बराह्मणः कलिश्यते कषुधा शरुतशीले समाज्ञाय वृत्तिम अस्य परकल्पयेत अथैनं परिरक्षेत पिता पुत्रम इवौरसम ॥ 13 ॥

  14. इष्टिं वैश्वानरीं नित्यं निर्वपेद अब्द पर्यये अविकल्पः पुरा धर्मॊ धर्मवादैस तु केवलम ॥ 14 ॥

  15. विश्वैस तु देवैः साध्यैश च बराह्मणैश च महर्षिभिः आपत्सु मरणाद भीतैर लिङ्गप्रतिनिधिः कृतः ॥ 15 ॥

  16. परभुः परथमकल्पस्य यॊ ऽनुकल्पेन वर्तते न साम्परायिकं तस्य दुर्मतेर विद्यते फलम ॥ 16 ॥

  17. न बराह्मणान वेदयेत कश चिद राजनि मानवः अवीर्यॊ वेदनाद विद्यात सुवीर्यॊ वीर्यवत्तरम ॥ 17 ॥

  18. तस्माद राज्ञा सदा तेजॊ दुःसहं बरह्मवादिनाम मन्ता शास्ता विधाता च बराह्मणॊ देव उच्यते तस्मिन नाकुशलं बरूयान न शुक्ताम ईरयेद गिरम ॥ 18 ॥

  19. कषत्रियॊ बाहुवीर्येण तरत्य आपदम आत्मनः धनेन वैश्यः शूद्रश च मन्त्रैर हॊमैश च वै दविजः ॥ 19 ॥

  20. न वै कन्या न युवतिर नामन्त्रॊ न च बालिशः परिवेष्टाग्निहॊत्रस्य भवेन नासंस्कृतस तथा नरके निपतन्त्य एते जुह्वानाः स च यस्य तत ॥ 20 ॥

  21. पराजापत्यम अदत्त्वाश्वम अग्न्याधेयस्य दक्षिणाम अनाहिताग्निर इति स परॊच्यते धर्मदर्शिभिः ॥ 21 ॥

  22. पुण्यान्य अन्यानि कुर्वीत शरद्दधानॊ जितेन्द्रियः अनाप्त दक्षिणैर यज्ञैर न यजेत कथं चन ॥ 22 ॥

  23. परजाः पशूंश च सवर्गं च हन्ति यज्ञॊ हय अदक्षिणः इन्द्रियाणि यशः कीर्तिम आयुश चास्यॊपकृन्तति ॥ 23 ॥

  24. उदक्या हय आसते ये च ये च के चिद अनग्नयः कुलं चाश्रॊत्रियं येषां सर्वे ते शूद्र धर्मिणः ॥ 24 ॥

  25. उदपानॊदके गरामे बराह्मणॊ वृषली पतिः उषित्वा दवादश समाः शूद्र कर्मेह गच्छति ॥ 25 ॥

  26. अनर्यां शयने बिभ्रद उज्झन बिभ्रच च यॊ दविजाम अब्राह्मणॊ मन्यमानस तृणेष्व आसीत पृष्ठतः तथा स शुध्यते राजञ शृणु चात्र वचॊ मम ॥ 26 ॥

  27. यद एकरात्रेण करॊति पापं; कृष्णं वर्णं बराह्मणः सेवमानः सथानासनाभ्यां विचरन वरती संस; तरिभिर वर्षैः शमयेद आत्मपापम ॥ 27 ॥

  28. न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले न गुर्वर्थे नात्मनॊ जीवितार्थे; पञ्चानृतान्य आहुर अपातकानि ॥ 28 ॥

  29. शरद्दधानः शुभां विद्यां हीनाद अपि समाचरेत सुवर्णम अपि चामेध्याद आददीतेति धारणा ॥ 29 ॥

  30. सत्रीरत्नं दुष्कुलाच चापि विषाद अप्य अमृतं पिबेत अदुष्टा हि सत्रियॊ रत्नम आप इत्य एव धर्मतः ॥ 30 ॥

  31. गॊब्राह्मण हितार्थं च वर्णानां संकरेषु च गृह्णीयात तु धनुर वैश्यः परित्राणाय चात्मनः ॥ 31 ॥

  32. सुरा पानं बरह्महत्या गुरु तल्पम अथापि वा अनिर्देश्यानि मन्यन्ते पराणान्तानीति धारणा ॥ 32 ॥

  33. सुवर्णहरणं सतैन्यं विप्रा सङ्गश च पातकम विहरन मद्य पानं चाप्य अगम्या गमनं तथा ॥ 33 ॥

  34. पतितैः संप्रयॊगाच च बराह्मणैर यॊनितस तथा अचिरेण महाराज तादृशॊ वै भवत्य उत ॥ 34 ॥

  35. संवत्सरेण पतति पतितेन सहाचरन याजन धयापनाद यौनान न तु यानासनाशनात ॥ 35 ॥

  36. एतानि च ततॊ ऽनयानि निर्देश्यानीति धारणा निर्देश्यकेन विधिना कालेनाव्यसनी भवेत ॥ 36 ॥

  37. अन्नं तिर्यङ न हॊतव्यं परेतकर्मण्य अपातिते तरिषु तव एतेषु पूर्वेषु न कुर्वीत विचारणाम ॥ 37 ॥

  38. अमात्यान वा गुरून वापि जह्याद धर्मेण धार्मिकः परायश्चित्तम अकुर्वाणैर नैतैर अर्हति संविदम ॥ 38 ॥

  39. अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम बरुवन सतेन इति सतेनं तावत पराप्नॊति किल्बिषम अस्तेनं सतेन इत्य उक्त्वा दविगुणं पापम आप्नुयात ॥ 39 ॥

  40. तरिभागं बरह्महत्यायाः कन्या पराप्नॊति दुष्यती यस तु दूषयिता तस्याः शेषं पराप्नॊति किल्बिषम ॥ 40 ॥

  41. बराह्मणायावगूर्येह सपृष्ट्वा गुरुतरं भवेत वर्षाणां हि शतं पापः परतिष्ठां नाधिगच्छति ॥ 41 ॥

  42. सहस्रं तव एव वर्षाणां निपात्य नरके वसेत तस्मान नैवावगूर्याद धि नैव जातु निपातयेत ॥ 42 ॥

  43. शॊणितं यावतः पांसून संगृह्णीयाद दविज कषतात तावतीः स सभा राजन नरके परिवर्तते ॥ 43 ॥

  44. भरूणहाहवमध्ये तु शुध्यते शस्त्रपातितः आत्मानं जुहुयाद वह्नौ समिद्धे तेन शुध्यति ॥ 44 ॥

  45. सुरापॊ वारुणीम उष्णां पीत्वा पापाद विमुच्यते तया स काये निर्दग्धे मृत्युना परेत्य शुध्यति लॊकांश च लभते विप्रॊ नान्यथा लभते हि सः ॥ 45 ॥

  46. गुरु तल्पम अधिष्ठाय दुरात्मा पापचेतनः सूर्मीं जवलन्तीम आश्लिष्य मृत्युना स विशुध्यति ॥ 46 ॥

  47. अथ वा शिश्नवृषणाव आदायाञ्जलिना सवयम नैरृतीं दिशम आस्थाय निपतेत स तव अजिह्मगः ॥ 47 ॥

  48. बराह्मणार्थे ऽपि वा पराणान संत्यजेत तेन शुध्यति अश्वमेधेन वापीष्ट्वा गॊमेधेनापि वा पुनः अग्निष्टॊमेन वा सम्यग इह परेत्य च पूयते ॥ 48 ॥

  49. तथैव दवादश समाः कपाली बरह्महा भवेत बरह्म चारि चरेद भैक्षं सवकर्मॊदाहरन मुनिः ॥ 49 ॥

  50. एवं वा तपसा युक्तॊ बरह्महा सवनी भवेत एवं वा गर्भम अज्ञाता चात्रेयीं यॊ ऽभिगच्छति दविगुणा बरह्महत्या वय आत्रेयी वयसने भवेत ॥ 50 ॥

  51. सुरापॊ नियताहारॊ बरह्म चारी कषमा चरः ऊर्ध्वं तरिभ्यॊ ऽथ वर्षेभ्यॊ जयेताग्निष्टुता परम ऋषभैक सहस्रं गा दत्त्वा शुभम अवाप्नुयात ॥ 51 ॥

  52. वैश्यं हत्वा तु वर्षे दवे ऋषभैक शताश च गाः शूद्रं हत्वाब्दम एवैकम ऋषभैकादशाश च गाः ॥ 52 ॥

  53. शवबर्बर खरान हत्वा शौद्रम एव वरतं चरेत मार्जारचाष मण्डूकान काकं भासं च मूषकम ॥ 53 ॥

  54. उक्तः पशुसमॊ धर्मॊ राजन पराणि निपातनात परायश्चित्तान्य अथान्यानि परवक्ष्याम्य अनुपूर्वशः ॥ 54 ॥

  55. तल्पे चान्यस्य चौर्ये च पृथक संवत्सरं चरेत तरीणि शरॊत्रिय भार्यायां परदारे तु दवे समृते ॥ 55 ॥

  56. काले चतुर्थे भुञ्जानॊ बरह्म चारी वरती भवेत सथानासनाभ्यां विहरेत तरिर अह्नॊ ऽभयुदिताद अपः एवम एव निराचान्तॊ यश चाग्नीन अपविध्यति ॥ 56 ॥

  57. तयजत्य अकारणे यश च पितरं मातरं तथा पतितः सयात स कौरव्य तथा धर्मेषु निश्चयः ॥ 57 ॥

  58. गरासाच्छादनम अत्यर्थं दद्याद इति निदर्शनम भार्यायां वयभिचारिण्यां निरुद्धायां विशेषतः यत पुंसां परदारेषु तच चैनां चारयेद वरतम ॥ 58 ॥

  59. शरेयांसं शयने हित्वा या पापीयांसम ऋच्छति शवभिस तां खादयेद राजा संस्थाने बहु संवृते ॥ 59 ॥

  60. पुमांसं बन्धयेत पराज्ञः शयने तप्त आयसे अप्य आदधीत दारूणि तत्र दह्येत पापकृत ॥ 60 ॥

  61. एष दण्डॊ महाराज सत्रीणां भर्तृव्यतिक्रमे संवत्सराभिशस्तस्य दुष्टस्य दविगुणॊ भवेत ॥ 61 ॥

  62. दवे तस्य तरीणि वर्षाणि चत्वारि सह सेविनः कुचरः पञ्चवर्षाणि चरेद भैक्षं मुनिव्रतः ॥ 62 ॥

  63. परिवित्तिः परिवेत्ता यया च परिविद्यते पाणिग्राहश च धर्मेण सर्वे ते पतिताः समृताः ॥ 63 ॥

  64. चरेयुः सर्व एवैते वीरहा यद वरतं चरेत चान्द्रायणं चरेन मासं कृच्छ्रं वा पापशुद्धये ॥ 64 ॥

  65. परिवेत्ता परयच्छेत परिवित्ताय तां सनुषाम जयेष्ठेन तव अभ्यनुज्ञातॊ यवीयान परत्यनन्तरम एनसॊ मॊक्षम आप्नॊति सा च तौ चैव धर्मतः ॥ 65 ॥

  66. अमानुषीषु गॊवर्जम अनावृष्टिर न दुष्यति अधिष्ठातारम अत्तारं पशूनां पुरुषं विदुः ॥ 66 ॥

  67. परिधायॊर्ध्व वालं तु पात्रम आदाय मृन्मयम चरेत सप्त गृहान भैक्षं सवकर्म परिकीर्तयन ॥ 67 ॥

  68. तत्रैव लब्धभॊजी सयाद दवादशाहात स शुध्यति चरेत संवत्सरं चापि तद वरतं यन निराकृति ॥ 68 ॥

  69. भवेत तु मानुषेष्व एवं परायश्चित्तम अनुत्तमम दानं वादान सक्तेषु सर्वम एव परकल्पयेत अनास्तिकेषु गॊमात्रं पराणम एकं परचक्षते ॥ 69 ॥

  70. शववराह मनुष्याणां कुक्कुटस्य खरस्य च मांसं मूत्र पुरीषं च पराश्य संस्कारम अर्हति ॥ 70 ॥

  71. बराह्मणस्य सुरापस्य गन्धम आघ्राय सॊमपः अपस तर्यहं पिबेद उष्णास तर्यहम उष्णं पयः पिबेत तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम ॥ 71 ॥

  72. एवम एतत समुद्दिष्टं परायश्चित्तं सनातनम बराह्मणस्य विशेषेण तत्त्वज्ञानेन जायते ॥ 72 ॥

Reach this point to mark the section finished.

Continue to अध्याय 160

Previous: अध्याय 158