धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 158

  1. [य] आनृशंस्यं विजानामि दर्शनेन सतां सदा नृशंसान न विजानामि तेषां कर्म च भारत ॥ 1 ॥

  2. कण्टकान कूपम अग्निं च वर्जयन्ति यथा नराः तथा नृशंसकर्माणं वर्जयन्ति नरा नरम ॥ 2 ॥

  3. नृशंसॊ हय अधमॊ नित्यं परेत्य चेह च भारत तस्माद बरवीहि कौरव्य तस्य धर्मविनिश्चयम ॥ 3 ॥

  4. [भ] सपृहास्यान्तर्हिता चैव विदितार्था च कर्मणा आक्रॊष्टा करुश्यते चैव बन्धिता बध्यते च यः ॥ 4 ॥

  5. दत्तानुकीर्ति विषमः कषुद्रॊ नैकृतिकः शठः असंभॊगी च मानी च तथा सङ्गी विकत्थनः ॥ 5 ॥

  6. सर्वातिशङ्की परुषॊ बालिशः कृपणस तथा वर्ग परशंसी सततम आश्रमद्वेषसंकरी ॥ 6 ॥

  7. हिंसाविहारी सततम अविशेष गुणागुणः बह्व अलीकॊ मनस्वी च लुब्धॊ ऽतयर्थं नृशंसकृत ॥ 7 ॥

  8. धर्मशीलं गुणॊपेतं पाप इत्य अवगच्छति आत्मशीलानुमानेन न विश्वसिति कस्य चित ॥ 8 ॥

  9. परेषां यत्र दॊषः सयात तद गुह्यं संप्रकाशयेत समानेष्व एव दॊषेषु वृत्त्यर्थम उपघातयेत ॥ 9 ॥

  10. तथॊपकारिणं चैव मन्यते वञ्चितं परम दत्त्वापि च धनं काले संतपत्य उपकारिणे ॥ 10 ॥

  11. भक्ष्यं भॊज्यम अथॊ लेह्यं यच चान्यत साधु भॊजनम परेक्षमाणेषु यॊ ऽशनीयान नृशंस इति तं विदुः ॥ 11 ॥

  12. बराह्मणेभ्यः परदायाग्रं यः सुहृद्भिः सहाश्नुते स परेत्य लभते सवर्गम इह चानन्त्यम अश्नुते ॥ 12 ॥

  13. एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः सदा विवर्जनीयॊ वै पुरुषेण बुभूषता ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 159

Previous: अध्याय 157