धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 157

  1. [य] यतः परभवति करॊधः कामश च भरतर्षभ शॊकमॊहौ विवित्सा च परासुत्वं तथा मदः ॥ 1 ॥

  2. लॊभॊ मात्सर्यम ईर्ष्या च कुत्सासूया कृपा तथा एतत सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥ 2 ॥

  3. [भ] तरयॊदशैते ऽतिबलाः शत्रवः पराणिनां समृताः उपासते महाराज समस्ताः पुरुषान इह ॥ 3 ॥

  4. एते परमत्तं पुरुषम अप्रमत्ता नुदन्ति हि वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान ॥ 4 ॥

  5. एभ्यः परवर्तते दुःखम एभ्यः पापं परवर्तते इति मर्त्यॊ विजानीयात सततं भरतर्षभ ॥ 5 ॥

  6. एतेषाम उदयं सथानं कषयं च पुरुषॊत्तम हन्त ते वर्तयिष्यामि तन मे निगदतः शृणु ॥ 6 ॥

  7. लॊभात करॊधः परभवति परदॊषैर उदीर्यते कषमया तिष्ठते राजञ शरीमांश च विनिवर्तते ॥ 7 ॥

  8. संकल्पाज जायते कामः सेव्यमानॊ विवर्धते अवद्य दर्शनाद वयेति तत्त्वज्ञाना च धीमताम ॥ 8 ॥

  9. विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्प बुद्धयः विवित्सा जायते तत्र तत्त्वज्ञानान निवर्तते ॥ 9 ॥

  10. परीतेः शॊकः परभवति वियॊगात तस्य देहिनः यदा निरर्थकं वेत्ति तदा सद्यः परणश्यति ॥ 10 ॥

  11. परासुता करॊधलॊभाद अभ्यासाच च परवर्तते दयया सर्वभूतानां निर्वेदात सा निवर्तते ॥ 11 ॥

  12. सत्त्वत्यागात तु मात्सर्यम अहितानि च सेवते एतत तु कषीयते तात साधूनाम उपसेवनात ॥ 12 ॥

  13. कुलाज जञानात तथैश्वर्यान मदॊ भवति देहिनाम एभिर एव तु विज्ञातैर मदः सद्यः परणश्यति ॥ 13 ॥

  14. ईर्ष्या कामात परभवति संघर्षाच चैव भारत इतरेषां तु मर्त्यानां परज्ञया सा परणश्यति ॥ 14 ॥

  15. विभ्रमाल लॊकबाह्यानां दवेष्यैर वाक्यैर असंगतैः कुत्सा संजायते राजन्न उपेक्षाभिः परशाम्यति ॥ 15 ॥

  16. परतिकर्तुम अशक्याय बलस्थायापकारिणे असूया जायते तीव्रा कारुण्याद विनिवर्तते ॥ 16 ॥

  17. कृपणान सततं दृष्ट्वा ततः संजायते कृपा धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ 17 ॥

  18. एतन्य एव जितान्य आहुः परशमाच च तरयॊदश एते हि धार्तराष्ट्राणां सर्वे दॊषास तरयॊदश तवया सर्वात्मना नित्यं विजिता जेष्यसे च तान ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 158

Previous: अध्याय 156