[य] सत्यं धर्मे परशंसन्ति विप्रर्षिपितृदेवताः सत्यम इच्छाम्य अहं शरॊतुं तन मे बरूहि पितामह ॥ 1 ॥
सत्यं किं लक्षणं राजन कथं वा तद अवाप्यते सत्यं पराप्य भवेत किं च कथं चैव तद उच्यते ॥ 2 ॥
[भ] चातुर्वर्ण्यस्य धर्माणां संकरॊ न परशस्यते अविकारितमं सत्यं सर्ववर्णेषु भारत ॥ 3 ॥
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः सत्यम एव नमस्येत सत्यं हि परमा गतिः ॥ 4 ॥
सत्यं धर्मस तपॊयॊगः सत्यं बरह्म सनातनम सत्यं यज्ञः परः परॊक्तः सत्ये सर्वं परतिष्ठितम ॥ 5 ॥
आचारान इह सत्यस्य यथावद अनुपूर्वशः लक्षणं च परवक्ष्यामि सत्यस्येह यथाक्रमम ॥ 6 ॥
पराप्यते हि यथासत्यं तच च शरॊतुं तवम अर्हसि सत्यं तरयॊदश विधं सर्वलॊकेषु भारत ॥ 7 ॥
सत्यं च समता चैव दमश चैव न संशयः अमात्सर्यं कषमा चैव हरीस तितिक्षानसूयता ॥ 8 ॥
तयागॊ धयानम अथार्यत्वं धृतिश च सततं सथिरा अहिंसा चैव राजेन्द्र सत्याकारास तरयॊदश ॥ 9 ॥
सत्यं नामाव्ययं नित्यम अविकारि तथैव च सर्वधर्माविरुद्धं च यॊगेनैतद अवाप्यते ॥ 10 ॥
आत्मनीष्टे तथानिष्टे रिपौ च समता तथा इच्छा दवेषक्षयं पराप्य कामक्रॊधक्षयं तथा ॥ 11 ॥
दमॊ नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम एव च अभयं करॊधशमनं जञानेनैतद अवाप्यते ॥ 12 ॥
अमात्सर्यं बुधाः पराहुर दानं धर्मे च संयमम अवस्थितेन नित्यं च सत्येनामत्सरी भवेत ॥ 13 ॥
अक्षमायाः कषमायाश च परियाणीहाप्रियाणि च कषमते सर्वतः साधुः साध्व आप्नॊति च सत्यवान ॥ 14 ॥
कल्याणं कुरुते गाढं हरीमान न शलाघते कव चित परशान्तवान मना नित्यं हरीस तु धर्माद अवाप्यते ॥ 15 ॥
धर्मार्थहेतॊः कषमते तितिक्षा कषान्तिर उच्यते लॊकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते ॥ 16 ॥
तयागः सनेहस्य यस तयागॊ विषयाणां तथैव च रागद्वेषप्रहीणस्य तयागॊ भवति नान्यथा ॥ 17 ॥
आर्यता नाम भूतानां यः करॊति परयत्नतः शुभं कर्म निराकारॊ वीतरागत्वम एव च ॥ 18 ॥
धृतिर नाम सुखे दुःखे यथा नाप्नॊति विक्रियाम तां भजेत सदा पराज्ञॊ य इच्छेद भूतिम आत्मनः ॥ 19 ॥
सर्वथा कषमिणा भाव्यं तथा सत्यपरेण च वीतहर्षभयक्रॊधॊ धृतिम आप्नॊति पण्डितः ॥ 20 ॥
अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा अनुग्रहश च दानं च सतां धर्मः सनातनः ॥ 21 ॥
एते तरयॊदशाकाराः पृथक सत्यैक लक्षणाः भजन्ते सत्यम एवेह बृंहयन्ति च भारत ॥ 22 ॥
नान्तः शक्यॊ गुणानां हि वक्तुं सत्यस्य भारत अतः सत्यं परशंसन्ति विप्राः स पितृदेवताः ॥ 23 ॥
नास्ति सत्यात परॊ धर्मॊ नानृतात पातकं परम सथितिर हि सत्यं धर्मस्य तस्मात सत्यं न लॊपयेत ॥ 24 ॥
उपैति सत्याद दानं हि तथा यज्ञाः स दक्षिणाः वरताग्निहॊत्रं वेदाश च ये चान्ये धर्मनिश्चयाः ॥ 25 ॥
अश्वमेध सहस्रं च सत्यं च तुलया धृतम अश्वमेध सहस्राद धि सत्यम एवातिरिच्यते ॥ 26 ॥
शान्तिपर्व · Shanti Parva
अध्याय 156
Reach this point to mark the section finished.
Continue to अध्याय 157