धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 155

  1. [भ] सर्वम एतत तपॊ मूलं कवयः परिचक्षते न हय अतप्त तपा मूढः करियाफलम अवाप्यते ॥ 1 ॥

  2. परजापतिर इदं सर्वं तपसैवासृजत परभुः तथैव वेदान ऋषयस तपसा परतिपेदिरे ॥ 2 ॥

  3. तपसॊ हय आनुपूर्व्येण फलमूलानिलाशनाः तरीँल लॊकांस तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥ 3 ॥

  4. औषधान्य अगदादीनि तिस्रॊ विद्याश च संस्कृताः तपसैव हि सिध्यन्ति तपॊ मूलं हि साधनम ॥ 4 ॥

  5. यद दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम सर्वं तत तपसा शक्यं तपॊ हि दुरतिक्रमम ॥ 5 ॥

  6. सुरापॊ ऽसंमतादायी भरूणहा गुरुतल्पगः तपसैव सुतप्तेन नरः पापाद विमुच्यते ॥ 6 ॥

  7. तपसॊ बहुरूपस्य तैस तैर दवारैः परवर्ततः निवृत्त्या वर्तमानस्य तपॊ नानशनात परम ॥ 7 ॥

  8. अहिंसा सत्यवचनं दानम इन्द्रियनिग्रहः एतेभ्यॊ हि महाराज तपॊ नानशनात परम ॥ 8 ॥

  9. न दुष्करतरं दानान नातिमातरम आश्रमः तरैविद्येभ्यः परं नास्ति संन्यासः परमं तपः ॥ 9 ॥

  10. इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये तस्माद अर्थे च धर्मे च तपॊ नानशनात परम ॥ 10 ॥

  11. ऋषयः पितरॊ देवा मनुष्या मृगसत्तमाः यानि चान्यानि भूतानि सथावराणि चराणि च ॥ 11 ॥

  12. तपः परायणाः सर्वे सिध्यन्ति तपसा च ते इत्य एवं तपसा देवा महत्त्वं चाप्य अवाप्नुवन ॥ 12 ॥

  13. इमानीष्ट विभागानि फलानि तपसा सदा तपसा शक्यते पराप्तुं देवत्वम अपि निश्चयात ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 156

Previous: अध्याय 154