धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 154

  1. [य] सवाध्यायकृतयत्नस्य बराह्मणस्य पितामह धर्मकामस्य धर्मात्मन किं नु शरेय इहॊच्यते ॥ 1 ॥

  2. बहुधा धर्शने लॊके शरेयॊ यद इह मन्यसे अस्मिँल लॊके परे चैव तन मे बरूहि पितामह ॥ 2 ॥

  3. महान अयं धर्मपथॊ बहुशाखश च भारत किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम ॥ 3 ॥

  4. धर्मस्य महतॊ राजन बहुशाखस्य तत्त्वतः यन मूलं परमं तात तत सर्वं बरूह्य अतन्द्रितः ॥ 4 ॥

  5. [भ] हन्त ते कथयिष्यामि येन शरेयः परपत्स्यसे पीत्वामृतम इव पराज्ञॊ जञानतृप्तॊ भविष्यसि ॥ 5 ॥

  6. धर्मस्य विधयॊ नैके ते ते परॊक्ता महर्षिभिः सवं सवं विज्ञानम आश्रित्य दमस तेषां परायणम ॥ 6 ॥

  7. दमं निःश्रेयसं पराहुर वृद्धा निश्चयदर्शिनः बराह्मणस्य विशेषेण दमॊ धर्मः सनातनः ॥ 7 ॥

  8. नादान्तस्य करिया सिद्धिर यथावद उपलभ्यते दमॊ दानं तथा यज्ञान अधीतं चातिवर्तते ॥ 8 ॥

  9. दमस तेजॊ वर्धयति पवित्रं च दमः परम विपाप्मा तेजसा युक्तः पुरुषॊ विन्दते महत ॥ 9 ॥

  10. दमेन सदृशं धर्मं नान्यं लॊकेषु शुश्रुम दमॊ हि परमॊ लॊके परशस्तः सर्वधर्मिणाम ॥ 10 ॥

  11. परेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम दमेन हि समायुक्तॊ महान्तं धर्मम अश्नुते ॥ 11 ॥

  12. सुखं दान्तः परस्वपिति सुखं च परतिबुध्यते सुखं पर्येति लॊकांश च मनश चास्य परसीदति ॥ 12 ॥

  13. अदान्तः पुरुषः कलेशम अभीक्ष्णं परतिपद्यते अनर्थांश च बहून अन्यान परसृजत्य आत्मदॊषजान ॥ 13 ॥

  14. आश्रमेषु चतुर्ष्व आहुर दमम एवॊत्तमं वरतम तस्य लिङ्गानि वक्ष्यामि येषां समुदयॊ दमः ॥ 14 ॥

  15. कषमा धृतिर अहिंसा च समता सत्यम आर्जवम इन्द्रियावजयॊ दाक्ष्यं मार्दवं हरीर अचापलम ॥ 15 ॥

  16. अकार्पण्यम असंरम्भः संतॊषः परियवादिता अविवित्सानसूया चाप्य एषां समुदयॊ दमः ॥ 16 ॥

  17. गुरु पूजा च कौरव्य दया भूतेष्व अपैशुनम जनवादॊ ऽमृषा वादः सतुतिनिन्दा विवर्जनम ॥ 17 ॥

  18. कामः करॊधश च लॊभश च दर्पः सतम्भॊ विकत्थनम मॊह ईर्ष्यावमानश चेत्य एतद दान्तॊ न सेवते ॥ 18 ॥

  19. अनिन्दितॊ हय अकामात्माथाल्पेच्छॊ ऽथानसूयकः समुद्रकल्पः स नरॊ न कदा चन पूर्यते ॥ 19 ॥

  20. अहं तवयि मम तवं च मयि ते तेषु चाप्य अहम पूर्वसंबन्धिसंयॊगान नैतद दान्तॊ निषेवते ॥ 20 ॥

  21. सर्वा गराम्यास तथारण्या याश च लॊके परवृत्तयः निन्दां चैव परशंसां च यॊ नाश्रयति मुच्यते ॥ 21 ॥

  22. मैत्रॊ ऽथ शीलसंपन्नः सुसहाय परश च यः मुक्तश च विविधैः सङ्गैस तस्य परेत्य महत फलम ॥ 22 ॥

  23. सुवृत्तः शीलसंपन्नः परसन्नात्मात्मविद बुधः पराप्येह लॊके सत्कारं सुगतिं परतिपद्यते ॥ 23 ॥

  24. कर्म यच छुभम एवेह सद्भिर आचरितं च यत तद एव जञानयुक्तस्य मुनेर धर्मॊ न हीयते ॥ 24 ॥

  25. निष्क्रम्य वनम आस्थाय जञानयुक्तॊ जितेन्द्रियः कालाकाङ्क्षी चरन्न एवं बरह्मभूयाय कल्पते ॥ 25 ॥

  26. अभयं यस्य भूतेभ्यॊ भूतानाम अभयं यतः तस्य देहाद विमुक्तस्य भयं नास्ति कुतश चन ॥ 26 ॥

  27. अवाचिनॊति कर्माणि न च संप्रचिनॊति ह समः सर्वेषु भूतेषु मैत्रायण गतिश चरेत ॥ 27 ॥

  28. शकुनीनाम इवाकाशे जले वारि चरस्य वा यथागतिर न दृश्येत तथा तस्य न संशयः ॥ 28 ॥

  29. गृहान उत्सृज्य यॊ राजन मॊक्षम एवाभिपद्यते लॊकास तेजॊमयास तस्य कल्पन्ते शाश्वतीः समाः ॥ 29 ॥

  30. संन्यस्य सर्वकर्माणि संन्यस्य विधिवत तपः संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥ 30 ॥

  31. कामेषु चाप्य अनावृत्तः परसन्नात्मात्मविच छुचिः पराप्येह लॊके सत्कारं सवर्गं समभिपद्यते ॥ 31 ॥

  32. यच च पैतामहं सथानं बरह्मराशि समुद्भवम गुहायां पिहितं नित्यं तद दमेनाभिपद्यते ॥ 32 ॥

  33. जञानारामस्य बुद्धस्य सर्वभूताविरॊधिनः नावृत्ति भयम अस्तीह परलॊके भयं कुतः ॥ 33 ॥

  34. एक एव दमे दॊषॊ दवितीयॊ नॊपपद्यते यद एनं कषमया युक्तम अशक्तं मन्यते जनः ॥ 34 ॥

  35. एतस्य तु महाप्राज्ञ दॊषस्य सुमहान गुणः कषमायां विपुला लॊकाः सुलभा हि सहिष्णुना ॥ 35 ॥

  36. दान्तस्य किम अरण्येन तथादान्तस्य भारत यत्रैव हि वसेद दान्तस तद अरण्यं स आश्रमः ॥ 36 ॥

  37. [व] एतद भीष्मस्य वचनं शरुत्वा राजा युधिष्ठिरः अमृतेनेव संतृप्तः परहृष्टः समपद्यत ॥ 37 ॥

  38. पुनश च परिपप्रच्छ भीष्मं धर्मभृतां वरम तपः परति स चॊवाच तस्मै सर्वं कुरूद्वह ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 155

Previous: अध्याय 153