धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 153

  1. [य] अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः ॥ 1 ॥

  2. [भ] करॊति पापं यॊ ऽजञानान नात्मनॊ वेत्ति च कषमम परद्वेष्टि साधुवृत्तांश च स लॊकस्यैति वाच्यताम ॥ 2 ॥

  3. अज्ञानान निरयं याति तथाज्ञानेन दुर्गतिम अज्ञानात कलेशम आप्नॊति तथापत्सु निमज्जति ॥ 3 ॥

  4. [य] अज्ञानस्य परवृत्तिं च सथानं वृद्धिं कषयॊदयौ मूलं यॊगं गतिं कालं कारणं हेतुम एव च ॥ 4 ॥

  5. शरॊतुम इच्छामि तत्त्वेन यथावद इह पार्थिव अज्ञानप्रभवं हीदं यद दुःखम उपलभ्यते ॥ 5 ॥

  6. [भ] रागॊ दवेषस तथा मॊहॊ हर्षः शॊकॊ ऽभिमानिता कामः करॊधश च दर्पश च तन्द्रीर आलस्यम एव च ॥ 6 ॥

  7. इच्छा दवेषस तथा तापः परवृद्ध्य उपतापिता अज्ञानम एतन निर्दिष्टं पापानां चैव याः करियाः ॥ 7 ॥

  8. एतया या परवृत्तिश च वृद्ध्यादीन यांश च पृच्छसि विस्तरेण महाबाहॊ शृणु तच च विशां पते ॥ 8 ॥

  9. उभाव एतौ समफलौ समदॊषौ च भारत अज्ञानं चातिलॊभश चाप्य एकं जानीहि पार्थिव ॥ 9 ॥

  10. लॊभप्रभवम अज्ञानं वृद्धं भूयः परवर्धते सथाने सथानं कषये कषैण्यम उपैति विविधां गतिम ॥ 10 ॥

  11. मूलं लॊभस्य महतः कालात्म गतिर एव च छिन्ने ऽचछिन्ने तथा लॊभे कारणं काल एव हि ॥ 11 ॥

  12. तस्याज्ञानात तु लॊभॊ हि लॊभाद अज्ञानम एव च सर्वे दॊषास तथा लॊभात तस्माल लॊभं विवर्जयेत ॥ 12 ॥

  13. जनकॊ युवनाश्वश च वृषादर्भिः परसेनजित लॊभक्षयाद दिवं पराप्तास तथैवान्ये जनाधिपाः ॥ 13 ॥

  14. परत्यक्षं तु कुरुश्रेष्ठ तयज लॊभम इहात्मना तयक्त्वा लॊभं सुखं लॊके परेत्य चानुचरिष्यसि ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 154

Previous: अध्याय 152