धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 152

  1. [य] पापस्य यद अधिष्ठानं यतः पापं परवर्तते एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ ॥ 1 ॥

  2. [भ] पापस्य यद अधिष्ठानं तच छृणुष्व नराधिप एकॊ लॊभॊ महाग्राहॊ लॊभात पापं परवर्तते ॥ 2 ॥

  3. अतः पापम अधर्मश च तथा दुःखम अनुत्तमम निकृत्या मूलम एतद धि येन पापकृतॊ जनाः ॥ 3 ॥

  4. लॊभात करॊधः परभवति लॊभात कामः परवर्तते लॊभान मॊहश च माया च मानस्तम्भः परासुता ॥ 4 ॥

  5. अक्षमा हरीपरित्यागः शरीनाशॊ धर्मसंक्षयः अभिध्या परज्ञता चैव सर्वं लॊभात परवर्तते ॥ 5 ॥

  6. अन्यायश चावितर्कश च विकर्मसु च याः करियाः कूटविद्यादयश चैव रूपैश्वर्यमदस तथा ॥ 6 ॥

  7. सर्वभूतेष्व अविश्वासः सर्वभूतेष्व अनार्जवम सर्वभूतेष्व अभिद्रॊहः सर्वभूतेष्व अयुक्तता हरणं परवित्तानां परदाराभिमर्शनम ॥ 7 ॥

  8. वाग वेगॊ मानसॊ वेगॊ निन्दा वेगस तथैव च उपस्थॊदरयॊर वेगॊ मृत्युवेगश च दारुणः ॥ 8 ॥

  9. ईर्ष्या वेगश च बलवान मिथ्या वेगश च दुस्त्यजः रसवेगश च दुर्वारः शरॊत्रवेगश च दुःसहः ॥ 9 ॥

  10. कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता साहसानां च सर्वेषाम अकार्याणां करियास तथा ॥ 10 ॥

  11. जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः न संत्यजत्य आत्मकर्म यन न जीर्यति जीर्यतः ॥ 11 ॥

  12. यॊ न पूरयितुं शक्यॊ लॊभः पराप्त्या कुरूद्वह नित्यं गम्भीरतॊयाभिर आपगाभिर इवॊदधिः न परहृष्यति लाभैर यॊ यश च कामैर न तृप्यति ॥ 12 ॥

  13. यॊ न देवैर न गन्धर्वैर नासुरैर न महॊरगैः जञायते नृप तत्त्वेन सर्वैर भूतगणैस तथा स लॊभः सह मॊहेन विजेतव्यॊ जितात्मना ॥ 13 ॥

  14. दम्भॊ दरॊहश च निन्दा च पैशुन्यं मत्सरस तथा भवन्त्य एतानि कौरव्य लुब्धानाम अकृतात्मनाम ॥ 14 ॥

  15. सुमहान्त्य अपि शास्त्राणि धारयन्ति बहुश्रुताः छेत्तारः संशयानां च कलिश्यन्तीहाल्प बुद्धयः ॥ 15 ॥

  16. दवेषक्रॊधप्रसक्ताश च शिष्टाचार बहिष्कृताः अन्तः कषुरा वान मधुराः कूपाश छन्नास तृणैर इव धर्मवैतंसिकाः कषुद्रा मुष्णन्ति धवजिनॊ जगत ॥ 16 ॥

  17. कुर्वते च बहून मार्गांस तांस तान हेतुबलाश्रिताः सर्वं मार्गं विलुम्पन्ति लॊभाज्ञानेषु निष्ठिताः ॥ 17 ॥

  18. धर्मस्याह्रियमाणस्य लॊभग्रस्तैर दुरात्मभिः याया विक्रियते संस्था ततः साभिप्रपद्यते ॥ 18 ॥

  19. दर्पः करॊधॊ मदः सवप्नॊ हर्षः शॊकॊ ऽतिमानिता तत एव हि कौरव्य दृश्यन्ते लुब्ध बुद्धिषु एतान अशिष्टान बुध्यस्व नित्यं लॊभसमन्वितान ॥ 19 ॥

  20. शिष्टांस तु परिपृच्छेथा यान वक्ष्यामि शुचिव्रतान येषु वृत्ति भयं नास्ति परलॊकभयं न च ॥ 20 ॥

  21. नामिषेषु परसङ्गॊ ऽसति न परियेष्व अप्रियेषु च शिष्टाचारः परियॊ येषु दमॊ येषु परतिष्ठितः ॥ 21 ॥

  22. सुखं दुःखं परं येषां सत्यं येषां परायणम दातारॊ न गृहीतारॊ दयावन्तस तथैव च ॥ 22 ॥

  23. पितृदेवातिथेयाश च नित्यॊद्युक्तास तथैव च सर्वॊपकारिणॊ धीराः सर्वधर्मानुपालकाः ॥ 23 ॥

  24. सर्वभूतहिताश चैव सर्वदेयाश च भारत न ते चालयितुं शक्या धर्मव्यापार पारगाः ॥ 24 ॥

  25. न तेषां भिद्यते वृत्तं यत पुरा साधुभिः कृतम न तरासिनॊ न चपला न रौद्राः सत्पथे सथिताः ॥ 25 ॥

  26. ते सेव्याः साधुभिर नित्यं येष्व अहिंसा परतिष्ठिता कामक्रॊधव्यपेता ये निर्ममा निरहंकृताः सुव्रताः सथिरमर्यादास तान उपास्स्व च पृच्छ च ॥ 26 ॥

  27. न गवार्थं यशॊऽरथं वा धर्मस तेषां युधिष्ठिर अवश्य कार्य इत्य एव शरीरस्य करियास तथा ॥ 27 ॥

  28. न भयं करॊधचापल्यं न शॊकस तेषु विद्यते न धर्मध्वजिनश चैव न गुह्यं किं चिद आस्थिताः ॥ 28 ॥

  29. येष्व अलॊभस तथामॊहॊ ये च सत्यार्जवे रताः तेषु कौन्तेय रज्येथा येष्व अतन्द्री कृतं मनः ॥ 29 ॥

  30. ये न हृष्यन्ति लाभेषु नालाभेषु वयथन्ति च निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः ॥ 30 ॥

  31. लाभालाभौ सुखदुःखे च तात; परियाप्रिये मरणं जीवितं च समानि येषां सथिरविक्रमाणां; बुद्धात्मनां सत्त्वम अवस्थितानाम ॥ 31 ॥

  32. सुखप्रियैस तान सुमहाप्रतापान; यत्तॊ ऽपरमत्तश च समर्थयेथाः दैवात सर्वे गुणवन्तॊ भवन्ति; शुभाशुभा वाक परलापा यथैव ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 153

Previous: अध्याय 151