धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 151

  1. [भ] एवम उक्त्वा तु राजेन्द्र शल्मलिं बरह्मवित्तमः नारदः पवने सर्वं शल्मलेर वाक्यम अब्रवीत ॥ 1 ॥

  2. हिमवत्पृष्ठजः कश चिच छल्मलिः परिवारवान बृहन मूलॊ बृहच छाखः स तवां वायॊ ऽवमन्यते ॥ 2 ॥

  3. बहून्य आक्षेप युक्तानि तवाम आह वचनानि सः न युक्तानि मया वायॊ तानि वक्तुं तवयि परभॊ ॥ 3 ॥

  4. जानामि तवाम अहं वायॊ सर्वप्राणभृतां वरम वरिष्ठं च गरिष्ठं च करॊधे वैवस्वतं यथा ॥ 4 ॥

  5. एवं तु वचनं शरुत्वा नारदस्य समीरणः शल्मलिं तम उपागम्य करुद्धॊ वचनम अब्रवीत ॥ 5 ॥

  6. शल्मले नारदे यत तत तवयॊक्तं मद विगर्हणम अहं वायुः परभावं ते दर्शयाम्य आत्मनॊ बलम ॥ 6 ॥

  7. नाहं तवा नाभिजानामि विदितश चासि मे दरुम पितामहः परजा सर्गे तवयि विश्रान्तवान परभुः ॥ 7 ॥

  8. तस्य विश्रमणाद एव परसादॊ यः कृतस तव रक्ष्यसे तेन दुर्बुद्धे नात्म वीर्याद दरुमाधम ॥ 8 ॥

  9. यन मा तवम अवजानीषे यथान्यं पराकृतं तथा दर्शयाम्य एष आत्मानं यथा माम अवभॊत्स्यसे ॥ 9 ॥

  10. एवम उक्तस ततः पराह शल्मलिः परहसन्न इव पवनत्वं वने करुद्धॊ दर्शयात्मानम आत्मना ॥ 10 ॥

  11. मयि वै तयज्यतां करॊधः किं मे करुद्धः करिष्यसि न ते बिभेमि पवनयद्य अपि तवं सवयंप्रभुः ॥ 11 ॥

  12. इत्य एवम उक्तः पवनः शव इत्य एवाब्रवीद वचः दर्शयिष्यामि ते तेजस ततॊ रात्रिर उपागमत ॥ 12 ॥

  13. अथ निश्चित्य मनसा शल्मलिर वातकारितम पश्यमानस तदात्मानम असमं मातरिश्वनः ॥ 13 ॥

  14. नारदे यन मया परॊक्तं पवनं परति तन मृषा असमर्थॊ हय अहं वायॊर बलेन बलवान हि सः ॥ 14 ॥

  15. मारुतॊ बलवान नित्यं यथैनं नारदॊ ऽबरवीत अहं हि दुर्बलॊ ऽनयेभ्यॊ वृक्षेभ्यॊ नात्र संशयः ॥ 15 ॥

  16. किं तु बुद्ध्या समॊ नास्ति मम कश चिद वनस्पतिः तद अहं बुद्धिम आस्थाय भयं मॊक्ष्ये समीरणात ॥ 16 ॥

  17. यदि तां बुद्धिम आस्थाय चरेयुः पर्णिनॊ वने अरिष्टाः सयुः सदा करुद्धात पवनान नात्र संशयः ॥ 17 ॥

  18. ते ऽतर बाला न जानन्ति यथा नैनान समीरणः समीरयेत संक्रुद्धॊ यथा जानाम्य अहं तथा ॥ 18 ॥

  19. ततॊ निश्चित्य मनसा शल्मलिः कषुभितस तदा शाखाः सकन्धान परशाखाश च सवयम एव वयशातयत ॥ 19 ॥

  20. स परित्यज्य शाखाश च पत्राणि कुसुमानि च परभाते वायुम आयान्तं परत्यैक्षत वनस्पतिः ॥ 20 ॥

  21. ततः करुद्धः शवसन वायुः पातयन वै महाद्रुमान आजगामाथ तं देशं सथितॊ यत्र स शल्मलिः ॥ 21 ॥

  22. तं हीनपर्णं पतिताग्र शाखं; विशीर्णपुष्पं परसमीक्ष्य वायुः उवाच वाक्यं समयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम ॥ 22 ॥

  23. अहम अप्य एवम एव तवां कुर्वाणः शल्मले रुषा आत्मना यत्कृतं कृत्स्नं शाखानाम अपकर्षणम ॥ 23 ॥

  24. हीनपुष्पाग्र शाखस तवं शीर्णाङ्कुर पलाशवान आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगॊ ऽभवः ॥ 24 ॥

  25. एतच छरुत्वा वचॊ वायॊः शल्मलिर वरीडितस तदा अतप्यत वचः समृत्वा नारदॊ यत तद अब्रवीत ॥ 25 ॥

  26. एवं यॊ राजशार्दूल दुर्बलः सन बलीयसा वैरम आसज्जते बालस तप्यते शल्मलिर यथा ॥ 26 ॥

  27. तस्माद वैरं न कुर्वीत दुर्बलॊ बलवत्तरैः शॊचेद धि वैरं कुर्वाणॊ यथा वै शल्मलिस तथा ॥ 27 ॥

  28. न हि वैरं महात्मानॊ विवृण्वन्त्य अपकारिषु शनैः शनैर महाराज दर्शयन्ति सम ते बलम ॥ 28 ॥

  29. वैरं न कुर्वीत नरॊ दुर्बुद्धिर बुद्धिजीविना बुद्धिर बुद्धिमतॊ याति तूलेष्व इव हुताशनः ॥ 29 ॥

  30. न हि बुद्ध्या समं किं चिद विद्यते पुरुषे नृप तथा बलेन राजेन्द्र न समॊ ऽसतीति चिन्तयेत ॥ 30 ॥

  31. तस्मात कषमेत बालाय जडाय बधिराय च बलाधिकाय राजेन्द्र तद दृष्टं तवयि शत्रुहन ॥ 31 ॥

  32. अक्षौहिण्यॊ दशैका च सप्त चैव महाद्युते बलेन न समा राजन्न अर्जुनस्य महात्मनः ॥ 32 ॥

  33. हतास ताश चैव भग्नाश च पाण्डवेन यशस्विना चरता बलम आस्थाय पाकशासनिना मृधे ॥ 33 ॥

  34. उक्तास ते राजधर्माश च आपद धर्माश च भारत विस्तरेण महाराज किं भूयः परब्रवीमि ते ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 152

Previous: अध्याय 150