[ष] तस्मात ते ऽहं परवक्ष्यामि धर्मम आवृत्तचेतसे शरीमान महाबलस तुष्टॊ यस तवं धर्मम अवेक्षसे पुरस्ताद दारुणॊ भूत्वा सुचित्रतरम एव तत ॥ 1 ॥
अनुगृह्णन्ति भूतानि सवेन वृत्तेन पार्थिव कृत्स्ने नूनं सद असती इति लॊकॊ वयवस्यति यत्र तवं तादृशॊ भूत्वा धर्मम अद्यानुपश्यसि ॥ 2 ॥
हित्वा सुरुचिरं भक्ष्यं भॊगांश च तप आस्थितः इत्य एतद अपि भूतानाम अद्भुतं जनमेजय ॥ 3 ॥
यॊ दुर्बलॊ भवेद दाता कृपणॊ वा तपॊधनः अनाश्चर्यं तद इत्य आहुर नातिदूरे हि वर्तते ॥ 4 ॥
एतद एव हि कार्पण्यं समग्रम असमीक्षितम तस्मात समीक्षयैव सयाद भवेत तस्मिंस ततॊ गुणः ॥ 5 ॥
यज्ञॊ दानं दया वेदाः सत्यं च पृथिवीपते पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥ 6 ॥
तद एव राज्ञां परमं पवित्रं जनमेजय तेन सम्यग गृहीतेन शरेयांसं धर्मम आप्स्यसि ॥ 7 ॥
पुण्यदेशाभिगमनं पवित्रं परमं समृतम अपि हय उदाहरन्तीमा गाथा गीता ययातिना ॥ 8 ॥
यॊ मर्त्यः परतिपद्येत आयुर जीवेत वा पुनः यज्ञम एकान्ततः कृत्वा तत संन्यस्य तपश चरेत ॥ 9 ॥
पुण्यम आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम यत्रावगाह्य पीत्वा वा नैवं शवॊ मरणं तपेत ॥ 10 ॥
महासुरः पुष्कराणि परभासॊत्तर मानसे कालॊदं तव एव गन्तासि लब्धायुर जीविते पुनः ॥ 11 ॥
सरस्वती दृषद्वत्यौ सेवमानॊ ऽनुसंचरेः सवाध्यायशीलः सथानेषु सर्वेषु समुपस्पृशेः ॥ 12 ॥
तयागधर्मं पवित्राणां संन्यासं परम अब्रवीत अत्राप्य उदाहरन्तीमा गाथाः सत्यवता कृताः ॥ 13 ॥
यथा कुमारः सत्यॊ वै न पुण्यॊ न च पापकृत न हय अस्ति सर्वभूतेषु दुःखम अस्मिन कुतः सुखम ॥ 14 ॥
एवं परकृतिभूतानां सर्वसंसर्ग यायिनाम तयजतां जीवितं परायॊ विवृते पुण्यपातके ॥ 15 ॥
यत तव एव राज्ञॊ जयायॊ वै कार्याणां तद वदामि ते बलेन संविभागैश च जय सवर्गं पुनीष्व च ॥ 16 ॥
यस्यैवं बलम ओजश च स धर्मस्य परभुर नरः बराह्मणानां सुखार्थं तवं पर्येहि पृथिवीम इमाम ॥ 17 ॥
यथैवैनान पुराक्षैप्सीस तथैवैनान परसादय अपि धिक करियमाणॊ ऽपि तयज्यमानॊ ऽपय अनेकधा ॥ 18 ॥
आत्मनॊ दर्शनं विद्वन नाहन्तास्मीति मा करुधः घटमानः सवकार्येषु कुरु नैःश्रेयसं परम ॥ 19 ॥
हिमाग्नि घॊरसदृशॊ राजा भवति कश चन लाङ्गलाशनि कल्पॊ वा भवत्य अन्यः परंतप ॥ 20 ॥
न निःशेषेण मन्तव्यम अचिकित्स्येन वा पुनः न जातु नाहम अस्मीति परसक्तव्यम असाधुषु ॥ 21 ॥
विकर्मणा तप्यमानः पादात पापस्य मुच्यते नैतत कार्यं पुनर इति दवितीयात परिमुच्यते चरिष्ये धर्मम एवेति तृतीयात परिमुच्यते ॥ 22 ॥
कल्याणन अनुमन्तव्यं पुरुषेण बुभूषता ये सुगन्धीनि सेवन्ते तथा गन्धा भवन्ति ते ये दुर्गन्धीनि सेवन्ते तथा गन्धा भवन्ति ते ॥ 23 ॥
तपश्चर्या परः सद्यः पापाद धि परिमुच्यते संवत्सरम उपास्याग्निम अभिशस्तः परमुच्यते तरीणि वर्षाण्य उपास्याग्निं भरूणहा विप्रमुच्यते ॥ 24 ॥
यावतः पराणिनॊ हन्यात तज जातीयान सवभावतः परमीयमाणान उन्मॊच्य भरूणहा विप्रमुच्यते ॥ 25 ॥
अपि वाप्सु निमज्जेत तरिर जपन्न अघ मर्षणम यथाश्वमेधावभृथस तथा तन मनुर अब्रवीत ॥ 26 ॥
कषिप्रं परणुदते पापं सत्कारं लभते तथा अपि चैनं परसीदन्ति भूतानि जड मूकवत ॥ 27 ॥
बृहस्पतिं देव गुरुं सुरासुराः; समेत्य सर्वे नृपते ऽनवयुञ्जन धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन नरके पापलॊके ॥ 28 ॥
उभे तु यस्य सुकृते भवेतां; किं सवित तयॊस तत्र जयॊत्तरं सयात आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः ॥ 29 ॥
[ब] कृत्वा पापं पूर्वम अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम स तत पापं नुदते पुण्यशीलॊ; वासॊ यथा मलिनं कषार युक्त्या ॥ 30 ॥
पापं कृत्वा न मन्येत नाहम अस्मीति पूरुषः चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः ॥ 31 ॥
छिद्राणि वसनस्येव साधुना विवृणॊति यः यः पापं पुरुषः कृत्वा कल्याणम अभिपद्यते ॥ 32 ॥
यथादित्यः पुनर उद्यंस तमः सर्वं वयपॊहति कल्याणम आचरन्न एवं सर्वं पापं वयपॊहति ॥ 33 ॥
[भ] एवम उक्त्वा स राजानम इन्द्रॊतॊ जनमेजयम याजयाम आस विधिवद वाजिमेधेन शौनकः ॥ 34 ॥
ततः स राजा वयपनीतकल्मषः; शरिया युतः परज्वलिताग्निरूपया विवेश राज्यं सवम अमित्रकर्शनॊ; दिवं यथा पूर्णवपुर निशाकरः ॥ 35 ॥
शान्तिपर्व · Shanti Parva
अध्याय 148
Reach this point to mark the section finished.
Continue to अध्याय 149