धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 147

  1. [भ] एवम उक्तः परत्युवाच तं मुनिं जनमेजयः गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान ॥ 1 ॥

  2. धिक कार्यं मा धिक कुरुते तस्मात तवाहं परसादये सर्वं हीदं सवकृतं मे जवलाम्य अग्नाव इवाहितः ॥ 2 ॥

  3. सवकर्माण्य अभिसंधाय नाभिनन्दति मे मनः पराप्तं नूनं मया घॊरं भयं वैवस्वताद अपि ॥ 3 ॥

  4. तत तु शल्यम अनिर्हृत्य कथं शक्ष्यामि जीवितुम सर्वमन्यून विनीय तवम अभि मा वद शौनक ॥ 4 ॥

  5. महानसं बराह्मणानां भविष्याम्य अर्थवान पुनः अस्तु शेषं कुलस्यास्य मा पराभूद इदं कुलम ॥ 5 ॥

  6. न हि नॊ बरह्म शप्तानां शेषॊ भवितुम अर्हति शरुतीर अलभमानानां संविदं वेद निश्चयात ॥ 6 ॥

  7. निर्विद्यमानः सुभृशं भूयॊ वक्ष्यामि सांप्रतम भूयश चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ॥ 7 ॥

  8. अर्वाक च परतितिष्ठन्ति पुलिन्द शबरा इव न हय अयज्ञा अमुं लॊकं पराप्नुवन्ति कथं चन ॥ 8 ॥

  9. अविज्ञायैव मे परज्ञां बालस्येव सुपण्डितः बरह्मन पितेव पुत्रेभ्यः परति मां वाञ्छ शौनकः ॥ 9 ॥

  10. [ष] किम आश्चर्यं यतः पराज्ञॊ बहु कुर्याद धि सांप्रतम इति वै पण्डितॊ भूत्वा भूतानां नॊपतप्यति ॥ 10 ॥

  11. परज्ञा परासादम आरुह्य अशॊच्यः शॊचते जनान जगतीस्थान इवाद्रिस्थः परज्ञया परतिपश्यति ॥ 11 ॥

  12. न चॊपलभते तत्र न च कार्याणि पश्यति निर्विण्णात्मा परॊक्षॊ वा धिक्कृतः सर्वसाधुषु ॥ 12 ॥

  13. विदित्वॊभयतॊ वीर्यं माहात्म्यं वेद आगमे कुरुष्वेह महाशान्तिं बरह्मा शरणम अस्तु ते ॥ 13 ॥

  14. तद वै पारत्रिकं चारु बराह्मणानाम अकुप्यताम अथ चेत तप्यसे पापैर धर्मं चेद अनुपश्यसि ॥ 14 ॥

  15. [ज] अनुतप्ये च पापेन न चाधर्मं चराम्य अहम बुभूषुं भजमानं च परतिवाञ्छामि शौनक ॥ 15 ॥

  16. [ष] छित्त्वा सतम्भं च मानं च परीतिम इच्छामि ते नृप सर्वभूतहिते तिष्ठ धर्मं चैव परतिस्मर ॥ 16 ॥

  17. न भयान न च कार्पण्यान न लॊभात तवाम उपाह्वये तां मे देवा गिरं सत्यां शृण्वन्तु बराह्मणैः सह ॥ 17 ॥

  18. सॊ ऽहं न केन चिच चार्थी तवां च धर्मम उपाह्वये करॊशतां सर्वभूतानाम अहॊ धिग इति कुर्वताम ॥ 18 ॥

  19. वक्ष्यन्ति माम अधर्मज्ञा वक्ष्यन्त्य असुहृदॊ जनाः वाचस ताः सुहृदः शरुत्वा संज्वरिष्यन्ति मे भृशम ॥ 19 ॥

  20. के चिद एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम जानीहि मे कृतं तात बराह्मणान परति भारत ॥ 20 ॥

  21. यथा ते मत्कृते कषेमं लभेरंस तत तथा कुरु परतिजानीहि चाद्रॊहं बराह्मणानां नराधिप ॥ 21 ॥

  22. [ज] नैव वाचा न मनसा न पुनर्जातु कर्मणा दरॊग्धास्मि बराह्मणान विप्र चरणाव एव ते सपृशे ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 148

Previous: अध्याय 146